This page has been fully proofread twice.

प्रथितः । स त्वेकदा भाण्डभ्रष्ट्रमचीकरत् । ततस्तदाभाषपरिपूरणं चिकीर्षुर्वेगितया गत्या गच्छन्स्खलित्वा-
ङ्घ्रिणा पर्यपतत् । पातबलोपबृंहितो ऽवनिखनिचितगर्गरिकागलशकलस्तब्धललाटफलको निशितचन्द्रहा-
सप्रहारप्रहस इव परितो हासमानो निशितहेतिशतसंमर्दे प्रसृमरविषमसमरविलसदसमसंपत्समुपभो-
गसमापतदतितरकालकरवालकवलितप्रत्यर्थिपार्थिवचमूसमूहसामर्थ्योदित्वराङ्गकण्ठत्रुट्यत्कङ्कटविशंकटा-
भिमानो भावयन्वीरवरां धरित्रीं सवीरसूं कलयामास । इत्थं च बहुभिरहोभिः प्रथमासितं संबन्धिनिवासं
शिथिलीकृत्य स्थानीयान्तरमासाद्य तत्रत्यं पृथुप्रतिमं पृथिवीनाथं नेत्रयोरतिथीचकारोपधनपाणिः
रणबाहुबल इत्यात्मनः संज्ञां पुरस्तात्प्राचीकशत् । तत्र राजा तस्यालीके विशालं करवालराजप्रहा -
रमालक्ष्य साधीयान्प्रथनप्रथितप्रगल्भो ऽयं पदातिः कलितालिकफलकप्रहृतिर्नरश्लाघनीयमूर्तिः सुरा -
ग्रगण्यो ऽभूद्भाग्याङ्गीकृतागमन इत्यात्मीयानभिधायात्मनः समीपे तं समाहितवान् । मानादिना
सम्यक्संतोष्यात्मनः पङ्क्तौ प्सानं तस्याकल्पयत् । अनया रीत्या तत्रावस्थितानामसौ मान्यानामग्रगण्यो
भूत्वा राजाभिमतात्तस्मात्सर्वे ऽपि परिवारा बिभ्यति । इति तदुपकण्ठे निवसन्तं वसुमतीपतिरेकदा
तमप्राक्षीत् । अहो बाहुबलदेव षट्त्रिंशद्राजतलोपलक्षित विशालालोके क्षत्रियलोके किंकुलान्तःपा -
तिनो भवन्तो भवतां च भीमसंगदिष्णुहृदयोदयभूतः समीके कस्मिन्प्रभासो ऽलिकमलंचकार । कौतुकं
तदेव त्वाश्रावयन्त्वस्मान् । ततो ऽसौ तन्नृपादिष्टमागत्य तमेवेति व्याजहार । महाराज त्वं विष्णोः
साक्षात्स्वरूपमसि । तर्हि भवतां पुरतो व्यलीकवाक्यानि प्रकल्पन्ते ऽस्तोकपातकव्रातासञ्जनाय । अहं
जात्या तु कुलालः । न कदाचन मया दृशोर्गोचरीकृतमस्त्यायोधनम् । अहं भाण्डान्यावहन्नुपचिकीर्षुर्वे-
गितगतिः स्खलितचरणो न्यपतम् । ततो ऽवनिगतकर्परखण्डोल्लिखितललाटो ऽहं खड्गविदलनसंशयमुत्पा-
दयन्परितो भ्राम्यामि । पणमध्ये ऽपि नाहं वीक्षितवानाहवम् । तदान्तर्निशम्येत्थं नरपतिराश्चर्यपरंपरा-
परामृष्टान्तःकरणश्चित्रन्यस्त इव स्थितवान् । अर्धचन्द्रं प्रदाय निराकृतो ऽसौ करीरकारः । तर्हि
प्रभूतभूतनाथ स्थानविशेषे सत्यं व्याद्रियते कस्मिंश्चिदसत्यमपि । परमाग्रहविधानेनातिशयः कुत्रा-
प्युपयोगोदर्को जागर्ति । श्लोकार्थमेव विचारय । इत्यभिधाय बालसरस्वती स्ववेश्म प्रविवेश ॥

इति नवमी कथा ॥ ९ ॥
 
ततश्च भूयो बालसरस्वतीं स्वोपान्तकलितोद्देशां विधायानिमिषहसितनिदानप्रश्नोपक्रमाय प्रगल्भां
चक्रे । बालसरस्वती तच्छ्रुत्वोदितवती । देव बह्वाग्रहानुग्रहसरणेन कस्मादेतत्पिपृच्छिषसि । निषिद्धो ऽपि
नाग्रहं जिहाससि । यथा मातुलः पश्चात्परिश्रमं महान्तमवाप्तवान्स प्रकारस्त्वयि भविष्यति । ततस्त-
दवबुभुत्सुः किं तच्चरितमिति प्रत्याह पार्थिवः प्रधानपुत्रीम् । सापि तदाख्यानेन पृथिवीप्रभुं चाच -
रितार्थयत् । यथा शृणु भूपते । प्रतिष्ठाननामधेयं नगरम् । तत्रैकस्य मालिकस्य वाटिका । तत्रातिबहूनि
वालुकफलान्यजायन्त । ततस्तमस्विन्यामागत्य जम्बुक एको वाटीमध्यगतानि फलानि प्रत्यहमभक्षयत् ।
मालिकस्तु प्रतिनिशं रक्षणाय प्रयतते परं नासावासाद्यते । एकदा तु फलानि प्रदर्श्य परं सौहित्यमा-
त्मानमातन्वानः तृषापरिगतो जलं पातुं गङ्गामध्यगच्छत् । जलमापीय तरंगिण्यास्तीरे क्षणं स्थित्वा -
तीवदुर्बलं रजकस्य गर्दभं तृणानि चरन्तं लक्षीचकार । तस्यास्थिशेषाण्यङ्गानि वीक्ष्य मृगधूर्तो ऽवा-
दीत् । मातुल भवन्तः किमिति दुर्बलदेहाः । श्रुत्वेत्थं गर्दभो ऽपि बभाषे । किं वच्मि भागिनेय । मदीयः
पुत्रो निर्णेजको ऽहर्निशं करुणां निरुणद्धि । असाधारणं सिचयनिचयं परिक्षिपति ममोपरि । न
राजावाहारं च प्रयच्छति । दिवसे त्वेतान्दूर्वाङ्कुरान्कवलीकरवै । एतावता बुभुक्षया स्तिमितमानस
एव तिष्ठामि । कारणादेतस्मादहं दुर्बलकले<error>ब्</error><fix>व्</fix>अरः । नान्यः कश्चन ममोपद्रवसंमर्दी वर्तते ।
 
तथा चाभ्यधुः । क्षुधासमं नास्ति शरीरपीडनं
चिन्तासमं नास्ति शरीरशोषणम् ।