शुकसप्ततिः /26
This page has not been fully proofread.
340
भविष्यति तदानीं मम काचन क्षतिर्न जाघटीति । यस्य प्रभोः परिसरे दानमानमतीव नोपपद्यते
तस्य कार्यविषये सेवको यदि स्वकायक्लेशवासनाकदर्थित उपेक्षालचितवैलक्षण्यपचक्षुसतया परि-
शीलयति तदानीं तस्य पातकप्रतीपपातार्धो ऽनुसंपद्यते । तथा चानुचरो यद्यात्मनः साधीयर्सी प्रसा-
धनामनुसंदधाति आविष्कारमापादयन्मरणमप्यङ्गीकरिष्णु: स्वशरीरं प्रहरझर्झरितं विधाय सेवां
5 विधत्ते । तथाविधं भृत्यं स्वामी यदि दानमानादिना मानयति तदान तस्मिन्नधमवर्णवर्णवर्णना-
वृत्तिमाबध्नाति । तर्ह्येतस्य प्रभोर्मम क उपयोगः । नमीकृतश्चेत्तदान न किमपि हीयते ।
यतो व्याजहिरे ।
20
त्यजेत्स्वामिनमत्युग्रं अत्युग्रं कृपणं त्यजेत् ।
त्यजेच्च कृपणं भूपममित्रं मायिनं त्यजेन्॥
भषकेणेत्थं भाषितं निशम्य गर्दभो ऽभ्यधात् । यदि न भाषसि त्वं तदानीमहं हुंकरोमि । तेनायमपि
10 सावधानो भविष्यति । इत्याश्राव्य श्वा वाचमशिश्रियत् । श्वानः व्यक्तं ध्वनन्ति ततो जनाः सावधानाः
संभवन्ति । उद्यमो ऽयमस्मदीयः । न भवादृशां विलसितमतस्त्वं मौनमवलम्बस्व । इति वारितोऽपि
शुना गर्दभस्तदोयं मतं नानुमनुते स्म । तदा गर्दभोतिपरुषं जगर्द । तच्छब्दकार्कश्याकर्णनसमयस-
मनन्तरमेवाकर्णयतां कर्णानि बाधिर्य शिरांसि च परमामार्तिमापेदिरे । परं गर्दभो निर्णेजकस्य
मूर्ध्न उपरि गर्दनमशेषयति । तदा रजको व्याजहार । पापजातिश्चण्डालो ऽयं निद्रोपद्रवं विदधाति
15 दिने तु व्यापारभारपरिचरणसामग्या परिश्राम्यामि । संप्रति अस्मान्निद्रावयति गर्दनेन गर्दभः ।
तर्ह्ययं स्वामिघातकः । एतस्य प्रचण्डलगुडेन दोष उत्पत्स्यतेऽस्माकमित्यभिधाय रजक उदस्थात् ।
द्वारिदत्तामर्गलां गृहीत्वा हस्ताभ्यामुभाभ्यां धृत्वा यथाबलं त्रिकस्योपरि त्रिधा समभिहारेण तम-
ताडयत् । प्रमीत इति मत्वा प्रहारप्रयोगं पर्यहार्षीत् । तदानीं स रासभः सुभाषितमेकमभाषत ।
पराधिकारजां चर्चा यः करोति नराधमः ।
स नूनं सीदति क्षिप्रं रजकाद्नर्दभो यथा ॥
तर्हि भूपाल त्वमेतं प्रश्नं मा कृथाः । आग्रहं जहीहि । तदाकर्णनात्तव श्रमो भविष्यति । इत्युदीर्य
बालसरस्वती स्वकीयं वेश्म समासदत् ॥
इत्येकादशी कथा ॥ ११ ॥
पुनरम्यवनीनाथो विसा रहास रसपीयूषसारज्ञीप्सारसानुसारी बालसरस्वर्ती समाहय वाचं प्रचिक्षेप ।
25 तन्निशम्य साप्यवादीत् । महीमहेन्द्र त्वमेतदाविष्करणातिशयं जहीहि । एतदाचरणेन एको भुजगो
Sवसन्न आसीत् । तथा त्वमपि भविष्यसि । तदनु तद्वृत्तान्तप्रादुष्कारं कुरुष्वेत्यभियुक्ता बालसरस्वती
नृपतिमज्ञापयत्तद्वृत्तान्तम् । आकर्णय नरेन्द्र । कौतुकमेकं वावच्मि । विस्मयस्मितं रसवियुक्तं वा भवतु
परं तत्रावधानं कर्तव्यम् । एतावता वचनप्रयोक्तॄणां मनः समाधानमुद्रामुद्रितं भवति । तथा सति
तत्र रसाभिव्यक्तिर्विकस्वरविहारवती परिलसति । अन्यच्च । प्रभूणां लक्षणमेतत् । यत्सर्वस्वपि कलासु
30 कलाविलासविवेचकं तत्तत्कलापरिकलिताङ्गपरीक्षाभिवीक्षणमनुभूयते । यदि तस्मिन्कलासु शिक्षितत्वं
जागर्ति तस्मिन्नादरं विधाय कला परिचितव्या नो चेत्किमपि तस्मै वितीर्य यथागतगमनायानुज्ज्ञा
दातव्या । तदानीमेव कीर्तिः प्रतिक्षणं परमां स्फूर्ति दीपयति । पूर्व विराटोपवर्तने कस्मिंश्चित्समये
प्रावृडाकालिकी प्रादुरासीत् । तत्संगात्ताः सवी अपि तरंगिण्यो बहुलजलपरमपूरणे कूलंकषाख्या-
विशेषमात्मनः कृतार्थीकुर्वन्ति स्म । तत्पूरमध्ये प्रवहन्नहिरेको गमनमुररीकृतवान् । तस्यातितरां परिश्रा-
36 न्तस्य शिरःप्रदेश एव केवलो जलबहिर्भूतः प्रकाशते । इतरत्सर्व शरीरं जले मग्रम् । तत्रैको मण्डक
आगत्य फण्णाया उपर्यासेदिवान् । सर्पस्तष्णीमास्त । न तावती शक्तिस्तस्मिंस्तदानोमवस्थानं परिचिनोति