शुकसप्ततिः /17
This page has been fully proofread once and needs a second look.
पुनः प्रभावती विवक्षुः पक्षिणं चक्षुर्भ्यायां लक्षीचकार । ततो ऽब्रवीत्पतत्री । देवि नरोत्तमनृपतिवद्भवती
यद्यभियोगं निर्णेतुं पारयति तदेतदाद्रियताम् । ततः प्रभावती तद्वृत्तान्तमपृच्छत् । पतंगनृप चरितं
तदभिधातव्यमिति समभिहिते शुकः सकलं कथाकौतुकमकथयत् । विशालपुराहूयं नगरम् । तत्र
नरोत्तमो नृपतिः परिपालयति धरित्रीम् । स्कन्धावतारे तस्मिन्विमलनामा वणिक् । तस्य द्वे भायें।
र्ये।
एका रुक्मिणी वर्णव्याहायीर्या इतरा च सुन्दरी संज्ञया । तङ्केद्द्वे अपि स्त्रियौ अत्यन्तमेव चित्तप्रमाथिन्यौ 6
विलोक्य कुटिलाख्यो धूर्तः स्मरशरनिकरपरिहतिहृतामन्दप्रमोदमहोदयः कमपि प्रकारविशेषं चिकीर्षुः
आरिराधयिषुः षोडशोपचारप्रचाराचरणचातुर्यपरिचयवैचित्र्यचित्रीयमाणचित्तां तदभिमतदेवतां
प्रत्यक्षीकृत्याभिलषितं प्रणुतादिति देवताभिहितः कुटिलो ऽप्यात्मनो रूपं विमलस्येवानधिकप्रमाण-
वर्णवयोऽवयवसौन्दर्यसमुदायानेकतरप्रतीयमानपार्थक्यं प्रार्थितवान् । ततो देवतया तथा भविष्यतीत्युक्ते
तदाकृत्यवलम्बनसमय समनन्तरमन्यस्मिन्दिवसे विमलं ग्रामान्तरगतमवगत्य स्वयं तदगारं गत्वा द्वार्गो - 10
प्तारमद्यप्रभृति भवतो द्विगुणं जीवितं भक्तं शीतत्राणपटीयसीर्द्विपटी: प्रयच्छामि तदानीमेवेत्याभाष्य
मत्समानरूपः कश्चिदप्यन्तः प्रवेष्टुमदातव्य इत्यभिधाय धिष्ण्यमध्यमध्यास्य सौन्दर्यादिगुणगणोदारा -
न्दारानाकार्य जाययोर्द्वयोः शुचीनि चीराणि अलंकारनिचयांश्च वितीर्य सेवकलोकमाच्छादना -
शनप्रियोक्तिभिः परिभाष्य सर्वावांस्तानात्मीयान्विधाय मनीषितान्भोगानुपभुञ्जानो दानपुण्यविशेषांश्च
निर्मिमाणः सुखसंचयमासाद्याध्यवासीत्सः । ततस्तद्गृहिणीभ्यां परस्परं समकथ्यत कथापि । परिवृढो15
ऽस्माकं वराटीव्ययेप ऽपि भृशं व्यसीदत् । इदानीमेव संपदो दानभोगादिना समागमोदयमगणय-
न्संप्रयोगमादरीदरीति । तर्हि कमत्र चित्तपरिगतमाशयं कलयाम । किमात्मनि पुरस्तादनिष्टं दरीदृ-
ष्टमितः प्रकृतबाधेनागामिनो ऽपसर्गेण चेतसि वैकृतं किमप्याविष्कृतम् । तदा सा वातीर्त्ता विमलस्यापि
श्रवणविषयमगमत् । ततो ऽशेषविधेयबाधेन विधुरितोपलब्धिधावमान एव निजागारद्वारमागत्य द्वारं
प्रविविक्षन्द्वार्गोपकेन गले गृहीत्वा परिलोठितो बहिर्निरयासीत्तध्यविमलः । ततो ऽसावर्गलं गृहीत्वा20
द्वाःस्थानवादीत् । अहमेतन्निकेतननायकः । कस्मान्मामपसारयन्ति भवन्तः । ततो द्वाःस्थो ऽप्यवदत् ।
स्वामी वेश्मनो ऽन्तर्निवसति । त्वं परतो ऽभिसरेत्यभिधाय निराकरोत्तम् । ततो सत्यविमल-
स्तावत्ततं राजानमावेदयामास । देव महाराज । मदीये मन्दिरे धूर्तः कश्चिदागम्य प्रविश्य निवसति ।
मम समग्रामपि संपदं व्ययातिशयकरणेन विपदं प्रापयति । तर्हि मदीयो यो निर्णयः त्वत्पुरस्ता-
त्कारयितव्यः ।
यतो ऽभ्यधुः ।
बलं मूर्खस्य मौनत्वं तस्करस्यानृतं बलम् ।
दुर्बलस्य बलं राजा बालस्य रुदितं बलम् ॥
331
एतस्मात्कारणान्ममात्रभवाञ्छरणमाविरासीत् । ततो महीपालस्तमलीकविमलमानेतुं मानुषानननुदत् ।
तदन्वस्य नृपतिशासनमायातमभिवीच्क्ष्य राज्ञे दर्शनविधेयेनार्ष्प्याणि मौक्तिकानि रत्नानि वस्त्राणि
चापरिचितपूर्ववाणि समानीतवान् ।
तथा चाहुः ।
रिक्तपाणिर्न प्रविशेद्राजानं दैवतं गुरुम् ।
नैमित्तिकं तथा मित्रं फलेन फलमादिशेत् ॥
