This page has been fully proofread once and needs a second look.

336
 
व्यर्थंजीविता भर्तुभीयर्भार्या व्यवहारपरिहायीर्या सा । जाज्वलीतु जीवितं भवत्या इति । नराकूतप्रभामासा-

दयाम्यापृच्छ्य भवत्यै व्याहरिष्यामीत्यवादीत् । ततो विभावर्यां सा भर्तारमन्वयुङ्क्त । तदाकर्णनात्तत्पतिः

प्रत्यवदत् । पापिष्ठे पतीनां सुखपोषणप्लोषणाय किमित्युदितत्वरासि । त्वं मौनमवलम्बस्व । तेन तथाया-

भिहिते ऽपि साग्रहं परिजग्राह । मण्डकागमनकारणमिदमेवाकर्णयसि यदि तदानीं जीवामि नेतरथा ।
5

इति तदाग्रहग्रहपरिगृहीतगलो ऽसौ वृत्तान्तमाश्रावयामास ताम् । तया च प्रतिवेशिन्यै प्राजल्पि ।

सा च तथा कारयिषुर्मन्दोदरी कुठारस्कन्धं विधाय गणेशमूर्तिगतदारुभेदनाय गणेशप्रासादं प्रति

प्राणैषीत्प्राणनाथम् । एतावता तुभ्यमपि व्रतमण्डकान्वितरिष्यति प्रतिदिनं पशुपतिनन्दनः । निशम्ये त्यं
त्थं
सो ऽपि सुमतिसमन्वितो विनायकनिकाय्यमासेदितवान् । तदनु लम्बोदरीरो ऽपि तयोर्विवत्सुबुद्धि-

निबन्धनमभिप्रायमवबुध्यालम्बकबोध्येःयैः पाशेशैरबभ्राध्नात् । अलक्षितप्रहारास्तु शरीरस्योपर्युपर्यापतन्ति । एवं
10

जीवितव्यनिरपेक्षस्पृहौ कृत्वा विघ्ननाशनः सुमतिमवादीत् । अरे दुष्टमते निवारितो Sभूर्मया पूर्
वं
न कस्यापि पुरस्ताद्व्याहर्तव्यमिति तत्कस्माद्भवानभ्यधात् । निशम्येति गणेशमुवाच । किं नाम त्वामहं

व्यावचम् । पूर्वजन्मदुरन्तदुतिरितपरिपाकात् । तर्हि भूमहेन्द्र विचारयतस्तवापीत्यंथं भवति ॥
 

 
इति षष्ठी कथा ॥ ६ ॥
 

 
पुनः प्रभाते राजवृन्दसमभ्यर्चितशासनो विक्रमादित्यो बालसरस्वतीमानाव्य्य विसारिहसितकारण-
15

मप्राक्षीत् । साप्यूचे । देव केशवस्य योगदण्डेन यथाभूत्तथा ते भविष्यति । केशववृत्तान्तं वदेत्युक्ता

सापि बभाषे राजानम् । श्रीपुरं नाम नगरम् । तत्र केशवनामा द्विजः । सो ऽत्यन्तं । निर्धनः । ततः

कदाचित्स्वस्यायतनान्निर्जिगमिषुर्महापुरुषमेकं चक्षुषोर तिथीचकार । तं निजासनाध्यासीनमासाद्य तस्मा

द्
देशाद्देशमुपदिश्य मुहूर्तमात्रमवस्थाय तदन्वतिथिर्यदि कश्चिदस्मदीये दृशीशौ स्वदर्शवितरणेन चरिता-

र्थयति तदानीं तदर्थितं निष्प्रत्यूहमापूरयामि सर्वमप्यहं प्रवेशनसामर्थ्येनेत्यभिहिते महात्मना स केशवः
20

संनिहिताश्रयः सन्सकामनया परिणतचित्तवृत्तिरतिथिरहमातिष्ठामीति महात्मानमभाषिष्ट । ततस्त-

च्छ्रवणपरिणतसंबन्धविशेषाबाधावबोधने निधनाद्यनेकविधवेदना वैकल्यविशुद्धबुद्धिवैधुर्योद्धरणविविध-

विशेषविधिहलाकदर्थना समर्थिता पृथुप्रथनं प्रथमस्पंदसंपत्प्रदर्शसुदर्शनाश्रयाद्यश्रान्तासाराश्रमपरिश्रा-

न्ताजनुतानुजं न संजीवनधनार्थिनमाह स महात्मा । त्वमेतं मनोरथपूरकं योगदण्डं गृहाण । प्रत्यहमसी
सौ
पञ्चशतीं स्वर्णानां तुभ्यं दास्यति । यद्येतच्चरितं परकर्णसंगतं विरचयसि तदानीं मदीयो योगदण्डः
25

पुनर्मत्करसाद्भविष्यति न किमपि तव फलयिष्यति । तदाग्रजन्मासौ योगदण्डं गृहीत्वा निरगमत् ।

प्रसिद्धप्रभवां स्वपुरीं उपेयिवान् । ततः शृङ्गारसागरमहोर्मिकर्मिसर्गनिसर्गविग्रहवती विलासवती नाम

कामिनां निःसीमानन्द संदोहलहरी काचन तृतीयपुरुषार्थपरदेवता समुल्लसति स्म वेश्या । गत्वासौ
 

तत्र तामनुसृत्य योगदण्डसमुद्भूतद्रविणवितरणेन त्यागभोगादि निर्मिमाणः प्रतिदिनं परमैश्वर्यसुखमु

पभुञ्जानो महेन्द्र इव परमप्रमोदमुपासीदति स्म । तत एकस्मिन्दिवसे जरती विलासवतीजननी निजां
30

तनयामिदमन्वयुङ्क्त । अयि केशवो ऽयं व्यवसायविशेषविशेषितं न कंचन व्यवहारं दधानो भवति ।

अयमेक एवाभिवीक्ष्यते । तर्ह्येतस्यैतावद्धनं कुतस्तनमायातीति त्वयाग्रहपुरःसरमसौ प्रष्टव्यः । ततो विला-

सवती वसतेः केशवं धनागमनकारणमप्राचीक्षीत् । ततो ऽसौ केशवो न व्याहरति स्म । तदनु भावविला-

सवत्यतिशयसंभोगाविष्करणेन शृङ्गारलहरीपरिरब्धं मन्मथापारसागर संततरागमहोर्मिकर्मीरितशर्म-

निर्माणवर्माायिताक्रमचङ्क्रमेण विश्रान्तस्वान्तं सततैतोनताविश्रान्तं परिहृतेतरविषयपरिचयं च विधाय
36

काञ्चनचित्तानन्दविगलितोपासकेतरव्यापारागमनकारणं तत्पृच्छति स्म । तदा स्मरंपरवशो
 
ऽसौ
योगदण्डं समस्तद्रविणकारणमावेदयामास । ततः कुट्टिनी तं योगदण्डमपाहार्षीत् । स तु योगदण्ड-

स्तत्प्रदेशान्महदभ्याशमासेदिवान् । केशवस्य धनागमो ऽपि न विद्यते । तदनु तं निर्धनमवबुध्य कुट्टिनी