This page has been fully proofread once and needs a second look.

स तयोर्निर्णयकथकघटककोटिं कथमटीकृतवान् । तदाकर्ण्य प्रभावत्यपि प्रतिभाविजृम्भमानविचारचा-

तुर्यपरिणतिमवगाहमाना तमस्विनीमनीनिषत्पारम् । परं ततो न तन्निर्णयो बुद्धिदर्पणे प्रतिफलति ।

तथा प्रातः पृष्टः पक्षी प्रभावतीं प्रत्याह । तदा त्ववनीनायको विमलस्य द्वे स्त्रियौ समानीयाप्राक्षीत् ।

भवत्योर्विवाहसमये भवद्भत्रीर्त्रा भवत्योः कृते भूषणानि कानि कल्पितानि । तयोर्व्याहृतं श्रुत्वा द्वावपि

विमलौ पृथगवस्थाप्य पूर्वोदितमेवापृच्छत् । तदुदितं सत्यविमलवचसा तादात्म्यमापनीपन्नम् । तच्छ्रुत्वा

नृपतिः सत्यविमलं मानयित्वा स्वगृहान्प्रति प्राहेहैषीत् । धूर्तविमलाय चुकोप सत्यविमलस्य संपत्तिं

तस्यैवाकरोत् । तर्हि प्रभावति निर्णयादावित्यंथं प्रतिभाप्रभावप्रभुतामालम्बसे चेत्तदानीमत्युत्कृष्टमव-

गाह्यमेतदङ्गीकार्यम् ॥
 

 
इति तृतीया कथा ॥३॥
 
10

 
पुनः प्रभावती उपपत्युपान्तमीयुषी पतंगपुंगवं जगाद । सो ऽपि बहुसुतमन्त्रीवत्समासन्नमायासघनं

कार्यं निस्तरीतुमीशिषे यदि तदानीमनुतिष्ठेति प्रभावतीमवादीत् । सापि कथं बहुसुतमन्त्री सायासं

कार्यं निस्तीर्णस्तदभिधत्स्वेति । ततः सो ऽपि तत्प्रश्नं वक्तुं प्रचक्रमे । सोमपुराख्ये नगरे सोमशर्माभिधो

ब्राह्मणो न्यवात्सीत् । तस्यैका कन्या । न कश्चिदपि तामुद्वहते अलक्षणपरिचितसर्वाङ्गत्वात् । इत्यंथं सापि

विवाहसमयमतिनीतवती । ततस्तस्याः पिता तां सह नीत्वा तद्वरदर्शनाय प्रदेशविशेषानाक्रामद्भूयसः ।
15

न कश्चिदपि तां वृणीते । तदनु जनकस्थानं नाम पुटभेदमाससाद । तत्र गोविन्दो नाम विद्यार्थी

मठे विद्याभ्यासं प्रगुणयति । स सोमशर्मा तस्मै स्वां दुहितरं ददौ । स गोविन्दो बहुभिर्निवार्यमाणो

ऽपि परं तां पर्यनैषीत् । ततः पिता तामुद्वाह्य निजं नगरमाजगाम । स गोविन्दो भार्यया सह

तत्रावस्थातुं प्रववृते । तदनु दिवसेष्वतिक्रान्तेषु तया जायया स गोविन्दोऽभ्यधायि । यदाप्रभृत्य
हं
भवतोद्वाहिता तदानीमारभ्य भक्तभोज्यविशेषो न क्वचिदासाद्यते । आत्मान्धसा हीना बुभुक्षया म्रियमा
20

णास्मि । तर्धुह्युत्तिष्ठत । यामो मत्पितुर्गृहान् । तत्र गतानामस्माकं पितृदर्शनं भविष्यति । श्वशुरो मा-

नयिष्यति भवतो वसनादिना । अत्र तु को ऽप्युपायविशेषस्तिष्ठति । स गृहमस्माकमापादयति ।

 
तथा चोचिरे।
 
5
 
25
 
332
 
30
 
यस्मिन्देशे न संमानो न वृत्तिर्न च बान्धवाः ।
 

न च विद्यागमो नापि धनं तत्र स्थितिः कथम् ॥

स्थानत्यागं प्रकुर्वन्ति सिंहाः सत्पुरुषा गजाः ।
 

तत्रैव निधनं यान्ति काका: कापुरुषा अजाः ॥
 

 
इत्थं तया जाययाप्यशब्दि । गोविन्दस्तु न तन्मनसि कुर्वन्पुनरब्रवीत् । वचनमेतत्तथ्यमुपपन्नं न नीति-
पदव

पदवीं
दवीयसीं प्रकल्पयति । यत्र प्रदेशे पुंसो नोद्यमविशेषः कश्चिन्न तेन तत्रावस्थातव्यम् । परं

श्वशुराश्र
यं श्रितवतां शास्त्रे लोके ऽपि नितरामवमत्यता विद्योततेतराम् ।
 

 
तथा चाभ्यधुः ।
 
उत्तमाः स्वधनैः ख्याताः पितृद्रव्येण मध्यमाः ।

अधमा मातुलेःलैः ख्याताः श्वाशुरैश्चाधमाधमाः ॥
 

 
गोविन्देनेत्थमभिहिते ऽपि परं तया दुराग्रही गृहीतः । बलादेव सा तं नीतवती निजजनकसमी-

पोद्देशम् । ततो गोविन्दः शताङ्गं सज्जीकृत्य तमधिरुह्य द्वावपि निरगाताम् । ततो गच्छतोर्मार्गे

केशवः सहप्रस्थायी संगतवान् । दवीयसि वर्त्मनि तेन समं ग़रिष्ठां गोष्ठीमनुतिष्ठन् गोविन्दस्तमपि

शकटमारोपितवान् । तदनु मार्गे मूत्रमुत्स्रष्टुं गोविन्दः स्यन्दनादवारुक्षत् । ततो ऽसौ केशवस्त्ववती-
35

र्णमालच्यानड्ढाहीवाहौ प्रतोदेन तूर्णगत्या प्राणुदत् । तदनु शकटोपरि परपुरुषेण समं संजातमनीषिणी