This page has been fully proofread once and needs a second look.

स्म।ततो ऽसौ तेनैव छन्देन गन्तुं प्रावर्तत । इत्थं कूलंकषाकूले निवसन्भरद्वाजः पक्षी भेकाक्रान्तशिरोदेशं

सर्पमालोक्याहासीत् । पक्षिहासमभिवीक्ष्य दर्वीकरो गिरं किरति स्म । भरद्वाज कस्मादहसि त्वया ।

ततः सो ऽप्यवदत् । विपरीतनिरीक्षणेन मम हास्याविर्भावः समजायत । तत्किंनाम वैपरीत्यमित्युक्ते

पक्षी विचिक्षेप वाचम् । भवतां कुण्डलिनामाहारभूता भेकाः । स चेद्भवन्मूर्धानमारुह्योपविशति तदा

हास्यसमुन्मिषदास्यं बोभवीति । ततः सर्प उवाच ।
 

किं हससि भरद्वाज सर्पी दर्दुरवाहनः ।

कालच्छन्देन वर्तेत घृतान्धो ब्राह्मणो यथा ॥
 
341
 

ततो भरद्वाजो बिभरांबभूव भारतीम् । घृतान्धाग्रजनुरुदन्तमुदीरयतां भवानिति निशम्य पतगोक्तां

वाचं व्यञ्जयत् । ब्रह्मपुरनाम्न्यग्रहारे क्षेमंकरीरो ब्राह्मणः । तस्य भायीर्या अतिचलाचला । स तु परिलसदस-

मकुसुमशरासारप्रहारव्यथापरिनिष्ठितधैर्यः सर्वस्वसंसारसारभूतपञ्चबाणोपासनसामस्त्योपदेशिककटा - 10
 
अध्वा जरा मनु

क्षलक्
ष्याणामनध्वा वाजिनां जरा ।
असंगमो जरा स्त्रीणामश्वानां मैथुनं जरा ॥
 
5
 
ऽसितबहिरबहिरवस्तु-
वनिनीषति म
 
चलच्
याभिव्यक्तानन्द समुदयपरिमृदिताशेषक्लेशस्थिरीकृतहृदयाचिदुदयोल्लासो
ऽङ्खितबहिरबहिरवस्तु -
वस्तुविन्यस्तान्तरकलनाकलपञ्चमप्रपञ्चविपञ्चितविपञ्चीपरिवादिनीध्याननिमीलितनयनो
ऽवनिनीषति स्म
दिनानि । स तु तस्याः पतिः न तस्यै सुरतं वितरति । अद्यामावास्या व्यतीपातो वैधृताः पौर्णमासी

दशम्येकादश्यष्टमी युगादिर्मन्वादिः संक्रान्तिश्चतुर्दशी इत्यादिपर्वविशेषसञ्जनेन मासस्य मध्ये संभोगे

विशेषतः प्रसङ्गो न जाघटीति । इत्यंथं तस्या मन्मथोपभोगवासना न कदाप्यापूर्यते । इति सति कदाचन 15

तया स्वचेतसा व्यवचिन्तितम् । संसारे विषयोपभोगसारे समुत्पन्नया मया न कदाचिदपि विषया -

नुशीलनमुखमास्वादितम् । मदीयं यौवनमनुपभुक्तामन्द विषयरसास्वादं वृथैव प्रतिदिनं गच्छति । तदनु

वेगितगत्या वार्द्धक्यमुदेष्यति ।
 

ऊचुश्च ।
 
20
 
अध्वा जरा मनुष्याणामनध्वा वाजिनां जरा ।
असंगमो जरा स्त्रीणामश्वानां मैथुनं जरा ॥
इत्यभिधाय सा व्यभिचाराचरणाय प्रववृते । ततः कियतानेहसा स तत्पतिर्ब्राह्मणो ऽप्यासीत् । परं

मौनमवलम्बनेन तिष्ठति । नाङ्गीकर्तुतुं प्रभवति पुंसा यत्किमपि कार्यं तत्सरसाभिसरणनिरसनव्यव -

सिततयानुसरणीयं मनसः कलनयावधी रितविधिनिर्बाधं फलोदयवासनाव्याहतसमर्थनप्रसपरिचय -

क्रोडीकृत्य यदुपक्रम्यते तत्सिद्धिसमुदायमासादयति । अत एवायमग्रजनुरपत्रपिष्णुरपि तूष्णीमलंक -

रिष्णुर्जिष्णुश्चित्तंभ्राजिष्णुः सुखमनुभूष्णुर्विष्णुर नेहोऽतिक्रमं निर्मित्सति । तथा सति सा तं नितरा - 25

मवजानीते न च परिवेषयत्यस्य उचिताभ्यवहरणायान्नोदने । अन्नप्राणोदकमपि नासावासादयति ।

इत्यमस्थिशेषो ऽवास्थात् । तदनु विमर्शसुखतामामर्शको नामातः परो विधेयांशः । यदि संहननं

समर्थनाघटनमभविष्यत्तदानीं द्वावप्येतावशिक्षिष्यं प्रतिदिनमित्यंथं चिन्तासंतानमातन्वानो जागर्ति ।

तस्या व्यभिचारिण्या मायावतीपरिनिष्ठितो भक्तिविशेषः । तदुपासनसमये पूर्वमेव देवीनन्दनदिने

समागत्य देवायाः पाश्चात्यप्रदेशे प्रविश्यादर्शितशरीर एवावतस्थौ । ततः सा तामारिराधयिषुर्मङ्गला - 30

रात्रिकादिसमग्रसामग्रीपरिग्रहा मायावत्या गन्धपूजारात्रिदीपाद्युपचारषोडशकं विधाय पुरस्ता -

द्ध्याननिमीलितनयना क्षणमतिष्ठत् । तदा पञ्चाङ्गागावस्थितो ऽसौ व्याहृतवान् । भक्तजनाग्रगण्ये त्वयि

भक्तिविशेषादरमालच्क्ष्याहं त्वां प्रति प्रसन्ना जातास्मि । तद्भवती मनःसमीहितं वरं वृणोतु । तदा

तदाकर्ण्य दण्डवत्प्रणिपातितयास्तावि । मातर्मदीया स्वामिनी अलकपुराधिनायिका सेवकलोकानां

संकोचनराहित्याकाङ्क्षाविकासावकाशं वितरणसामर्थ्येन परिपूरयसि । हृषीकानां रसानां किल आत्मज - 35

नेषु नोपेक्षा मनीषया दशामुल्लासयसि । इत्यस्तौषीत् । तदनु मनीषितमवादीत् । यदि प्रसन्नासि इदानीं

मदीयो भतीर्ता यथा न चक्षुर्भ्यं स्वविषयं परिचिनोति तथा प्रकारमाचरतात् । ततो देवतयावादि ।
 
Abh. d. I. Cl. d. k. Ak. d. Wiss. XXI. Bd. II. Abth.
 
45