This page has been fully proofread once and needs a second look.

330
 
यदुदितमस्ति तन्मत्पुरस्तादस्तत्रपं भवान्वदत्विति मात्राभिहिते ऽसौ चित्तस्थितं सर्वमभिप्रायं तस्या

अग्रे उज्जगार । यदि शशिप्रभा मदङ्गसंगमङ्गीकुरुते तदानीं मज्जीवितमस्ति नेतरथा । तर्हि प्रभावति

त्वमेव पूर्वमुपवर्णय । तस्याभिलाषो यशोदया कथमपूरि । यशोदा शशिप्रभां कथं संयोजितवती ।

एतदभिधाय यथोद्दिष्टं व्रजतु भवती । तदाकर्ण्य प्रभावती तद्विचारचिन्तासंतानवितानैकरसा प्रवृत्ता ।
5

परं न विवेद । ततः प्रातः पत्ररथं पप्रच्छ । सो ऽपि जगाद । आकर्णय प्रभावति । तदानीं यशोदया

तपस्विनीवेषमालम्ब्य काषायधारं त्रिपुण्डुड्रतिलकाङ्कितं गलगृहीतरुद्राक्षमालं तथात्मना सममेकं

बन्धुमानीय तस्य स्कन्धे ऽष्टदलकलावष्टब्ध देवसंपुटं कुसुमकरण्डं चावस्थाप्य गरीयांसं समारम्भं

परिकल्प्य तथा चैका शुनी समानीता । इति परिकल्पितपरिकरा शशिप्रभाया द्वारदेशमगच्छत् ।

तत्रागत्य द्वारपालकानब्रवीत् । वयं सौराष्ट्रसोमनाथयात्रायै गत्वा मार्गे तीर्थविशेषानालोकमानाः
10

समागताः । अद्य तु भृशं परिश्रान्ताः । अपरतो गन्तुं न प्रभवामः । तर्हि अद्यतनं दिवसमत्रैव निव -

सामः । प्रभातसमये पुरोगमनाय मार्गमुपलब्धमवलम्बामहे । इत्यभिधाय तत्रैव स्थितवती । ततस्तेषां

पश्यतां तत्रैव गोमयोपलेपनं निर्माय निरमायि तया देवार्चनं देवतावनेजनं कृत्वा धूपदीप नैवेद्यानि

विधाय दण्डवत्प्रणिपत्य संनिधायिनीं सुनशुनीं समपूजयत्समस्तोपहारनमस्कारादिना । तच्चरितं सर्वे

ऽप्यभिवीक्ष्य विसिस्मिरे । इत्थं प्रतिदिनं तत्रावस्थाय शुनीसपर्यां विधायान्ते दण्डवत्प्रणिपातनादिकं
15

करोति । तां वातीर्त्तां शशिप्रभा शुश्राव । ततस्तत्कौतुकालोकनाय एकस्मिन्दिवसे शशिप्रभा तत्राडुढौकत् ।

तदनु तच्चरितं यशोदामपृच्छत् । कैषा शुनी । एतद्वृत्तान्तं मह्यमावेदयतु भवती । ततो ऽस्याः प्रश्नानुग्रहं

दृष्ट्वा यशोदया नेत्रे अर्णः पूर्णे अकारिषाताम् । अवादि च । शशिप्रभे कस्मादेतत्पृच्छसि । एतत्स्वरूपे

ऽभिहिते तवापि गरीयान् श्रमो भविष्यति । तया तथाभिहिते सति शशिप्रभा तत्प्रश्नावबोधायाग्रहं

भूयांसमकरोत् । ततस्तदाग्रहतारतम्यमालोक्य यशोदा तद्वक्तव्याय विविक्तप्रदेशमयाचत ।
 
20

 
यतो ऽभिहितम् ।
 
30
 
आयुर्वित्तं गृहच्छिद्रं रहस्यं मन्त्रमैथुने ।
 

पायुध्वनिं चावमानं मतिमान्न प्रकाशयेत् ॥
 

 
इत्यभिधाय रहसि वक्तुं प्रवृत्ता । शृणु शशिप्रभे । पूर्वमहमियं त्वं च शुनी चेति तिस्रः सोदर्यः

स्वसार एकस्य वणिजो निकेतने वर्तामहे । इति सत्यहं व्यभिचारपरायणा निजेच्छया प्रवृत्ता । यं तु

पुमांसं कामार्तं पश्यामि तस्मै सुरतोपभोगं प्रयच्छामि । त्वमपि यस्योपरि मानसमुल्लसति तस्मै
25

सुरतं ददासि नान्यस्मै प्रयच्छसि । एतावदेव त्वयि वैगुण्यं प्रतिष्ठितम् । आर्तेषु दीयते दानमिति

वाक्यपरिपालनसामर्थ्योपबृंहितं मम पूर्वजातिस्मरणलक्षणं ज्ञानमुदियाय त्वं तु निजाग्रहव्यग्रमानसा

एतावद्वैगुण्याद्भोगविशेषं प्राप्तासि परं न भाग्यसंपदो ज्ञानविशेषस्य । अन्या चैषा द्वयोरप्यावयोर्ज्यायसी

निजेन पातिव्रत्यविशेषेण निगीर्णा न कस्मै चार्तीय रतिं प्रयच्छति । तत्पातकव्रातेनैषा शुनीत्वमनीयत ।

तर्हि शशिप्रभे तवापारदुस्तरसंसारोत्तरणाकाङ्क्षा जागर्ति यदि तदा त्वयाप्यातीर्ताय पुरुषाय उपभोगः

प्रयोक्तव्यः । एतावता स्वत एव ज्ञानमुत्पत्स्यते । तदानीं शशिप्रभा व्याभाषत । अतिदुस्तरमसारं संसारं

निस्तरामि तत्रभवत्या एव प्रसादो ऽभ्युदयनीयः । त्वमस्मदीय कुलदेवता । तर्हि त्वया यः को ऽपि

कन्दर्पकङ्कपत्त्रकर्कशपराहतिपरिगलितनिखिलधैर्यगाम्भीर्यः पुमांश्चचुक्षुषा विषयीक्रियते स मत्संनिधा-

नमानेतव्य इत्यभिधाय दण्डवत्प्रणिपतितवती । तत इतरस्मिन्दिने यशोदा आक्रान्तप्रान्तदशाभ्यु-

दयोपक्रमं निजतनयमानीय अतिथिरभ्युपगतो ऽस्तीति शशिप्रभां ज्ञापितवती । सा तमागतमतिथिं
35

परिणतिरसनिभृतोपचारैः चारुतया परिचितवती । तर्हि प्रभावत्येतादृशप्रपञ्चितोपायचातुर्यं परि

कल्पसि यदि तथा विधेयविशेषे ऽमुष्मिन्साधनबुद्धिर्भव ॥
 

इति द्वितीया कथा ॥ २ ॥