This page has not been fully proofread.

330
 
यदुदितमस्ति तन्मत्पुरस्तादस्तत्रपं भवान्वदत्विति मात्राभिहिते ऽसौ चित्तस्थितं सर्वमभिप्रायं तस्या
अग्रे उज्जगार । यदि शशिप्रभा मदङ्गसंगमङ्गीकुरुते तदानीं मज्जीवितमस्ति नेतरथा । तर्हि प्रभावति
त्वमेव पूर्वमुपवर्णय । तस्याभिलाषो यशोदया कथमपूर । यशोदा शशिप्रभां कथं संयोजितवती ।
एतदभिधाय यथोद्दिष्टं व्रजतु भवती । तदाकर्ण्य प्रभावती तद्विचारचिन्तासंतानवितानैकरसा प्रवृत्ता ।
5 परं न विवेद । ततः प्रातः पत्ररथं पप्रच्छ । सो ऽपि जगाद । आकर्णय प्रभावति । तदानीं यशोदया
तपस्विनीवेषमालम्ब्य काषायधारं त्रिपुण्डुतिलकाङ्कितं गलगृहीतरुद्राक्षमालं तथात्मना सममेकं
बन्धुमानीय तस्य स्कन्धे ऽष्टदलकलावष्टब्ध देवसंपुटं कुसुमकरण्डं चावस्थाप्य गरीयांसं समारम्भं
परिकल्प्य तथा चैका शुनी समानीता । इति परिकल्पितपरिकरा शशिप्रभाया द्वारदेशमगच्छत् ।
तत्रागत्य द्वारपालकानब्रवीत् । वयं सौराष्ट्रसोमनाथयात्रायै गत्वा मार्गे तीर्थविशेषानालोकमानाः
10 समागताः । अद्य तु भृशं परिश्रान्ताः । अपरतो गन्तुं न प्रभवामः । तर्हि अद्यतनं दिवसमत्रैव निव-
सामः । प्रभातसमये पुरोगमनाय मार्गमुपलब्धमवलम्बामहे । इत्यभिधाय तत्रैव स्थितवती । ततस्तेषां
पश्यतां तत्रैव गोमयोपलेपनं निर्माय निरमाय तया देवार्चनं देवतावनेजनं कृत्वा धूपदीप नैवेद्यानि
विधाय दण्डवत्प्रणिपत्य संनिधायिनीं सुन समपूजयत्समस्तोपहारनमस्कारादिना । तच्चरितं सर्वे
ऽप्यभिवीक्ष्य विसिस्मिरे । इत्थं प्रतिदिनं तत्रावस्थाय शुनीसपय विधायान्ते दण्डवत्प्रणिपातनादिकं
15 करोति । तां वाती शशिप्रभा शुश्राव । ततस्तत्कौतुकालोकनाय एकस्मिन्दिवसे शशिप्रभा तत्राडुढौकत् ।
तदनु तच्चरितं यशोदामपृच्छत् । कैषा शुनी । एतद्वृत्तान्तं मह्यमावेदयतु भवती । ततो ऽस्याः प्रश्नानुग्रहं
दृष्ट्वा यशोदया नेत्रे अर्णः पूर्ण अकारिषाताम् । अवादि च । शशिप्रभे कस्मादेतत्पृच्छसि । एतत्स्वरूपे
ऽभिहिते तवापि गरीयान् श्रमो भविष्यति । तया तथाभिहिते सति शशिप्रभा तत्प्रश्नावबोधायाग्रहं
भूयांसमकरोत् । ततस्तदाग्रहतारतम्यमालोक्य यशोदा तद्वक्तव्याय विविक्तप्रदेशमयाचत ।
 
20 यतो ऽभिहितम् ।
 
30
 
आयुर्वित्तं गृहच्छिद्रं रहस्यं मन्त्रमैथुने ।
 
पायुध्वनिं चावमानं मतिमान्न प्रकाशयेत् ॥
 
इत्यभिधाय रहसि वक्तुं प्रवृत्ता । शृणु शशिप्रभे । पूर्वमहमियं त्वं च शुनी चेति तिस्रः सोदर्यः
स्वसार एकस्य वणिजो निकेतने वर्तमहे । इति सत्यहं व्यभिचारपरायणा निजेच्छया प्रवृत्ता । यं तु
पुमांस कामार्त पश्यामि तस्मै सुरतोपभोगं प्रयच्छामि । त्वमपि यस्योपरि मानसमुल्लसति तस्मै
25 सुरतं ददासि नान्यस्मै प्रयच्छसि । एतावदेव त्वयि वैगुण्यं प्रतिष्ठितम् । आर्तेषु दीयते दानमिति
वाक्यपरिपालनसामर्थ्योपबृंहितं मम पूर्वजातिस्मरणलक्षणं ज्ञानमुदियाय त्वं तु निजाग्रहव्यग्रमानसा
एतावद्वैगुण्याद्भोगविशेषं प्राप्तासि परं न भाग्यसंपदो ज्ञानविशेषस्य । अन्या चैषा द्वयोरप्यावयोर्ज्यायसी
निजेन पातिव्रत्यविशेषेण निगीर्णा न कस्मै चार्तीय रतिं प्रयच्छति । तत्पातकव्रातेनैषा शुनीत्वमनीयत ।
तर्हि शशिप्रभे तवापारदुस्तरसंसारोत्तरणाकाङ्क्षा जागर्ति यदि तदा त्वयाप्यातीय पुरुषाय उपभोगः
प्रयोक्तव्यः । एतावता स्वत एव ज्ञानमुत्पत्स्यते । तदानीं शशिप्रभा व्याभाषत । अतिदुस्तरमसारं संसारं
निस्तरामि तत्रभवत्या एव प्रसादो ऽभ्युदयनीयः । त्वमस्मदीय कुलदेवता । तर्हि त्वया यः कोऽपि
कन्दर्पकङ्कपत्त्रकर्कशपराहतिपरिगलितनिखिलधैर्यगाम्भीर्यः पुमांश्चचुषा विषयीक्रियते स मत्संनिधा-
नमानेतव्य इत्यभिधाय दण्डवत्प्रणिपतितवती । तत इतरस्मिन्दिने यशोदा आक्रान्तप्रान्तदशाभ्यु-
दयोपक्रमं निजतनयमानीय अतिथिरभ्युपगतो ऽस्तीति शशिप्रभां ज्ञापितवती । सा तमागतमतिथिं
35 परिणतिरसनिभृतोपचारैः चारुतया परिचितवती । तर्हि प्रभावत्येतादृशप्रपञ्चितोपायचातुर्य परि
कल्पसि यदि तथा विधेयविशेषे ऽमुष्मिन्साधनबुद्धिर्भव ॥
 
इति द्वितीया कथा ॥ २ ॥