शुकसप्ततिः /21
This page has been fully proofread twice.
अजायत । तवापि तादृक्प्रकारः प्रादुष्करिष्यते । तदा राजापि तयाथा पृष्टवान्मण्डकागमनचरितम् ।
बालसरस्वत्यादध्वान । जयन्त्यां नगर्यां सुमतिनामधेयो विपणिर्न्यवात्सीत् । तस्य भार्या पद्मिनी ।
इत्थं कालकलितसुकृतसंस्कारस्य धनमपि पर्यहीयत । स तु तृणकाष्ठाद्याहरणदारिद्र्यमुद्रिकाद्रविणा-
हरणेनोदरपरिपूरणं विदधाति । इत्थं प्रवर्तमानो ऽसावेकस्मिन्दिने काष्ठभारमाहर्तुमरण्यं गतवान् ।
तदानींदिने वने ऽपि नासौ काष्ठान्यवाप्तवान् । एवं काष्ठविरहितः परामृष्टकष्टो गृहानगच्छत् । सलि-
लविहरलहरीपोप्लवमानसमन्तककुभं प्रावृड्मायान्तमभिवीक्ष्य संनिहितगणेशप्रासादमासाद्य उत्थि -
तवान् । तत्र च गणेशाभिमुखं निरह्लादयत् । काष्ठघटितां गणेशमूर्तिं अद्राक्षीत् । तां दृष्ट्वा स्वमनसि
समतुष्यत् । अद्यतनीं कुटुम्बभरणजीविकामेतद्गणेशमूर्तिकाष्ठभरेण कल्पयामि । अयमेवोपायो मम वृत्ते-
रित्यभिधाय कुठारं गृहीत्वा सज्जीकृतवान् । ततः प्रहृतिसमये गणेशो वणिजं व्याजहार । अरे
क्रूरकर्मन्पापिष्ठतर किमेतच्चिकीर्षसि । सो ऽब्रवीत् । अहं त्वन्मूर्तिकाष्ठानि शकलीकृत्य भारं प्रकल्प्य
क्रेष्यामि । तेन धनेनाद्यतनीं कुटुम्बजीविकां प्रकल्पयिष्यामि । इत्यभिहिते गणपतिरपि प्राजल्पदेनम् ।
तवायासबाहुल्यमालक्ष्य वयं त्वां प्रति प्रसीदामः । त्वया प्रत्यहं प्रातः आगन्तव्यं मत्पुरस्तात्सघृतशर्करं
मण्डकपञ्चकमत्रावतिष्ठते तत्त्वया गृहीत्वैव गन्तव्यम् । तद्भवतः समस्तकुटुम्बस्य सौहित्यसमर्थनमितर-
वितरणपर्याप्तमपि भवति । परमन्यस्मै यदि वक्ष्यसि तदा न स्फुरिष्यति । इति पौलस्त्यवचनं नियमं
निरणैषीत् । ततः सुमतिस्तत्तथा निश्चित्य निजमन्दिरमाजग्मिवान् । काष्ठविरहितमवेक्ष्य तत्पत्नी प्रय-
त्नवती तं बभाषे । त्वमद्य किं काष्ठभारं नानैषीः । कथमद्य पाककल्पनं कुर्महे । तदनु सो ऽब्रवीत् ।
केनाप्युपायेनाद्यतनं दिनमतिवाहय वल्लभजनोपलम्भनप्रकल्पननियमनेन । प्रातरारभ्येतरेभ्यो ऽपि वि-
तरणपरिणतिपरीणसशौठ्यमध्यंमध्ये जनस्यास्यते भवतीभिरपि । ततः संजातं प्रातरवगत्य वणिग्ग-
णाधीशगृहानगच्छत् अच्छसौधावतः । विघ्नसंघातविघटनपटुतरघनघोषसंघर्षप्रहर्षजगत्त्रयस्य देवस्याग्रे
शर्करासर्पिरवाञ्चितप्रपञ्चमण्डकपञ्चकमपि लोचनगोचरीकरोति स्म । गृहीत्वा स्वगृहमागत्य गृहिणीपा-
णिमलंकृतवान् । तदासावत्यन्तसौहित्यसाहित्यमापनीपन्नः सह कुटुम्बकेन । सुखेनेत्थं प्रवर्तमानो ऽसौ
