शुकसप्ततिः /26
This page has been fully proofread twice.
भविष्यति तदानीं मम काचन क्षतिर्न जाघटीति । यस्य प्रभोः परिसरे दानमानमतीव नोपपद्यते
तस्य कार्यविषये सेवको यदि स्वकायक्लेशवासनाकदर्थित उपेक्षालक्षितवैलक्षण्यपक्षक्षुण्णतया परि -
शीलयति तदानीं तस्य पातकप्रतीपपातार्धोधी ऽनुसंपद्यते । तथा चानुचरो यद्यात्मनः साधीयसीं प्रसा-
धनामनुसंदधाति आविष्कारमापादयन्मरणमप्यङ्गीकरिष्णु:णुः स्वशरीरं प्रहरझर्झरितं विधाय सेवां
विधत्ते । तथाविधं भृत्यं स्वामी यदि दानमानादिना मानयति तदानीं तस्मिन्नधमवर्णणावर्णवर्णना -
वृत्तिमाबध्नाति । तर्ह्येतस्य प्रभोर्मम क उपयोगः । नग्नीकृतश्चेत्तदानीं न किमपि हीयते ।
यतो व्याजह्रिरे । त्यजेत्स्वामिनमत्युग्रं अत्युग्रं कृपणं त्यजेत् ।
त्यजेच्च कृपणं भूपममित्रं मायिनं त्यजेन् ॥
भषकेणेत्थं भाषितं निशम्य गर्दभो ऽभ्यधात् । यदि न भाषसि त्वं तदानीमहं हुंकरोमि । तेनायमपि
सावधानो भविष्यति । इत्याश्राव्य श्वा वाचमशिश्रियत् । श्वानः व्यक्तं ध्वनन्ति ततो जनाः सावधानाः
संभवन्ति । उद्यमो ऽयमस्मदीयः । न भवादृशां विलसितमतस्त्वं मौनमवलम्बस्व । इति वारितो ऽपि
शुना गर्दभस्तदीयं मतं नानुमनुते स्म । तदा गर्दभो ऽतिपरुषं जगर्द । तच्छब्दकार्कश्याकर्णनसमयस -
मनन्तरमेवाकर्णयतां कर्णानि बाधिर्यं शिरांसि च परमामार्तिमापेदिरे । परं गर्दभो निर्णेजकस्य
मूर्ध्न उपरि गर्दनमशेषयति । तदा रजको व्याजहार । पापजातिश्चण्डालो ऽयं निद्रोपद्रवं विदधाति
दिने तु व्यापारभारपरिचरणसामग्र्या परिश्राम्यामि । संप्रति अस्मान्निद्रावयति गर्दनेन गर्दभः ।
तर्ह्ययं स्वामिघातकः । एतस्य प्रचण्डलगुडेन दोष उत्पत्स्यते ऽस्माकमित्यभिधाय रजक उदस्थात् ।
द्वारिदत्तामर्गलां गृहीत्वा हस्ताभ्यामुभाभ्यां धृत्वा यथाबलं त्रिकस्योपरि त्रिधा समभिहारेण तम -
ताडयत् । प्रमीत इति मत्वा प्रहारप्रयोगं पर्यहार्षीत् । तदानीं स रासभः सुभाषितमेकमभाषत ।
पराधिकारजां चर्चां यः करोति नराधमः ।
स नूनं सीदति क्षिप्रं रजकाद्नगर्दभो यथा ॥
तर्हि भूपाल त्वमेतं प्रश्नं मा कृथाः । आग्रहं जहीहि । तदाकर्णनात्तव श्रमो भविष्यति । इत्युदीर्य
बालसरस्वती स्वकीयं वेश्म समासदत् ॥
इत्येकादशी कथा ॥ ११ ॥
पुनरप्यवनीनाथो विसारहासरसपीयूषसारज्ञीप्सारसानुसारो बालसरस्वतीं समाहूय वाचं प्रचिक्षेप ।
तन्निशम्य साप्यवादीत् । महीमहेन्द्र त्वमेतदाविष्करणातिशयं जहीहि । एतदाचरणेन एको भुजगो
Sऽवसन्न आसीत् । तथा त्वमपि भविष्यसि । तदनु तद्वृत्तान्तप्रादुष्कारं कुरुष्वेत्यभियुक्ता बालसरस्वती
नृपतिमज्ञापयत्तद्वृत्तान्तम् । आकर्णय नरेन्द्र । कौतुकमेकं वावच्मि । विस्मयस्मितं रसवियुक्तं वा भवतु
परं तत्रावधानं कर्तव्यम् । एतावता वचनप्रयोक्तॄणां मनः समाधानमुद्रामुद्रितं भवति । तथा सति
तत्र रसाभिव्यक्तिर्विकस्वरविहारवती परिलसति । अन्यच्च । प्रभूणां लक्षणमेतत् । यत्सर्वास्वपि कलासु
कलाविलासविवेचकं तत्तत्कलापरिकलिताङ्गपरीक्षाभिवीक्षणमनुभूयते । यदि तस्मिन्कलासु शिक्षितत्वं
जागर्ति तस्मिन्नादरं विधाय कला परिचितव्या नो चेत्किमपि तस्मै वितीर्य यथागतगमनायानुज्ञा
दातव्या । तदानीमेव कीर्तिः प्रतिक्षणं परमां स्फूर्तिं दीपयति । पूर्वं विराटोपवर्तने कस्मिंश्चित्समये
प्रावृडाकालिकी प्रादुरासीत् । तत्संगात्ताः सर्वा अपि तरंगिण्यो बहुलजलपरमपूरणे कूलंकषाख्या -
