शुकसप्ततिः /17
This page has been fully proofread twice.
पुनः प्रभावती विवक्षुः पक्षिणं चक्षुर्भ्यां लक्षीचकार । ततो ऽब्रवीत्पतत्री । देवि नरोत्तमनृपतिवद्भवती
यद्यभियोगं निर्णेतुं पारयति तदेतदाद्रियताम् । ततः प्रभावती तद्वृत्तान्तमपृच्छत् । पतंगनृप चरितं
तदभिधातव्यमिति समभिहिते शुकः सकलं कथाकौतुकमकथयत् । विशालपुराहूह्वयं नगरम् । तत्र
नरोत्तमो नृपतिः परिपालयति धरित्रीम् । स्कन्धावतारे तस्मिन्विमलनामा वणिक् । तस्य द्वे भार्ये ।
एका रुक्मिणी वर्णव्याहार्या इतरा च सुन्दरी संज्ञया । तद्द्वे अपि स्त्रियौ अत्यन्तमेव चित्तप्रमाथिन्यौ
विलोक्य कुटिलाख्यो धूर्तः स्मरशरनिकरपरिहतिहृतामन्दप्रमोदमहोदयः कमपि प्रकारविशेषं चिकीर्षुः
आरिराधयिषुः षोडशोपचारप्रचाराचरणचातुर्यपरिचयवैचित्र्यचित्रीयमाणचित्तां तदभिमतदेवतां
प्रत्यक्षीकृत्याभिलषितं प्रणुतादिति देवताभिहितः कुटिलो ऽप्यात्मनो रूपं विमलस्येवानधिकप्रमाण-
वर्णवयोऽवयवसौन्दर्यसमुदायानेकतरप्रतीयमानपार्थक्यं प्रार्थितवान् । ततो देवतया तथा भविष्यतीत्युक्ते
तदाकृत्यवलम्बनसमयसमनन्तरमन्यस्मिन्दिवसे विमलं ग्रामान्तरगतमवगत्य स्वयं तदगारं गत्वा द्वार्गो -
प्तारमद्यप्रभृति भवतो द्विगुणं जीवितं भक्तं शीतत्राणपटीयसीर्द्विपटी:टीः प्रयच्छामि तदानीमेवेत्याभाष्य
मत्समानरूपः कश्चिदप्यन्तः प्रवेष्टुमदातव्य इत्यभिधाय धिष्ण्यमध्यमध्यास्य सौन्दर्यादिगुणगणोदारा -
न्दारानाकार्य जाययोर्द्वयोः शुचीनि चीराणि अलंकारनिचयांश्च वितीर्य सेवकलोकमाच्छादना -
शनप्रियोक्तिभिः परिभाष्य सर्वांस्तानात्मीयान्विधाय मनीषितान्भोगानुपभुञ्जानो दानपुण्यविशेषांश्च
निर्मिमाणः सुखसंचयमासाद्याध्यवासीत्सः । ततस्तद्गृहिणीभ्यां परस्परं समकथ्यत कथापि । परिवृढो
ऽस्माकं वराटीव्यये ऽपि भृशं व्यसीदत् । इदानीमेव संपदो दानभोगादिना समागमोदयमगणय-
न्संप्रयोगमादरीदरीति । तर्हि कमत्र चित्तपरिगतमाशयं कलयाम । किमात्मनि पुरस्तादनिष्टं दरीदृ-
ष्टमितः प्रकृतबाधेनागामिनो ऽपसर्गेण चेतसि वैकृतं किमप्याविष्कृतम् । तदा सा वार्त्ता विमलस्यापि
श्रवणविषयमगमत् । ततो ऽशेषविधेयबाधेन विधुरितोपलब्धिर्धावमान एव निजागारद्वारमागत्य द्वारं
प्रविविक्षन्द्वार्गोपकेन गले गृहीत्वा परिलोठितो बहिर्निरयासीत्तध्थ्यविमलः । ततो ऽसावर्गलं गृहीत्वा
