This page has been fully proofread twice.

जाता । विविक्ततया द्वयोरपि हृदरुंतुदः सातिशयः कञ्श्चन प्रेमा प्रावर्धिष्ट । तदनुसारी गोविन्दो
ऽपि शकटमाटीकते स्माकपटस्नेहः शकटमारोढुं प्रावर्तिष्ट । ततो गोविन्दः केशवेनोल्लुठ्य परतः परि -
चिक्षिपे । अनुयास्यसि यदि तदानीं साधुतया शिक्षयिष्यामि । मदीया जाया मदीयः शकटः । न
निश्चिनोमि त्वां कुतस्तनं पारिपन्थिकम् । कस्माच्छकटमारुरुक्षसि । इत्थं करुणया शकटमारोपितः
केशवञ्श्चण्डालचण्डताममण्डयत् । इत्थं तयोर्विवदमानयोः गोविन्दस्तु नरदेवमावेदयत् । नृपसमक्षं
व्यवहारो ऽजायतोभयोरपि । एको वक्ति मदीयेयमिति । इतरो ऽपि तथैव । तत्रत्याः सभासदः स्त्रियं
तामप्राक्षुः । कस्य त्वं जायेति । तया संजातनूतनमैत्रो धूर्त एव भर्तृत्वेन परिगृहीतः । तां दृष्ट्वा गो-
विन्दो जगाद । पापमेतदभिलाषमनीषया व्यवहरमाणा वर्तते । तदनु पृथ्वीप्रशास्ता प्रधानिनं बभाषे
त्वया स विवादो निर्णेतव्यः । तर्हि प्रभावति त्वमेव प्रतिभानवती भूत्वैतदुत्तरं वावदीहि । केनोपायेन
विवादस्तयोरत्रुट्यत् । ततः प्रभावती चिन्तावती बभूव परं न हृदयसंदेहमपनुदती । ततः पृष्ट्वा शुकं
तदुत्तरदानोत्सुकं चकार । तदानीममात्यस्तां स्त्रियमवोचत् । भवन्तौ संवसनान्निरगाताम् । तर्ह्यस्यां
त्रियामायां किमभ्यवहारि । तथा चैतदेव गोविन्दकेशवौ च प्रश्नीकृतवान् । स्त्रीव्याहृतेन गोविन्दगदितं
संगतमबध्नात् । ततः केशवमवमत्य गोविन्दाय तां स्त्रियं विततार । प्रभावति प्रभाववैभवमेतादृशं
भावयसि चेत्तदानीमेतदादरणीयम् ॥
 
इति चतुर्थी कथा ॥ ४
 
पुनरपि यामिनीमुखे विनयकन्दर्पसमीपमियासुः प्रभावती प्रालपदिति पक्षिणम् । सो ऽपि स्वोपरि
पर्याप्तं तमपराधमपरस्योपरि क्षेप्तुं बालसरस्वतीवद्बुद्धिवैभवेन प्रभवसि चेत्तदानीं संजीवतामिति
प्राजल्पत् । प्रभावत्यपि बालसरस्वत्याश्चतुरचरितमवबुभुत्सुः कीरं गीर्भिरुदीरयत् । सो ऽपि चरितं
तत्प्रभावतीमवजिगमिषुर्वाचं प्रापञ्चयत् । आकर्णयतु कुमुदनन्दिनोनी । उज्जयिन्यां गुणगणप्रागल्भ्येन जग-
त्त्रयजयिन्यां नगर्यां समाक्रान्ताक्रामद्विषत्पराक्रमो विक्रमार्कः । स सागराम्बरां यथावदाहार्षीत् । सकलक-
लाकुशला कामकलिका नाम कलाकलापानुभवकौतुकसंजीवनप्रथमाङ्कुरा महीपतेः सान्द्रानन्दामन्द-
निष्यन्दोदबिन्दुसंदोहबन्धूभवदविरलविलसिततरलतानलविसृमरस्मरसमरसमारब्धतरंगितानङ्गरसप-
रिरम्भसंरम्भसौरभ्यलहरी विहारोचितप्रयासा कामिमनोरथपात्रं परिजृम्भते स्म । सापि च पृथ्वीपतेः
पुरो निजं पातिव्रत्यं नितरां प्रकटीकरोति । त्वं मत्प्राणनाथः । आवयोर्देहकृतैव द्विभिदा चित्तगत्या
तु न द्वैतवृत्तिपरिक्लृकॢप्तिः प्रबलीभवतीति वचोविशेषाद्विशां पतिं श्रावयति राजश्चरणमुद्रामुद्रितमा-
त्मीयोत्तमाङ्गमङ्गीकुरुते नियमरचितां कुलशीलसंपत्प्रदां तुलसीं पत्युः पादयोरर्पयति अभ्यवहृतेः पूर्वम् ।
ततः कस्मिंश्चिदेकस्मिन्नहनि भूभर्ता महिषी चैकभाजन एव बुभुजाते । तदा पृथिवीपतिः प्रथमास्पदां
प्रियां प्रत्याह । निःसीमानं स्वादुमहिमानं समुद्द्योतयन्त्यद्यतना मीनाः । तत्किमिति न भवतीभिरभ्यवहृ-
तिविषयतामापद्यन्ते । ततस्तयाप्यराणि । किमिति प्रभुभिरसमंजसमभिधीयते । अतितीव्रसतीव्रतपरप्रकर्ष -
प्रभावप्रदं चरितमिदमस्मदीयं नावदधति भवन्तः । मत्पतित्वमापन्नान् श्रीमतो ऽत्रभवतः परिहृत्य
पुंनामपरिमितपदं पदार्थं नाहं दृशा स्पृशामि किं पुनस्तदुपभोगं हरिहरीत्यभिधाय श्रवणौ पा-
णिभ्यामप्यधात् । ततस्तादृशं तत्समीरितं निशम्य स्थालस्थो मत्स्यो ऽहसिष्ट । तदालोक्य भूपालः परं
विषादमासाद्य स्थलादुदस्थात् । ततो गण्डूषाचमनादिना शुद्धिमात्मनो विधाय ताम्बूलं स्व्यकार्षीत् । ततः
प्रातः प्रातस्तनीं क्रियां निर्माय निर्मर्यादविक्रमांमो विक्रमार्कः संसदमासदत् । तत्र चानेकशो विपश्चितः
स्वादेशिनः सूचनक्षण एवं स्वमनीषानिषण्णततवचःप्रपञ्चेन परेषां चेतसि पराजयं कर्तुं प्रभविष्णवो
ध्वनितैरेवाध्वध्वान्तविध्वंसकाः सर्वज्ञादिगुणगणैः प्रकटीकृतमहिमातिशया नृपतेः पुरस्तादध्यासामासुः ।
राजा च तान्मत्स्यहासकारणमप्राक्षीत् । ततस्तदनिमेषहसितं न को ऽपि विपश्चिद्विवेक्तुं शक्नोति । तदनु