परमपरिणामप्रकर्षं पुष्णान:नः समयं नयति स्म । ततः * * * * * * * * * * * * * * * * * * *
प्रागतिकष्टदुष्टदिष्टदिनेदिष्टतास्तव संप्रति परमशमं परिकर्मनर्मसक्तिनिर्मर्यादः कर्मविशेषमनिर्मिमाणः
परानन्दमहोदयसमुन्मिषन्मतिरिति सर्वान्वः सुखिनः कलयामि पूर्वं तु दारिद्र्यमुद्राभृतोपद्रवा अभूत ।
इदानीं तु न तथा । किमेतत्कारणमिति तयाभिहिते पद्मिनी तामभाणीत् । मद्भर्ता व्रतमण्डकाना-
नयति । तानभ्यवहृत्य सुखेन तिष्ठाम:मः । कुतस्तानानयतीति न विदांकरवै । तदनु मन्दोदरी गिरमु-
दीरयामास । तर्हि त्वया निजपतिरिति प्रष्टव्यः । कस्मात्प्रदेशादेतानानयन्ति भवन्तो मण्डकानिति ।
तद्वाक्यपरामृष्टप्रश्ना पद्मिनी रमणं निजमनुयुनक्ति स्म । मण्डकास्तु कुत्रत्या आनीयन्त इति मत्पुरस्ता-
दस्तरहस्यं समस्तमप्यव्याहृतं व्याहर्तव्यम् । इत्याकर्ण्य वणिगपि तत्प्रत्युत्तरार्पणाय वाणीं प्रगुणीचकार ।
किमनेन वृथाग्रहपरिग्रहविलसनेन चिकीर्षितं भवत्या । एतदर्थावगमात्समीहितसिद्धिरपि का नाम। ।
यदा परमेश्वरः प्रसीदति तदा सर्वमप्यपेक्षणीयमनायाससमर्थितमर्थापयति ।
यथोचुः । अरिर्मित्रं विषं पथ्यं अधर्मी धर्मतां व्रजेत् ।
अनुकूले जगन्नाथे विपरीते विपर्ययः ॥
तर्हि त्वमेव तज्जिज्ञासितस्य माग्रहं परिगृहाण । तूष्णीमाप्नुहि । तेन न्यक्कृता सा मौनावलम्बनपरायणा
तस्थौ । ततः प्रातरुत्थिता सा पुनरपि मन्दोदर्या समुदैरि । अहो त्वया मण्डकसमागमकारणमवगच्छामि
न वा किम् । तदा तदाकर्ण्य पद्मिनी यामिनीसमतीतं चरितं व्याहृतवती । तन्निशम्य मन्दोदरी
निजोदरोद्नागारं गिरां व्याहारं व्यरचयत् । यस्य ज्ञीप्सेत्स्थितं यद्मतिरेव न स्पृशति तस्य दयितात्वं
बालसरस्वत्यादध्वान । जयन्त्यां नगर्यां सुमतिनामधेयो विपणिर्न्यवात्सीत् । तस्य भार्या पद्मिनी ।
इत्थं कालकलितसुकृतसंस्कारस्य धनमपि पर्यहीयत । स तु तृणकाष्ठाद्याहरणदारिद्र्यमुद्रिकाद्रविणा-
हरणेनोदरपरिपूरणं विदधाति । इत्थं प्रवर्तमानो ऽसावेकस्मिन्दिने काष्ठभारमाहर्तुमरण्यं गतवान् ।
तदानींदिने वने ऽपि नासौ काष्ठान्यवाप्तवान् । एवं काष्ठविरहितः परामृष्टकष्टो गृहानगच्छत् । सलि-
लविहरलहरीपोप्लवमानसमन्तककुभं प्रावृड्मायान्तमभिवीक्ष्य संनिहितगणेशप्रासादमासाद्य उत्थि
तवान् । तत्र च गणेशाभिमुखं निरह्लादयत् । काष्ठघटितां गणेशमूर्तिं अद्राक्षीत् । तां दृष्ट्वा स्वमनसि
समतुष्यत् । अद्यतनीं कुटुम्बभरणजीविकामेतद्गणेशमूर्तिकाष्ठभरेण कल्पयामि । अयमेवोपायो मम वृत्ते-