द्वाःस्थानवादीत् । अहमेतन्निकेतननायकः । कस्मान्मामपसारयन्ति भवन्तः । ततो द्वाःस्थो ऽप्यवदत् ।
स्वामी वेश्मनो ऽन्तर्निवसति । त्वं परतो ऽभिसरेत्यभिधाय निराकरोत्तम् । ततो ऽसौ सत्यविमल-
स्तावत्तं राजानमावेदयामास । देव महाराज । मदीये मन्दिरे धूर्तः कश्चिदागम्य प्रविश्य निवसति ।
मम समग्रामपि संपदं व्ययातिशयकरणेन विपदं प्रापयति । तर्हि मदीयो यो निर्णयः त्वत्पुरस्ता-
त्कारयितव्यः ।
यतो ऽभ्यधुः । बलं मूर्खस्य मौनत्वं तस्करस्यानृतं बलम् ।
दुर्बलस्य बलं राजा बालस्य रुदितं बलम् ॥
एतस्मात्कारणान्ममात्रभवाञ्छरणमाविरासीत् । ततो महीपालस्तमलीकविमलमानेतुं मानुषानननूनुदत् ।
तदन्वस्य नृपतिशासनमायातमभिवीक्ष्य राज्ञे दर्शनविधेयेनार्प्याणि मौक्तिकानि रत्नानि वस्त्राणि
चापरिचितपूर्वाणि समानीतवान् ।
तथा चाहुः । रिक्तपाणिर्न प्रविशेद्राजानं दैवतं गुरुम् ।
नैमित्तिकं तथा मित्रं फलेन फलमादिशेत् ॥
इत्यंथं राजानं दृष्टवान् । अथासौ राज्ञा निजगदे । त्वमेतदीयां संपदं किमिति व्ययीकरोषि । तच्छ्रुत्वा-
वितथविमलो वाचं प्रापञ्चयत् । संपत्तिरियं मदीया । दस्युरसौ । तथैव सम्यग्विमलो वाचा जिजृम्भे ।
एवं स्थिते सति राज्ञो ऽपि सातिशयः संदेहसमुदय उदियाय । द्वावपि सादृश्यं स्पृशन्तौ न चान -
योरेकस्य मिथ्यात्वसंज्ञानं संपादयितुं प्रभूयते केनापि । तर्हि प्रभावति भवत्यपि विचारयतु नाम ।
यद्यभियोगं निर्णेतुं पारयति तदेतदाद्रियताम् । ततः प्रभावती तद्वृत्तान्तमपृच्छत् । पतंगनृप चरितं
तदभिधातव्यमिति समभिहिते शुकः सकलं कथाकौतुकमकथयत् । विशालपुरा
नरोत्तमो नृपतिः परिपालयति धरित्रीम् । स्कन्धावतारे तस्मिन्विमलनामा वणिक् । तस्य द्वे भार्ये ।
एका रुक्मिणी वर्णव्याहार्या इतरा च सुन्दरी संज्ञया । तद्द्वे अपि स्त्रियौ अत्यन्तमेव चित्तप्रमाथिन्यौ
विलोक्य कुटिलाख्यो धूर्तः स्मरशरनिकरपरिहतिहृतामन्दप्रमोदमहोदयः कमपि प्रकारविशेषं चिकीर्षुः
आरिराधयिषुः षोडशोपचारप्रचाराचरणचातुर्यपरिचयवैचित्र्यचित्रीयमाणचित्तां तदभिमतदेवतां
प्रत्यक्षीकृत्याभिलषितं प्रणुतादिति देवताभिहितः कुटिलो ऽप्यात्मनो रूपं विमलस्येवानधिकप्रमाण-
वर्णवयोऽवयवसौन्दर्यसमुदायानेकतरप्रतीयमानपार्थक्यं प्रार्थितवान् । ततो देवतया तथा भविष्यतीत्युक्ते