25
30
इत्यं राजानं दृष्टवान् । अथासौ राज्ञा निजगदे । त्वमेतदीयां संपदं किमिति व्ययीकरोषि । तच्छ्रुत्वा
वितथविमलो वाचं प्रापञ्चयत् । संपत्तिरियं मदीया । दस्युरसौ । तथैव सम्यस्ग्विमलो वाचा जिजृम्भे ।
एवं स्थिते सति राज्ञो ऽपि सातिशयः संदेहसमुदय उदियाय । द्वावपि सादृश्यं स्पृशन्तौ न चान -35
योरेकस्य मिथ्यात्वसंज्ञानं संपादयितुं प्रभूयते केनापि । तर्हि प्रभावति भवत्यपि विचारयतु नाम ।
यद्यभियोगं निर्णेतुं पारयति तदेतदाद्रियताम् । ततः प्रभावती तद्वृत्तान्तमपृच्छत् । पतंगनृप चरितं
तदभिधातव्यमिति समभिहिते शुकः सकलं कथाकौतुकमकथयत् । विशालपुराहूयं नगरम् । तत्र
नरोत्तमो नृपतिः परिपालयति धरित्रीम् । स्कन्धावतारे तस्मिन्विमलनामा वणिक् । तस्य द्वे भा
एका रुक्मिणी वर्णव्याहा
विलोक्य कुटिलाख्यो धूर्तः स्मरशरनिकरपरिहतिहृतामन्दप्रमोदमहोदयः कमपि प्रकारविशेषं चिकीर्षुः
आरिराधयिषुः षोडशोपचारप्रचाराचरणचातुर्यपरिचयवैचित्र्यचित्रीयमाणचित्तां तदभिमतदेवतां
प्रत्यक्षीकृत्याभिलषितं प्रणुतादिति देवताभिहितः कुटिलो ऽप्यात्मनो रूपं विमलस्येवानधिकप्रमाण-
वर्णवयोऽवयवसौन्दर्यसमुदायानेकतरप्रतीयमानपार्थक्यं प्रार्थितवान् । ततो देवतया तथा भविष्यतीत्युक्ते
तदाकृत्यवलम्बनसमय
प्तारमद्यप्रभृति भवतो द्विगुणं जीवितं भक्तं शीतत्राणपटीयसीर्द्विपटी: प्रयच्छामि तदानीमेवेत्याभाष्य
मत्समानरूपः कश्चिदप्यन्तः प्रवेष्टुमदातव्य इत्यभिधाय धिष्ण्यमध्यमध्यास्य सौन्दर्यादिगुणगणोदारा -
न्दारानाकार्य जाययोर्द्वयोः शुचीनि चीराणि अलंकारनिचयांश्च वितीर्य सेवकलोकमाच्छादना -
शनप्रियोक्तिभिः परिभाष्य सर्
निर्मिमाणः सुखसंचयमासाद्याध्यवासीत्सः । ततस्तद्गृहिणीभ्यां परस्परं समकथ्यत कथापि । परिवृढो
ऽस्माकं वराटीव्यये
न्संप्रयोगमादरीदरीति । तर्हि कमत्र चित्तपरिगतमाशयं कलयाम । किमात्मनि पुरस्तादनिष्टं दरीदृ-
ष्टमितः प्रकृतबाधेनागामिनो ऽपसर्गेण चेतसि वैकृतं किमप्याविष्कृतम् । तदा सा वा
श्रवणविषयमगमत् । ततो ऽशेषविधेयबाधेन विधुरितोपलब्धिधावमान एव निजागारद्वारमागत्य द्वारं
प्रविविक्षन्द्वार्गोपकेन गले गृहीत्वा परिलोठितो बहिर्निरयासीत्तध्यविमलः । ततो ऽसावर्गलं गृहीत्वा
द्वाःस्थानवादीत् । अहमेतन्निकेतननायकः । कस्मान्मामपसारयन्ति भवन्तः । ततो द्वाःस्थो ऽप्यवदत् ।
स्वामी वेश्मनो ऽन्तर्निवसति । त्वं परतो ऽभिसरेत्यभिधाय निराकरोत्तम् । ततो सत्यविमल-
स्तावत्
मम समग्रामपि संपदं व्ययातिशयकरणेन विपदं प्रापयति । तर्हि मदीयो यो निर्णयः त्वत्पुरस्ता-
त्कारयितव्यः ।
यतो ऽभ्यधुः ।
दुर्बलस्य बलं राजा बालस्य रुदितं बलम् ॥
331
एतस्मात्कारणान्ममात्रभवाञ्छरणमाविरासीत् । ततो महीपालस्तमलीकविमलमानेतुं मानुषानननुदत् ।
तदन्वस्य नृपतिशासनमायातमभिवी
चापरिचितपूर्
तथा चाहुः ।
नैमित्तिकं तथा मित्रं फलेन फलमादिशेत् ॥
25
30
इत्यं राजानं दृष्टवान् । अथासौ राज्ञा निजगदे । त्वमेतदीयां संपदं किमिति व्ययीकरोषि । तच्छ्रुत्वा
वितथविमलो वाचं प्रापञ्चयत् । संपत्तिरियं मदीया । दस्युरसौ । तथैव सम्य
एवं स्थिते सति राज्ञो ऽपि सातिशयः संदेहसमुदय उदियाय । द्वावपि सादृश्यं स्पृशन्तौ न चान -
योरेकस्य मिथ्यात्वसंज्ञानं संपादयितुं प्रभूयते केनापि । तर्हि प्रभावति भवत्यपि विचारयतु नाम ।