रित्यभिधाय कुठारं गृहीत्वा सज्जीकृतवान् । ततः प्रहृतिसमये गणेशो वणिजं व्याजहार । अरे
क्रूरकर्मन्पापिष्ठतर किमेतच्चिकीर्षसि । सो ऽब्रवीत् । अहं त्वन्मूर्तिकाष्ठानि शकलीकृत्य भारं प्रकल्प्य
क्रेष्यामि । तेन धनेनाद्यतनीं कुटुम्बजीविकां प्रकल्पयिष्यामि । इत्यभिहिते गणपतिरपि प्राजल्पदेनम् ।
तवायासबाहुल्यमालक्ष्य वयं त्वां प्रति प्रसीदामः । त्वया प्रत्यहं प्रातः आगन्तव्यं मत्पुरस्तात्सघृतशर्करं
मण्डकपञ्चकमत्रावतिष्ठते तत्त्वया गृहीत्वैव गन्तव्यम् । तद्भवतः समस्तकुटुम्बस्य सौहित्यसमर्थनमितर-
वितरणपर्याप्तमपि भवति । परमन्यस्मै यदि वक्ष्यसि तदा न स्फुरिष्यति । इति पौलस्त्यवचनं नियमं
निरणैषीत् । ततः सुमतिस्तत्तथा निश्चित्य निजमन्दिरमाजग्मिवान् । काष्ठविरहितमवेक्ष्य तत्पत्नी प्रय-
त्नवती तं बभाषे । त्वमद्य किं काष्ठभारं नानैषीः । कथमद्य पाककल्पनं कुर्महे । तदनु सो ऽब्रवीत् ।
केनाप्युपायेनाद्यतनं दिनमतिवाहय वल्लभजनोपलम्भनप्रकल्पननियमनेन । प्रातरारभ्येतरेभ्यो ऽपि वि-
तरणपरिणतिपरीणसशौठ्यमध्यंमध्ये जनस्यास्यते भवतीभिरपि । ततः संजातं प्रातरवगत्य वणिग्ग-
णाधीशगृहानगच्छत् अच्छसौधावतः । विघ्नसंघातविघटनपटुतरघनघोषसंघर्षप्रहर्षजगत्त्रयस्य देवस्याग्रे
शर्करासर्पिरवाञ्चितप्रपञ्चमण्डकपञ्चकमपि लोचनगोचरीकरोति स्म । गृहीत्वा स्वगृहमागत्य गृहिणीपा-
णिमलंकृतवान् । तदासावत्यन्तसौहित्यसाहित्यमापनीपन्नः सह कुटुम्बकेन । सुखेनेत्थं प्रवर्तमानो ऽसौ
परमपरिणामप्रकर्षं पुष्णा
प्रागतिकष्टदुष्टदिष्टदिनेदिष्टतास्तव संप्रति परमशमं परिकर्मनर्मसक्तिनिर्मर्यादः कर्मविशेषमनिर्मिमाणः
परानन्दमहोदयसमुन्मिषन्मतिरिति सर्वान्वः सुखिनः कलयामि पूर्वं तु दारिद्र्यमुद्राभृतोपद्रवा अभूत ।
इदानीं तु न तथा । किमेतत्कारणमिति तयाभिहिते पद्मिनी तामभाणीत् । मद्भर्ता व्रतमण्डकाना-
नयति । तानभ्यवहृत्य सुखेन तिष्ठा
दीरयामास । तर्हि त्वया निजपतिरिति प्रष्टव्यः । कस्मात्प्रदेशादेतानानयन्ति भवन्तो मण्डकानिति ।
तद्वाक्यपरामृष्टप्रश्ना पद्मिनी रमणं निजमनुयुनक्ति स्म । मण्डकास्तु कुत्रत्या आनीयन्त इति मत्पुरस्ता-
दस्तरहस्यं समस्तमप्यव्याहृतं व्याहर्तव्यम् । इत्याकर्ण्य वणिगपि तत्प्रत्युत्तरार्पणाय वाणीं प्रगुणीचकार ।
किमनेन वृथाग्रहपरिग्रहविलसनेन चिकीर्षितं भवत्या । एतदर्थावगमात्समीहितसिद्धिरपि का नाम

निजोदरोद्