This page has been fully proofread twice.

यदि तवाभिलषितं तदा तमेव लोकान्तराशयं रचयामि । तदा जगाद सा । स च निजावलोकना-
तङ्कावलोकनापर्याप्तावशेषनीयः । नेत्रे एव तस्य रूपग्रहनिग्रहे विधातव्ये । ततः स देवतादम्भो बभाण ।
अहं मायेरिणी देवता तथा करिष्यामि यथा तस्य नयने कनीनिकाकान्त्यादिगुणयुक्ते स्तः । परं
सर्वस्यां नेत्रसौन्दर्यसामग्र्यां विद्यमानायामपि तन्नयनेया गरीयसी पीडा प्रादुर्भविष्यति । ततस्तदुपा -
यपरिचयवशाद्विषयाग्रहमपि शनैः परिशीलयिष्यति । ततः सा पुनरपि प्राणंसीदिष्टदेवताम् । ततो
देवता पुनस्तामूचे । भक्तजनचक्रवर्तिनि तर्ह्येवं साधय । प्रतिदिनमन्यैः पक्वान्नैः तस्य भोजनमातृप्तिकरं
प्रयोक्तव्यम् । एतावता दृशौ स्वत एव गमिष्यतः । इत्यनुज्ञामभ्यर्थ्य प्रमुदितमानसा प्रगुणितोत्साहविशेषा
निजनिकेतनमयासीत् । ततः सावधाना पायसमपाक्षीत् । ततः समये तस्मिन्द्विजोत्तमो ऽसौ ग्राममध्यतो
गृहमात्मीयमागत्य गृहिणीमभाषीत् । स्नानसंध्योपासनादिमाध्यंदिनं विधिं समापयाम । यादृशं विद्यते
सद्मनि तदेव परिवेषय । बुभुक्षा बहुधा बाधते । तन्निशम्य सा प्रासूत वाचम् । क्षणमत्र उपविशन्तु ।
पर्युषितमन्धः किमित्यभ्यवहरन्ति । ततो ऽतिरुचिरं विचित्रपक्तं विरच्य तस्मै परिविष्य देवतायै संकल्प्य
तृप्तिपर्यवसानं द्विजोत्तमाय प्रायच्छत् । विभावरीभोजननिमित्तमपि तथैव तया निरमायि । इति
प्रतिदिनं विदधाति । ततः पञ्चषैर्घस्रैर्नयनयोरुदियाय पीडा । प्रियामवादीत् । मदीयनयनयोः पीडा-
तिविकारिणी कालकालाकलितलवाद्यवयवेषु मुहुर्मुहुस्त्वरबाधागरीयस्त्वमुरीकृत्य प्रवरीवर्ति स्म ।
अन्यच्चाहं पुरोऽवस्थितं रूपं पश्यामि न निश्चितगत्या । आन्ध्याविर्भावोपक्रमो ऽपि जायमानो दृश्यते ।
तथा तथा सातिशयादरपरिभाविता प्रयत्नविशेषं विशदयति । ततो ऽन्यैः कैश्चन दिनैर्नाहं चक्षुर्भ्यां
लक्षयामीति ब्रुवाणो गृहमध्य एव गच्छन्किमपि वस्तु लुण्ठयति स्खलनाभिनयेन भिनत्ति पात्रीप्रभृति ।
द्वारिगन्तव्यादर्शनमधिश्रयणीसांनिध्यं याति । द्वारं कुत्रास्ति । तर्हि दर्शयतामिति । निर्निमित्तं मम
नेत्रयोरेतत्किमजायतेत्यभिधाय मन्दिरमध्य एव मूत्रमुत्सृजति । शर्वर्यां महीयसी बाधेत्यभिधाय
विलपति । तां प्रति व्याहरत्यहर्निशम् । मदीयनेत्राभिव्यक्तदुःसहपीडापाकरणाय कमपि प्रयत्नप्रकारं
चिकित्सितपरिकल्पितविविधौषधसामग्रीसंपादनेन प्रतिबन्धप्रबन्धानुसंधानमाधत्स्व । इतरथा भृशोद-
ग्रतयैव व्यथया प्राणा अप्युपगन्तारः । तन्निशमनात्सापि व्याहार्षीत् । अन्यैरपि कियद्भिरहोभिः सा-
धीयसी चक्षुषी भवतां भविष्यतः । धैर्यमवलम्बत । किमिति बालकप्रलापकौश<error>ल्प</error><fix>ल्य</fix>परिशीलनेन । ततो
ऽसावन्वहं परिदेवितो ऽधिकतया । ततः सततविसृमरसंतमसान्धानुवशतां नयनयोर्निर्णीय तथा निज
उपरमणो निकेतने समानिन्ये । तस्य कपटान्धस्याध्यक्षं द्वावपि सुखेन तिष्ठतः । तदासौ कपटान्धो
बभाण गृहिणीम् । मदीयनेत्रे तु गते । अहमन्धः संजातः । त्वमनधिगतावधिक्रियामाजन्मनो मदीयोपासनं
चिकीर्षसि परिश्राम्यसि । तर्हि मम हस्ते मुसलमेकमर्पय । तथाहं तत्परिकल्पितवर्त्मा तदवष्टम्भबलेन
चरणन्यासं विदधन्मूत्रणाय बहिर्गच्छामि । तदानीं तया तस्मै साधीयान्सरलो महानेको लगुडो
बलावष्टम्भनाय प्रददे । स तु ब्राह्मणो लगुडपाणिः अन्धत्वाभिनयेन तिष्ठति । तौ द्वावपि सुखेन
निवसतः । एतावता तेनोपपतिना प्रतिदिनमन्तरागम्यते । उपवेशिते सति एतेषां चरणौ निश्चित्य
गृहान्तराकारयतात् । इतीदृशमादरविशेषं व्यधात् । ततो ऽसौ गदापर्वाख्यानमाख्यातुमुपचक्रमे । ततो
घृतान्धो ऽभ्यधात् । गदापर्वाख्यानमुहूर्तमाकारयिष्ये । प्रत्यहमिह भवद्भिः सदायातव्यम् । भवतामहं
गदापर्वाख्याखर्वगर्वपर्वबधिर इत्थं दुर्वहमुद्रानिर्वाहविभेदकं सर्वसुरपर्वप्रतिपर्वचर्वितनिर्वितथनिर्वा -
सनोदित्वरसुकृतसर्वस्वं वरिवसितशर्वकृपाकटाक्षच्छटाक्षिप्रसादाभिव्यञ्जकं भवञ्च्चित्तलयविशेषसंपोषक -
सर्वोद्योगेनाङ्गेषु समापयिष्ये । इत्यवगन्तव्यम् । अनेन प्रकारेण स उपपतिः प्रतिदिनं द्विजोत्तमात्तस्मा -
द्गदापर्वपुराणं शृणोति । घृतान्धश्च तं प्रति व्याचष्टे । सा च तत्पत्न्युपपतिना समं भावविलासा -
दिक्रीडाविनोदनं प्रतिदिनं निर्विशति । स तु ब्राह्मणो घृतान्धो दृग्भ्यां कलयन्प्रचण्डलगुडं करे
कलयंस्तिष्ठति । एकस्मिन्दिने लगुडपाणिना प्रत्यैक्षि । उत्थाय भीमसेनस्तु गदां समुद्यम्य सर्वोद्योगेन