This page has been fully proofread once and needs a second look.

340
 
भविष्यति तदानीं मम काचन क्षतिर्न जाघटीति । यस्य प्रभोः परिसरे दानमानमतीव नोपपद्यते

तस्य कार्यविषये सेवको यदि स्वकायक्लेशवासनाकदर्थित उपेक्षालचिक्षितवैलक्षण्यपक्षक्षुतया परि -

शीलयति तदानीं तस्य पातकप्रतीपपातार्धो ऽनुसंपद्यते । तथा चानुचरो यद्यात्मनः साधीयर्सीसीं प्रसा-

धनामनुसंदधाति आविष्कारमापादयन्मरणमप्यङ्गीकरिष्णु: स्वशरीरं प्रहरझर्झरितं विधाय सेवां
5

विधत्ते । तथाविधं भृत्यं स्वामी यदि दानमानादिना मानयति तदानीं तस्मिन्नधमवर्णवर्णवर्णना -

वृत्तिमाबध्नाति । तर्ह्येतस्य प्रभोर्मम क उपयोगः । नमीग्नीकृतश्चेत्तदानीं न किमपि हीयते ।
 

 
यतो व्याजहिह्रिरे ।
 
20
 
त्यजेत्स्वामिनमत्युग्रं अत्युग्रं कृपणं त्यजेत् ।
 

त्यजेच्च कृपणं भूपममित्रं मायिनं त्यजेन्॥
 

भषकेणेत्थं भाषितं निशम्य गर्दभो ऽभ्यधात् । यदि न भाषसि त्वं तदानीमहं हुंकरोमि । तेनायमपि
10

सावधानो भविष्यति । इत्याश्राव्य श्वा वाचमशिश्रियत् । श्वानः व्यक्तं ध्वनन्ति ततो जनाः सावधानाः

संभवन्ति । उद्यमो ऽयमस्मदीयः । न भवादृशां विलसितमतस्त्वं मौनमवलम्बस्व । इति वारितो ऽपि

शुना गर्दभस्तदोदीयं मतं नानुमनुते स्म । तदा गर्दभोतिपरुषं जगर्द । तच्छब्दकार्कश्याकर्णनसमयस -

मनन्तरमेवाकर्णयतां कर्णानि बाधिर्यं शिरांसि च परमामार्तिमापेदिरे । परं गर्दभो निर्णेजकस्य

मूर्ध्न उपरि गर्दनमशेषयति । तदा रजको व्याजहार । पापजातिश्चण्डालो ऽयं निद्रोपद्रवं विदधाति
15

दिने तु व्यापारभारपरिचरणसामग्र्या परिश्राम्यामि । संप्रति अस्मान्निद्रावयति गर्दनेन गर्दभः ।

तर्ह्ययं स्वामिघातकः । एतस्य प्रचण्डलगुडेन दोष उत्पत्स्यते ऽस्माकमित्यभिधाय रजक उदस्थात् ।

द्वारिदत्तामर्गलां गृहीत्वा हस्ताभ्यामुभाभ्यां धृत्वा यथाबलं त्रिकस्योपरि त्रिधा समभिहारेण तम -

ताडयत् । प्रमीत इति मत्वा प्रहारप्रयोगं पर्यहार्षीत् । तदानीं स रासभः सुभाषितमेकमभाषत ।
 

 
पराधिकारजां चर्चाचां यः करोति नराधमः ।

स नूनं सीदति क्षिप्रं रजकाद्नर्दभो यथा ॥
 

तर्हि भूपाल त्वमेतं प्रश्नं मा कृथाः । आग्रहं जहीहि । तदाकर्णनात्तव श्रमो भविष्यति । इत्युदीर्य

बालसरस्वती स्वकीयं वेश्म समासदत् ॥
 

इत्येकादशी कथा ॥ ११ ॥
 

पुनरम्प्यवनीनाथो विसा रहास रसपीयूषसारज्ञीप्सारसानुसारीरो बालसरस्वर्तीतीं समाहूय वाचं प्रचिक्षेप ।
25

तन्निशम्य साप्यवादीत् । महीमहेन्द्र त्वमेतदाविष्करणातिशयं जहीहि । एतदाचरणेन एको भुजगो

Sवसन्न आसीत् । तथा त्वमपि भविष्यसि । तदनु तद्वृत्तान्तप्रादुष्कारं कुरुष्वेत्यभियुक्ता बालसरस्वती

नृपतिमज्ञापयत्तद्वृत्तान्तम् । आकर्णय नरेन्द्र । कौतुकमेकं वावच्मि । विस्मयस्मितं रसवियुक्तं वा भवतु

परं तत्रावधानं कर्तव्यम् । एतावता वचनप्रयोक्तॄणां मनः समाधानमुद्रामुद्रितं भवति । तथा सति

तत्र रसाभिव्यक्तिर्विकस्वरविहारवती परिलसति । अन्यच्च । प्रभूणां लक्षणमेतत् । यत्सर्वास्वपि कलासु
30

कलाविलासविवेचकं तत्तत्कलापरिकलिताङ्गपरीक्षाभिवीक्षणमनुभूयते । यदि तस्मिन्कलासु शिक्षितत्वं

जागर्ति तस्मिन्नादरं विधाय कला परिचितव्या नो चेत्किमपि तस्मै वितीर्य यथागतगमनायानुज्ज्ञा

दातव्या । तदानीमेव कीर्तिः प्रतिक्षणं परमां स्फूर्तितिं दीपयति । पूर्वं विराटोपवर्तने कस्मिंश्चित्समये

प्रावृडाकालिकी प्रादुरासीत् । तत्संगात्ताः सवीर्वा अपि तरंगिण्यो बहुलजलपरमपूरणे कूलंकषाख्या -

विशेषमात्मनः कृतार्थीकुर्वन्ति स्म । तत्पूरमध्ये प्रवहन्नहिरेको गमनमुररीकृतवान् । तस्यातितरां परिश्रा-
36

न्तस्य शिरःप्रदेश एव केवलो जलबहिर्भूतः प्रकाशते । इतरत्सर्वं शरीरं जले मग्म् । तत्रैको मण्डक
डूक
आगत्य फण्णाया उपर्यासेदिवान् । सर्पस्तूष्णीमास्त । न तावती शक्तिस्तस्मिंस्तदानोनीमवस्थानं परिचिनोति