This page has been fully proofread once and needs a second look.

337
 
5
 
निरसारयत् । तदा केशवो राजानं व्यजिज्ञपत् । देव मदीयो योगदण्डः प्रतिदिनं पञ्चशतीमष्टापदानां

प्रसूते । स कुट्टिन्यापाहारि । ततः पृथ्वीपतिः सकुट्टिनीं विलासवतीमाहूय भवद्भ्यामेतदस्याग्रजन्मनो

योगदण्डो ऽपजह्रे । एतदीयः सो ऽप्येतस्मै दातव्यः । ततो विलासवतीकुट्टिनी वाचं प्राचीकटयत् ।

देव ब्राह्मणस्यास्य मानसं मत्ततयानुतिष्ठितं पितुर्द्रविणं च सर्वमप्यवयीत् । नेदानीं तदुपान्ते

द्रविणकणो वरीवर्ति । ततो वयमेतस्य गृहसंनिधानागममत्यरीरौत्सं न च द्वारि प्रवेशमपि प्रयच्छामि ।

तेन कारणेन तस्य कन्दर्पकरपदं पैशाच्यमापनीपन्नमस्ति । इदानीं स्वयं वदनविनिर्गतवचनं वदति

संनिपातपरिसरात द्रर्त इव व्याजेन हीह्रीयमाणो जागर्त्यहर्निशं परिक्षीणमन्दाक्षः । तस्यास्तथाविधमभिहितं

निशम्य सर्वे ऽप्यास्थानीसमासीना इदमित्मेवेति निरौरणैषत एतत्सर्वेषामपि हृदयपदवीमध्यारूढम् ।

सर्वे ऽपि केशवायाक्रुध्यन् । राज्ञा निजनीवृत्तीतो बहिरनीयत जनैः केशवः । तर्हि राजन्नमुष्मिन्कारणा-

नुयोगे तवापोत्मापत्स्यते । श्लोकस्यैवार्थमाचर । इत्यभिधाय सागच्छत् ॥
 

 
इति सप्तमी कथा ॥७॥
 
10
 

 
नृपश्च बालसरस्वतीं निजपरिचरवर्तिनीं विधाय विसारहास्य प्रश्नमनुयुयुक्षू रणति स्म । बालसरस्वति

पूर्वप्रश्नस्यार्थं वाग्ग्रथनेनोत्तरयतराम् । इत्यवगत्यामात्यसुता व्यायच्छद्वाचम् । देवाकर्णिते ऽमुष्य कारणे

एकस्य वणिग्गृहिण्या यथाजायत सिद्धं गृहमपि ज्वलनज्वालाकरालितं तथा वांछितजनसंयोगो

ऽपि नाघटिष्ट । तत्कथं प्रावर्ततेति नरपतिनाभिहिते बालसरस्वती तद्वृत्तान्तमुपवर्णयिषुर्वाणीणीं रसना - 16

रङ्गनर्तकीमकार्षीत् । शङ्खपुराख्यं नगरम् । तत्र त्रिविक्रमनामधेयो विक्रमाक्रान्तसकलधरामण्डलो

मण्डलेश्वरो महीमण्डलं परिपाति स्म । तस्यां पुर्यायां मनोहरीरो रत्नदत्तनामा वणिक् । तस्य प्राणप्रिया

सौभाग्यवती । सा चाविरतं परपुरुषनिरता । तां तथाविधां विज्ञाय ते गृहरक्षकाः तस्या बहिर्गम-

नमपि नाकुर्वन् । तदानीं तया मनोवयस्याभ्यभाणि । अद्य त्वं मदुपपतिं प्रदोषसमये पुरोवर्तिनि

देवताप्रासादे मदागमनपर्यन्तं स्थापय । तदन्वहं गृहमग्निसंगतं करोमि। तदग्निजनितसंमर्समाक्रन्दनमध्ये 20

ऽहमलचिक्षितप्रकारं तदुपकण्ठम कुण्ठितप्रचारा मण्डयिष्यामि निजावस्थारणरणकता तत्संनिधिसंगता-

ङ्गसान्द्रानन्दलहरी परिरब्धशरीरसमुच्छ्रया गृहागता ग्रहाश्चाग्निबाधाविनाशाय प्रयतिष्यन्ते । मदा-

गमनं निर्गमनं च न कश्चिदपि जिज्ञास्यतीत्यादेशं वयस्यायै प्रादात् । तदनु प्रदोषसमये निजमन्दिरं

हुताशनपरिकल्पिताशनं विधाय सा स्वयं देवताप्रासादमाससाद । यावतासौ तत्संकेतनिकेतनं गतवती

तावता तत्रावस्थित उपपतिर्नगरान्तराग्न्युपसर्गमवजिगमिषुस्तत्कौतुकावलोकनायायासीत् । सा शून्य - 25

मुपरमणविरहितं स्थानमासाद्य व्यावृत्य निजमन्दिरमयासीत् । तावता स्वगृहमपि जज्वाल । तस्या एवं

विशिष्टम् । तत्स्वमनसि समुन्मिषति स्म । मय द्वयमन्वष्ठायि । द्वयोर्मध्ये नैकमपि मां प्रति फलप्रद-

मजायत । गृहमनिसादजनिष्ट तथोपपतिमपि नोपातिष्ठम् । तर्ह्येवं ज्ञीप्सनेन तवाप्येवमुद्भविष्यति

कुकीर्तिरिति प्रभाष्य तदीयं प्रश्नाग्रहं निगृह्य बालसरस्वती निजमन्दिरमाससाद ॥
 

 
इत्यष्टमी कथा ॥८॥
 
30
 

 
ततो द्वितीये दिने मेदिनीनाथः पद्यार्थस्याविन्दको बालसरस्वतीमाभाष्यास्मदीयं हृदयं यथार्थीथा-

वेदनेन विशदसंविदापादयेति निवेदिते विदितवेद्या सापि तं जगाद । राजन्नदसीये ऽभिधेये ऽभिहिते

रणबाहुबलकुम्भकारस्य यथा पुरावर्तिष्ट तथार्था वेदनसामर्थेथ्येन प्रकल्पितजीवस्य विबाधा यथा

कुम्भकारस्य तादृक्प्रकाराविष्कारस्तवाप्युपकारासंस्काराय प्रकल्पिष्यते । इति निमितवाचा समुचितं

चालोच्योपचयप्रचयपरिचेयापचेताः प्रचेतीचिकीर्षुरात्मानं प्रत्युवाच सचिवसुताम् । चरितं तदाचक्ष्वेति 36

प्रोक्ते बभाषे बालसरस्वती । कोल्लापुरं क्षेत्रम् । तत्रैकः कुम्भकारी ग्रामकूटो रणबाहुबल इत्यभिधा-