तदाकृत्यवलम्बनसमयसमनन्तरमन्यस्मिन्दिवसे विमलं ग्रामान्तरगतमवगत्य स्वयं तदगारं गत्वा द्वार्गो
प्तारमद्यप्रभृति भवतो द्विगुणं जीवितं भक्तं शीतत्राणपटीयसीर्द्विप
मत्समानरूपः कश्चिदप्यन्तः प्रवेष्टुमदातव्य इत्यभिधाय धिष्ण्यमध्यमध्यास्य सौन्दर्यादिगुणगणोदारा
न्दारानाकार्य जाययोर्द्वयोः शुचीनि चीराणि अलंकारनिचयांश्च वितीर्य सेवकलोकमाच्छादना
शनप्रियोक्तिभिः परिभाष्य सर्वांस्तानात्मीयान्विधाय मनीषितान्भोगानुपभुञ्जानो दानपुण्यविशेषांश्च
निर्मिमाणः सुखसंचयमासाद्याध्यवासीत्सः । ततस्तद्गृहिणीभ्यां परस्परं समकथ्यत कथापि । परिवृढो
ऽस्माकं वराटीव्यये ऽपि भृशं व्यसीदत् । इदानीमेव संपदो दानभोगादिना समागमोदयमगणय-
न्संप्रयोगमादरीदरीति । तर्हि कमत्र चित्तपरिगतमाशयं कलयाम । किमात्मनि पुरस्तादनिष्टं दरीदृ-
ष्टमितः प्रकृतबाधेनागामिनो ऽपसर्गेण चेतसि वैकृतं किमप्याविष्कृतम् । तदा सा वार्त्ता विमलस्यापि
श्रवणविषयमगमत् । ततो ऽशेषविधेयबाधेन विधुरितोपलब्धिर्धावमान एव निजागारद्वारमागत्य द्वारं
प्रविविक्षन्द्वार्गोपकेन गले गृहीत्वा परिलोठितो बहिर्निरयासीत्त
द्वाःस्थानवादीत् । अहमेतन्निकेतननायकः । कस्मान्मामपसारयन्ति भवन्तः । ततो द्वाःस्थो ऽप्यवदत् ।
स्वामी वेश्मनो ऽन्तर्निवसति । त्वं परतो ऽभिसरेत्यभिधाय निराकरोत्तम् । ततो ऽसौ सत्यविमल-
स्तावत्तं राजानमावेदयामास । देव महाराज । मदीये मन्दिरे धूर्तः कश्चिदागम्य प्रविश्य निवसति ।
मम समग्रामपि संपदं व्ययातिशयकरणेन विपदं प्रापयति । तर्हि मदीयो यो निर्णयः त्वत्पुरस्ता-
त्कारयितव्यः ।
यतो ऽभ्यधुः । बलं मूर्खस्य मौनत्वं तस्करस्यानृतं बलम् ।
दुर्बलस्य बलं राजा बालस्य रुदितं बलम् ॥
एतस्मात्कारणान्ममात्रभवाञ्छरणमाविरासीत् । ततो महीपालस्तमलीकविमलमानेतुं मानुषान
तदन्वस्य नृपतिशासनमायातमभिवीक्ष्य राज्ञे दर्शनविधेयेनार्प्याणि मौक्तिकानि रत्नानि वस्त्राणि
चापरिचितपूर्वाणि समानीतवान् ।
तथा चाहुः । रिक्तपाणिर्न प्रविशेद्राजानं दैवतं गुरुम् ।
नैमित्तिकं तथा मित्रं फलेन फलमादिशेत् ॥
इत्
वितथविमलो वाचं प्रापञ्चयत् । संपत्तिरियं मदीया । दस्युरसौ । तथैव सम्यग्विमलो वाचा जिजृम्भे ।
एवं स्थिते सति राज्ञो ऽपि सातिशयः संदेहसमुदय उदियाय । द्वावपि सादृश्यं स्पृशन्तौ न चान