This page has not been fully proofread.

337
 
5
 
निरसारयत् । तदा केशवो राजानं व्यजिज्ञपत । देव मदीयो योगदण्डः प्रतिदिनं पञ्चशतीमष्टापदानां
प्रसूते । स कुट्टिन्यापाहारि । ततः पृथ्वीपतिः सकुट्टिनीं विलासवतीमाहूय भवद्भ्यामेतदस्याग्रजन्मनो
योगदण्डो ऽपज । एतदीयः सोऽप्येतस्मै दातव्यः । ततो विलासवतीकुट्टिनी वाच प्राचीकटयत् ।
देव ब्राह्मणस्यास्य मानसं मत्ततयानुतिष्ठितं पितुर्द्रविणं च सर्वमप्यवयीत् । नेदानीं तदुपान्ते
द्रविणकणो वरीवर्ति । ततो वयमेतस्य गृहसंनिधानागममत्यरीत्सं न च द्वारि प्रवेशमपि प्रयच्छामि ।
तेन कारणेन तस्य कन्दर्पकरपदं पैशाच्यमापनीपन्नमस्ति । इदानीं स्वयं वदनविनिर्गतवचनं वदति
संनिपातपरिसरात द्रव व्याजेन हीयमाणो जागर्त्यहर्निशं परिक्षीणमन्दाक्षः । तस्यास्तथाविधमभिहितं
निशम्य सर्वे ऽप्यास्थानीसमासीना इदमित्यमेवेति निरौषत एतत्सर्वेषामपि हृदयपदवीमध्यारूढम् ।
सर्वे ऽपि केशवायाक्रुध्यन् । राज्ञा निजनीवृत्ती बहिरनीयत जनैः केशवः । तर्हि राजन्नमुष्मिन्कारणा-
नुयोगे तवापोत्यमापत्स्यते । श्लोकस्यैवार्थमाचर । इत्यभिधाय सागच्छत् ॥
 
इति सप्तमी कथा ॥७॥
 
10
 
नृपश्च बालसरस्वत निजपरिचरवर्तिन विधाय विसारहास्य प्रश्नमनुयुयुष रणति स्म । बालसरस्वति
पूर्वप्रश्नस्यार्थं वाग्ग्रथनेनोत्तरयतराम् । इत्यवगत्यामात्यसुता व्यायच्छद्वाचम् । देवाकर्णिते ऽमुष्य कारणे
एकस्य वणिग्गृहिण्या यथाजायत सिद्धं गृहमपि ज्वलनज्वालाकरालितं तथा वांछितजनसंयोगो
ऽपि नाघटिष्ट । तत्कथं प्रावर्ततेति नरपतिनाभिहिते बालसरस्वती तद्वृत्तान्तमुपवर्णयिषुर्वाणी रसना- 16
रङ्गनर्तकीमकार्षीत् । शङ्खपुराख्यं नगरम् । तत्र त्रिविक्रमनामधेयो विक्रमाक्रान्तसकलधरामण्डलो
मण्डलेश्वरो महीमण्डलं परिपाति स्म । तस्यां पुर्या मनोहरी रत्नदत्तनामा वणिक् । तस्य प्राणप्रिया
सौभाग्यवती । सा चाविरतं परपुरुषनिरता । तां तथाविधां विज्ञाय ते गृहरक्षकाः तस्या बहिर्गम-
नमपि नाकुर्वन । तदानीं तया मनोवयस्याभ्यभाणि । अद्य त्वं मदुपपतिं प्रदोषसमये पुरोवर्तिनि
देवताप्रासादे मदागमनपर्यन्तं स्थापय । तदन्वहं गृहमग्निसंगतं करोमि। तदनिजनितसंमर्द समाक्रन्दनमध्ये 20
ऽहमलचितप्रकारं तदुपकण्ठम कुण्ठितप्रचारा मण्डयिष्यामि निजावस्थारणरणकता तत्संनिधिसंगता-
ङ्गसान्द्रानन्दलहरी परिरब्धशरीरसमुच्छ्रया गृहागता ग्रहाश्चाग्निबाधाविनाशाय प्रयतिष्यन्ते । मदा-
गमनं निर्गमनं च न कश्चिदपि जिज्ञास्यतीत्यादेशं वयस्यायै प्रादात् । तदनु प्रदोषसमये निजमन्दिरं
हुताशनपरिकल्पिताशनं विधाय सा स्वयं देवताप्रासादमाससाद । यावतासौ तत्संकेतनिकेतनं गतवती
तावता तत्रावस्थित उपपतिर्नगरान्तराग्न्युपसर्गमवजिगमिषुस्तत्कौतुकावलोकनायायासीत् । सा शून्य- 25
मुपरमणविरहितं स्थानमासाद्य व्यावृत्य निजमन्दिरमयासीत् । तावता स्वगृहमपि जज्वाल । तस्या एवं
विशिष्टम् । तत्स्वमनसि समुन्मिषति स्म । मय द्वयमन्वष्ठायि । द्वयोर्मध्ये नैकमपि मां प्रति फलप्रद-
मजायत । गृहमनिसादजनिष्ट तथोपपतिमपि नोपातिष्ठम् । तर्ह्येवं ज्ञीप्सनेन तवाप्येवमुद्भविष्यति
कुकीर्तिरिति प्रभाष्य तदीयं प्रश्नाग्रहं निगृह्य बालसरस्वती निजमन्दिरमाससाद ॥
 
इत्यष्टमी कथा ॥८॥
 
30
 
ततो द्वितीये दिने मेदिनीनाथः पद्यार्थस्याविन्दको बालसरस्वतीमाभाष्यास्मदीयं हृदयं यथार्थी-
वेदनेन विशदसंविदापादयेति निवेदिते विदितवेद्या सापि तं जगाद । राजन्नदसीये ऽभिधेये ऽभिहिते
रणबाहुबलकुम्भकारस्य यथा पुरावर्तिष्ट तथाथा वेदनसामर्थेन प्रकल्पितजीवस्य विबाधा यथा
कुम्भकारस्य तादृक्प्रकाराविष्कारस्तवाप्युपकारासंस्काराय प्रकल्पिष्यते । इति निमितवाचा समुचितं
चालोच्योपचयप्रचयपरिचेयापचेताः प्रचेतीचिकीर्षुरात्मानं प्रत्युवाच सचिवसुताम् । चरितं तदाचवेति 36
प्रोक्त बभाषे बालसरस्वती । कोल्लापुरं क्षेत्रम् । तत्रैकः कुम्भकारी ग्रामकूटो रणबाहुबल इत्यभिधा-