This page has not been fully proofread.

336
 
व्यर्थजीविता भर्तुभीय व्यवहारपरिहायी सा । जाज्वलीतु जीवितं भवत्या इति । नराकूतप्रभामासा-
दयाम्यापृच्छ्य भवत्यै व्याहरिष्यामीत्यवादीत् । ततो विभावय सा भतारमन्वयुत । तदाकर्णनात्तत्पतिः
प्रत्यवदत् । पापिष्ठे पतीनां सुखपोषणलोषणाय किमित्युदितत्वरासि । त्वं मौनमवलम्बस्व । तेन तथा-
भिहिते ऽपि साग्रहं परिजग्राह । मण्डकागमनकारणमिदमेवाकर्णयसि यदि तदानीं जीवामि नेतरथा ।
5 इति तदाग्रहग्रहपरिगृहीतगलो ऽसौ वृत्तान्तमाश्रावयामास ताम् । तया च प्रतिवेशिन्यै प्राजल्पि ।
सा च तथा कारयिषुर्मन्दोदरी कुठारस्कन्धं विधाय गणेशमूर्तिगतदारुभेदनाय गणेशप्रासादं प्रति
प्राणैषीत्प्राणनाथम् । एतावता तुभ्यमपि व्रतमण्डकान्वितरिष्यति प्रतिदिनं पशुपतिनन्दनः । निशम्ये त्यं
सो सुमतिसमन्वितो विनायकनिकाय्यमासेदितवान् । तदनु लम्बोदरी ऽपि तयोर्विवत्सुबुद्धि-
निबन्धनमभिप्रायमवबुध्यालम्बकबोध्येः पाशेरबभ्रात् । अलक्षितप्रहारास्तु शरीरस्योपर्युपर्यापतन्ति । एवं
10 जीवितव्यनिरपेक्षस्पृहौ कृत्वा विघ्ननाशनः सुमतिमवादीत् । अरे दुष्टमते निवारितो Sभूर्मया पूर्व
न कस्यापि पुरस्ताद्व्याहर्तव्यमिति तत्कस्माद्भवानभ्यधात् । निशम्येति गणेशमुवाच । किं नाम त्वामहं
व्यावचम् । पूर्वजन्मदुरन्तदुतिपरिपाकात् । तर्हि भूमहेन्द्र विचारयतस्तवापीत्यं भवति ॥
 
इति षष्ठी कथा ॥ ६ ॥
 
पुनः प्रभाते राजवृन्दसमभ्यर्चितशासनो विक्रमादित्यो बालसरस्वतीमानाव्य विसारिहसितकारण-
15 मप्राक्षीत् । साप्यचे । देव केशवस्य योगदण्डेन यथाभूत्तथा ते भविष्यति । केशववृत्तान्तं वदेत्युक्ता
सापि बभाषे राजानम् । श्रीपुरं नाम नगरम् । तत्र केशवनामा द्विजः । सो ऽत्यन्तं । निर्धनः । ततः
कदाचित्स्वस्यायतनान्निर्जिगमिषुर्महापुरुषमेकं चक्षुषोर तिथीचकार । तं निजासनाध्यासीनमासाद्य तस्मा
देशाद्देशमुपदिश्य मुहूर्तमानमवस्थाय तदन्वतिथिर्यदि कश्चिदस्मदीये दृशी स्वदर्शवितरणेन चरिता-
र्थयति तदानीं तदर्थितं निष्प्रत्यूहमापूरयामि सर्वमप्यहं प्रवेशनसामर्थ्येनेत्यभिहिते महात्मना स केशवः
20 संनिहिताश्रयः सन्सकामनया परिणतचित्तवृत्तिरतिथिरहमातिष्ठामीति महात्मानमभाषिष्ट । ततस्त-
च्छ्रवणपरिणतसंबन्धविशेषाबाधावबोधने निधनाद्यनेकविधवेदना वैकल्यविशुद्धबुद्धिवैधुर्योद्धरणविविध-
विशेषविधिहलाकदर्थना समर्थिता पृथुप्रथनं प्रथमस्पंदसंपत्प्रदर्शसुदर्शनाश्रयाद्यश्रान्तासाराश्रमपरिश्रा-
न्ताजनुतानुजं न संजीवनधनार्थिनमाह स महात्मा । त्वमेतं मनोरथपूरकं योगदण्ड गृहाण । प्रत्यहमसी
पञ्चशतीं स्वर्णानां तुभ्यं दास्यति । यद्येतच्चरितं परकर्णसंगतं विरचयसि तदानीं मदीयो योगदण्डः
25 पुनर्मत्करसाद्भविष्यति न किमपि तव फलयिष्यति । तदाग्रजन्मासौ योगदण्डं गृहीत्वा निरगमत् ।
प्रसिद्धप्रभवां स्वपुरीं उपेयिवान् । ततः शृङ्गारसागरमहोर्मिकर्मिसर्गनिसर्गविग्रहवती विलासवती नाम
कामिनां निःसीमानन्द संदोहलहरी काचन तृतीयपुरुषार्थपरदेवता ल्लसति स्म वेश्या । गत्वासौ
 
तत्र तामनुसृत्य योगदण्डसमुद्भूतद्रविणवितरणेन त्यागभोगादि निर्मिमाणः प्रतिदिनं परमैश्वर्यसुखमु
पभुञ्जानो महेन्द्र इव परमप्रमोदमुपासीदति स्म । तत एकस्मिन्दिवसे जरती विलासवतीजननी निजां
30 तनयामिदमन्वयुत । अयि केशवो ऽयं व्यवसायविशेषविशेषितं न कंचन व्यवहारं दधानो भवति ।
अयमेक एवाभिवीक्ष्यते । तर्ह्येतस्यैतावद्धनं कुतस्तनमायातीति त्वयाग्रहपुरःसरमसौ प्रष्टव्यः । ततो विला-
सवती वसतेः केशवं धनागमनकारणमप्राचीत् । ततो ऽसौ केशवो न व्याहरति स्म । तदनु भावविला-
सवत्यतिशयसंभोगाविष्करणेन शृङ्गारलहरीपरिरब्धं मन्मथापारसागर संततरागमहोर्मिकर्मीरितशर्म-
निर्माणवर्माायिताक्रमचक्रमेण विश्रान्तस्वान्तं सततैतोनताविश्रान्तं परिहृतेतरविषयपरिचयं च विधाय
36 काञ्चनचित्तानन्दविगलितोपासकेतरव्यापारागमनकारणं तत्पृच्छति स्म । तदा स्मरंपरवशो
 
योगदण्डं समस्तद्रविणकारणमावेदयामास । ततः कुट्टिनी तं योगदण्डमपाहार्षीत् । स तु योगदण्ड-
स्तत्प्रदेशान्महदभ्याशमासेदिवान् । केशवस्य धनागमोऽपि न विद्यते । तदनु तं निर्धनमवबुध्य कुट्टिनी