This page has been fully proofread once and needs a second look.

329
 
तत एकस्मिन्दिने पूर्णायेयै किमपि दातुमुदधुनत् । ततः सा तन्न गृह्णीते । ममैतस्य भवत्या वितीर्णस्य

कस्यापि वस्तुनो न स्पृहामाबध्नाति मानसम् । यदहं त्वां वदामि तत्त्वयानुष्ठातव्यमिति सा गुणशा -

लिनी तयोदितमुररीचकार । ततः पूर्णाब्रवोवीत् । यदि मदीयमभिहितं करिष्यसि तदानीमिदमर्थे

त्वया मह्यं तथ्यवाक् दातव्या । ततो गुणशालिनी सत्यं प्रतिश्रुतवती । ततः पूर्णा निजोदीर्णं तया
समं निर्
तया
समं निर्ण
य व्याहरत् । त्वया तस्मै सुरतं दातव्यम् । आत्मीयमभिहितं सत्यं कर्तुमना ह्यसि चेत्तदा - 5

नीमिदं निजोदितं परिपालय । ततो गुणशालिनी पूर्वं तदाकृतमजानती तदुदितं प्रतिश्रुत्य पश्चा-

द्हुविचारचित्ता संवृत्ता । एतस्या दुष्टायाः पूर्वमहमाशयान्नाजाज्ञासिषम् । अजानत्या मया प्रतिशुश्रुवे ।

किमतः परं विधानमवधातव्यम् । यदि निजवाचं सत्यायां करवै तदानीं व्यभिचारतो दुरितमरीकृतं
 

करिष्यते । यद्यभिसरणं नाङ्गीक्रियते तदा स्वसत्यस्य दूरतः प्रवासः । इत्मेकं संधित्सतो ऽन्यत्प्रच्यवते

तुन्दिलाधरपानमैथुनवत् । तदनयोर्मध्ये किं विचारकोटिमाटीकरिष्यते । शरीरमप्याधीकृत्य सत्यत्यागोन 10

भवितुं दातव्यः । इत्थं प्राच्यविपश्चिद्वचनोटो<flag>द्घो</flag>षणा प्रकाशते । यथाभिसरणे कृते तत्सत्यहानिर्न करिष्यतेतराम् ।

 
तथा चोचिरे ।
 
असारः सर्वतः सारो वाचा सारसमुच्चयः ।

वाचा सा चलिता येन सुकृतं तेन हारितम् ॥

वाचा यद्यत्प्रतिज्ञातं शुभं वा यदि वाशुभम् ।

तत्संदेहो न कर्तव्य इदमेव हि सांप्रतम् ॥
 
15
 

 
इति विमृश्य गुणशालिनी पूर्णा बाणां बभाण । त्वयाभिहितं तवाभिप्रेतं पुमांसमानय । तावताहं परस्मिन्दे-

वतालये निवसामि । ततः प्रदोषसमये पूर्णा तमानेतुं गतवती जनसंमर्दे तं नोपलक्षयन्तो तत्सा-

दृश्यस्थगितमानसा गुणशालिन्या: पतिं करे गृहीत्वा तस्मिन्संकेतनिकेतने समानिन्थेये । तदा तेन

निजदयिता तथाया च निजपतिश्चोपलचिक्षितः । तर्ह्यभिधेहि प्रभावति । तथाविधे ऽस्मिन्संकोचसमये कि-

मुत्तरमकारि तया । एतत्पुरस्तादस्ताशङ्कमाचक्ष्व पश्चाद्याहि । प्रभावती विमर्शवती समजनि परं 20

तदुत्तरं नाज्ञासीत् । तावता रात्रिरप्यत्यवर्तत । ततः शुकमप्राचीक्षीत् । शुको ऽपि व्याहार्षीत् । सा तं

तीर्तारं परिज्ञाय कचैर्निगृह्य चपेटाभिस्ताडयामास । त्वं मत्पुरस्तादस्ताशङ्कं सदैवं व्याहरसि यदहं

भवतोंतीं विहाय नान्यां कांचन कामिनीं जानामीति । तवैतादृशं विसदृशं चरितं मया दृशापि

स्प्रष्टुं न शक्यते । ततो मां जनकमन्दिरं प्रापय । नो वा राजेज्ञे आवेदयिष्ये त्वां दण्डयिष्ये । तदानोमसी
नीमसौ
मोहनो गुणशालिन्याश्चरणयोरपतत् । ममायं महानपराध आयादिति भवत्या क्षन्तव्य इत्यभिधाय 25

तां समतोषयत् । तर्हि प्रभावत्येवंविधं कर्म कर्तुतुं प्रभवसि चेत्तदानीं बाहुल्यविभाव्यमिदमादर्तव्यम्
 

 
इति प्रथमा कथा ॥ १ ॥
 

 
पुनरपि प्रभावती विनयकन्द र्पनिकेतनमुपगन्तुं पक्षिणं पप्रच्छ । शुको ऽभिदधे । त्वमपि यशोदावदुपा -

यकल्पनां परिशीलयसि चेत्ततो याहि । तदाकर्ण्य प्रभावती कीरं प्रति प्रश्नमादृतवती । यशोदा -

याश्चेष्टितं व्याचष्टां भवान् । इति तयोदिते पतत्री गतोद्रेकः प्रत्यभाषत । मदनपुराभिधानं नगरम्। 30

तत्र नन्दननामा नरपतिः पालयति भूतधात्रोरीम् । तस्य तनयो राजशेखरः । तस्य भायीर्या शशिप्रभा ।

सैकेन वणिङ्कन्दनेन नयनविषयमापादिता । तद्दर्शनसमयसमनन्तरमेवासीसौ मदनमार्गणप्रहृतिझर्झ-

रितशरीरपरिहृतधैर्यो भूत्वा युगपदवस्थाविशेषाननुभवनुत्तरस्थितहृदयः सदा तदाप्युपायं परिचि
-
न्वंस्तदेकतानतापदवीमवगाहमानो विद्यते । परं समर्थस्य युवतिः कथं केन प्रकारेण समासाद्यते

इति प्रतिदिनं चिन्तया शुष्यच्छरीरो गलितकलाधन: कृष्णपक्षशशीव परिशेषितनामधेयाश्रयो 35

भूत्वावतिष्ठते । इत्थं तज्जननी तादृशीमवस्थामवेच्क्ष्य तमप्राचीक्षीत् । पुत्र त्वमित्यंथं वर्तसे । तव मनसि