This page has been fully proofread once and needs a second look.

338
 
प्रथितः। स त्वेकदा भाण्डभ्रष्टुट्रमचीकरत् । ततस्तदाभाषपरिपूरणं चिकीर्षुर्वेगितया गत्या गच्छन्स्खलित्वा-

ङ्गिघ्रिणा पर्यपतत् । पातबलोपबृंहितो ऽवनिखनिचितगर्गरिकागल शकलस्तब्धललाटफलको निशितचन्द्रहा-

सप्रहारप्रहस इव परितो हासमानो निशितहेतिशतसंमर्दे प्रसृमर विषमसमरविलसदसमसंपत्समुपभो-

गसमापतदतितरकालकरवालकवलितप्रत्यर्थिपार्थिवचमूसमूहसामर्थ्योदित्वराङ्गकण्ठ त्रुट्यत्कङ्कटविशंकटा-
5

भिमानो भावयन्वीरवरां धरित्रीं सवीरसंसूं कलयामास । इत्यंथं च बहुभिरहोभिः प्रथमासितं संबन्धिनिवा
सं
शिथिलीकृत्य स्थानीयान्तरमासाद्य तत्रत्यं पृथुप्रतिमं पृथिवीनाथं नेत्रयोरतिथीचकारोपधनपाणिः

रणबाहुबल इत्यात्मनः संज्ञां पुरस्तात्प्राचीकशत् । तत्र राजा तस्यालीके विशालं करवालराजप्रहा -

रमालक्ष्य साधीयान्प्रथनप्रथितप्रगल्भो ऽयं पदातिः कलितालिकफलकप्रहृतिर्नर श्लाघनीयमूर्तिः सुरा -

ग्रगण्यो ऽभूद्भाग्याङ्गीकृतागमन इत्यात्मीयानभिधायात्मनः समोमीपे तं समाहितवान् । मानादिना
10

सम्यक्संतोष्यात्मनः पकीङ्क्तौ प्सानं तस्याकल्पयत् । अनया रीत्या तत्रावस्थितानामसीसौ मान्यानामग्रगण्यो

भूत्वा राजाभिमतात्तस्मात्सर्वे ऽपि परिवारा बिभ्यति । इति तदुपकण्ठे निवसन्तं वसुमतीपतिरेकदा

तमप्राक्षीत्। अहो बाहुबलदेव षट्त्रिंशद्राजतलोपलक्षित विशालालोके क्षत्रियलोके किंकुलान्तःपा -

तिनो भवन्तो भवतां च भीमसंगदिष्णुहृदयोदयभूतः समीके कस्मिन्प्रभासो ऽलिकमलंचकार । कौतुकं

तदेव त्वाश्रावयन्त्वस्मान् । ततो ऽसौ तन्नृपादिष्टमागत्य तमेवेति व्याजहार । महाराज त्वं विष्णोः
15

साक्षात्स्वरूपमसि । तर्हि भवतां पुरतो व्यलीकवाक्यानि प्रकल्पन्ते ऽस्तोकपातकव्रातासञ्जनाय । अहं

जात्या तु कुलालः । न कदाचन मया दृशोर्गोचरीकृतमस्त्यायोधनम् । अहं भाण्डान्यावहन्नुपचिकीर्षुर्वे-

गितगतिः स्खलितचरणो न्यपतम् । ततो ऽवनिगतकर्परखण्डोल्लिखितललाटो ऽहं खड्गविदलनसंशयमुत्पा-

दयन्परितो भ्राम्यामि । पणमध्ये ऽपि नाहं वीक्षितवानाहवम् । तदान्तर्निशम्येत्थं नरपतिराश्चर्यपरंपरा-

परामृष्टान्तःकरणश्चित्रन्यस्त इव स्थितवान् । अर्धचन्द्रं प्रदाय निराकृतो सीऽसौ करीरकारः । तर्हि
20

प्रभूतभूतनाथ स्थानविशेषे सत्यं व्याद्रियते कस्मिंश्चिदसत्यमपि । परमाग्रहविधानेनातिशयः कुत्रा-

प्युपयोगोदर्को जागर्ति । श्लोकार्थमेव विचारय । इत्यभिधाय बालसरस्वती स्ववेश्म प्रविवेश ॥

इति नवमी कथा ॥ ९ ॥
 

 
ततश्च भूयो बालसरस्वतीं स्वोपान्तकलितोद्देशां विधायानिमिषहसितनिदानप्रश्नोपक्रमाय प्रगल्भां

चक्रे । बालसरस्वती तच्छ्रुत्वोदितवती । देव बह्वाग्रहानुग्रहसरणेन कस्मादेतत्पिपृच्छिषसि । निषिद्धो ऽपि
26

नाग्रहं जिहाससि । यथा मातुलः पश्चात्परिश्रमं महान्तमवाप्तवान्स प्रकारस्त्वयि भविष्यति । ततस्त-

दवबुभुत्सुः किं तच्चरितमिति प्रत्याह पार्थिवः प्रधानपुत्रीम् । सापि तदाख्यानेन पृथिवीप्रभुं चाच -

रितार्थयत् । यथा शृणु भूपते । प्रतिष्ठाननामधेयं नगरम् । तत्रैकस्य मालिकस्य वाटिका । तत्रातिबहूनि

वालुकफलान्यजायन्त । ततस्तमस्विन्यामागत्य जम्बुक एको वाटीमध्यगतानि फलानि प्रत्यहमभक्षयत् ।

मालिकस्तु प्रतिनिशं रक्षणाय प्रयतते परं नासावासाद्यते । एकदा तु फलानि प्रदर्श्य परं सौहित्यमा-
30

त्मानमातन्वानः तृषापरिगतो जलं पातुं गङ्गामध्यगच्छत् । जलमापीय तरंगिण्यास्तीरे क्षणं स्थित्वा -
तो

ती
वदुर्बलं रजकस्य गर्दभं तृणानि चरन्तं लक्षीचकार । तस्यास्थिशेषाण्यङ्गानि वीच्क्ष्य मृगधूर्तो ऽवा-

दीत् । मातुल भवन्तः किमिति दुर्बलदेहाः । श्रुत्वेत्थं गर्दभोपि भाषे । किं वच्मि भागिनेय । मदोदीयः

पुत्रो निर्णेजको हर्निशं करुणां निरुणद्धि । असाधारणं सिचयनिचयं परिक्षिपति ममोपरि । न

राजावाहारं च प्रयच्छति । दिवसे त्वेतान्दुदूर्वाङ्करान्कवलीकरवै । एतावता बुभुक्षया स्तिमितमानस
36

एव तिष्ठामि । कारणादेतस्मादहं दुर्बलकलेबरः । नान्यः कञ्श्चन ममोपद्रवसंमर्दोदी वर्तते ।
 

 
तथा चाभ्यधुः ।
 
दु
क्षुधासमं नास्ति शरीरपीडनं
 

चिन्तासमं नास्ति शरीरशोषणम् ।