विशेषमात्मनः कृतार्थीकुर्वन्ति स्म । तत्पूरमध्ये प्रवहन्नहिरेको गमनमुररीकृतवान् । तस्यातितरां परिश्रा-
न्तस्य शिरःप्रदेश एव केवलो जलबहिर्भूतः प्रकाशते । इतरत्सर्वं शरीरं जले मग्नम् । तत्रैको मण्डूक
आगत्य फणाया उपर्यासेदिवान् । सर्पस्तूष्णीमास्त । न तावती शक्तिस्तस्मिंस्तदानीमवस्थानं परिचिनोति
तस्य कार्यविषये सेवको यदि स्वकायक्लेशवासनाकदर्थित उपेक्षालक्षितवैलक्षण्यपक्षक्षुण्णतया परि
शीलयति तदानीं तस्य पातकप्रतीपपातार्
धनामनुसंदधाति आविष्कारमापादयन्मरणमप्यङ्गीकरिष्
विधत्ते । तथाविधं भृत्यं स्वामी यदि दानमानादिना मानयति तदानीं तस्मिन्नधमवर्
वृत्तिमाबध्नाति । तर्ह्येतस्य प्रभोर्मम क उपयोगः । नग्नीकृतश्चेत्तदानीं न किमपि हीयते ।
यतो व्याजह्रिरे । त्यजेत्स्वामिनमत्युग्रं अत्युग्रं कृपणं त्यजेत् ।
त्यजेच्च कृपणं भूपममित्रं मायिनं त्यजेन् ॥
भषकेणेत्थं भाषितं निशम्य गर्दभो ऽभ्यधात् । यदि न भाषसि त्वं तदानीमहं हुंकरोमि । तेनायमपि
सावधानो भविष्यति । इत्याश्राव्य श्वा वाचमशिश्रियत् । श्वानः व्यक्तं ध्वनन्ति ततो जनाः सावधानाः
संभवन्ति । उद्यमो ऽयमस्मदीयः । न भवादृशां विलसितमतस्त्वं मौनमवलम्बस्व । इति वारितो ऽपि
शुना गर्दभस्तदीयं मतं नानुमनुते स्म । तदा गर्दभो ऽतिपरुषं जगर्द । तच्छब्दकार्कश्याकर्णनसमयस
मनन्तरमेवाकर्णयतां कर्णानि बाधिर्यं शिरांसि च परमामार्तिमापेदिरे । परं गर्दभो निर्णेजकस्य
मूर्ध्न उपरि गर्दनमशेषयति । तदा रजको व्याजहार । पापजातिश्चण्डालो ऽयं निद्रोपद्रवं विदधाति
दिने तु व्यापारभारपरिचरणसामग्र्या परिश्राम्यामि । संप्रति अस्मान्निद्रावयति गर्दनेन गर्दभः ।
तर्ह्ययं स्वामिघातकः । एतस्य प्रचण्डलगुडेन दोष उत्पत्स्यते ऽस्माकमित्यभिधाय रजक उदस्थात् ।
द्वारिदत्तामर्गलां गृहीत्वा हस्ताभ्यामुभाभ्यां धृत्वा यथाबलं त्रिकस्योपरि त्रिधा समभिहारेण तम
ताडयत् । प्रमीत इति मत्वा प्रहारप्रयोगं पर्यहार्षीत् । तदानीं स रासभः सुभाषितमेकमभाषत ।
पराधिकारजां चर्चां यः करोति नराधमः ।
स नूनं सीदति क्षिप्रं रजकाद्
तर्हि भूपाल त्वमेतं प्रश्नं मा कृथाः । आग्रहं जहीहि । तदाकर्णनात्तव श्रमो भविष्यति । इत्युदीर्य
बालसरस्वती स्वकीयं वेश्म समासदत् ॥
इत्येकादशी कथा ॥ ११ ॥
पुनरप्यवनीनाथो विसारहासरसपीयूषसारज्ञीप्सारसानुसारो बालसरस्वतीं समाहूय वाचं प्रचिक्षेप ।
तन्निशम्य साप्यवादीत् । महीमहेन्द्र त्वमेतदाविष्करणातिशयं जहीहि । एतदाचरणेन एको भुजगो
नृपतिमज्ञापयत्तद्वृत्तान्तम् । आकर्णय नरेन्द्र । कौतुकमेकं वावच्मि । विस्मयस्मितं रसवियुक्तं वा भवतु
परं तत्रावधानं कर्तव्यम् । एतावता वचनप्रयोक्तॄणां मनः समाधानमुद्रामुद्रितं भवति । तथा सति
तत्र रसाभिव्यक्तिर्विकस्वरविहारवती परिलसति । अन्यच्च । प्रभूणां लक्षणमेतत् । यत्सर्वास्वपि कलासु
कलाविलासविवेचकं तत्तत्कलापरिकलिताङ्गपरीक्षाभिवीक्षणमनुभूयते । यदि तस्मिन्कलासु शिक्षितत्वं
जागर्ति तस्मिन्नादरं विधाय कला परिचितव्या नो चेत्किमपि तस्मै वितीर्य यथागतगमनायानुज्ञा
दातव्या । तदानीमेव कीर्तिः प्रतिक्षणं परमां स्फूर्तिं दीपयति । पूर्वं विराटोपवर्तने कस्मिंश्चित्समये
प्रावृडाकालिकी प्रादुरासीत् । तत्संगात्ताः सर्वा अपि तरंगिण्यो बहुलजलपरमपूरणे कूलंकषाख्या