This page has not been fully proofread.

329
 
तत एकस्मिन्दिने पूर्णाये किमपि दातुमुदधुनत् । ततः सा तन्न गृह्णीते । ममैतस्य भवत्या वितीर्णस्य
कस्यापि वस्तुनो न स्पृहामाबध्नाति मानसम् । यदहं त्वां वदामि तत्त्वयानुष्ठातव्यमिति सा गुणशा-
लिनी तयोदितमुररीचकार । ततः पूर्णब्रवोत् । यदि मदीयमभिहितं करिष्यसि तदानीमिदमर्थे
त्वया मह्यं तथ्यवाक् दातव्या । ततो गुणशालिनी सत्यं प्रति । ततः पूर्ण निजोदीर्ण तया
समं निर्णय व्याहरत । त्वया तस्मै सुरतं दातव्यम् । आत्मीयमभिहितं सत्यं कर्तुमना ह्यसि चेत्तदा- 5
नीमिदं निजोदितं परिपालय । ततो गुणशालिनी पूर्व तदाकृतमजानती तदुदितं प्रतिश्रुत्य पश्चा-
द्वहुविचारचित्ता संवृत्ता । एतस्या दुष्टायाः पूर्वमहमाशयान्नाजासिषम् । अजानत्या मया प्रतिशुश्रुवे ।
किमतः परं विधानमवधातव्यम् । यदि निजवाचं सत्या करवै नीं व्यभिचारतो दुरितमरीकृतं
 
करिष्यते । यद्यभिसरणं नाङ्गीक्रियते तदा स्वसत्यस्य दूरतः प्रवासः । इत्यमेकं संधिसतोऽन्यत्प्रयवते
तुन्दिलाधरपानमैथुनवत् । तदनयोर्मध्ये किं विचारकोटिमाटीकरिष्यते । शरीरमप्याधीकृत्य सत्यत्यागोन 10
भवितुं दातव्यः । इत्थं प्राच्यविपश्चिद्वचनोटोषणा प्रकाशते । यथाभिसरणे कृते तत्सत्यहानिर्न करिष्यतेतराम् ।
तथा चोचिरे ।
 
असारः सर्वतः सारो वाचा सारसमुच्चयः ।
वाचा सा चलिता येन सुकृतं तेन हारितम् ॥
वाचा यद्यत्प्रतिज्ञातं शुभं वा यदि वाशुभम् ।
तत्संदेहो न कर्तव्य इदमेव हि सांप्रतम् ॥
 
15
 
इति विमृश्य गुणशालिनी पूर्णा बाण । त्वयाभिहितं तवाभिप्रेतं पुमांसमानय । तावताहं परस्मिन्दे-
वतालये निवसामि । ततः प्रदोषसमये पूर्णा तमानेतुं गतवती जनसंमर्दे तं नोपलक्षयन्तो तत्सा-
दृश्यस्थगितमानसा गुणशालिन्या: पतिं करे गृहीत्वा तस्मिन्संकेतनिकेतने समानिन्थे । तदा तेन
निजदयिता तथा च निजपतिश्चोपलचितः । तर्ह्यभिधेहि प्रभावति । तथाविधे ऽस्मिन्संकोचसमये कि-
मुत्तरमकारि तया । एतत्पुरस्तादस्ताशङ्कमाचक्ष्व पश्चाद्याहि । प्रभावती विमर्शवती समजनि परं 20
तदुत्तरं नाज्ञासीत् । तावता रात्रिरप्यत्यवर्तत । ततः शुकमप्राचीत् । शुको ऽपि व्याहार्षीत् । सा तं
भतीरं परिज्ञाय कचैर्निगृह्य चपेटाभिस्ताडयामास । त्वं मत्पुरस्तादस्ताशङ्कं सदैवं व्याहरसि यदहं
भवतों विहाय नान्यां कांचन कामिन जानामीति । तवैतादृशं विसदृशं चरितं मया दृशापि
स्प्रष्टुं न शक्यते । ततो मां जनकमन्दिरं प्रापय । नो वा राजे आवेदयिष्ये त्वां दण्डयिष्ये । तदानोमसी
मोहनो गुणशालिन्याश्चरणयोरपतत् । ममायं महानपराध आयादिति भवत्या क्षन्तव्य इत्यभिधाय 25
तां समतोषयत् । तर्हि प्रभावत्येवंविधं कर्म कर्तु प्रभवसि चेत्तदान बाहुल्यविभाव्यमिदमादर्तव्यम्
 
इति प्रथमा कथा ॥ १ ॥
 
पुनरपि प्रभावती विनयकन्द र्पनिकेतनमुपगन्तुं पक्षिणं पप्रच्छ । शुको ऽभिदधे । त्वमपि यशोदावदुपा-
यकल्पनां परिशीलयसि चेत्ततो याहि । तदाकर्ण्य प्रभावती कीरं प्रति प्रश्नमादृतवती । यशोदा-
याश्चेष्टितं व्याचष्टां भवान् । इति तयोदिते पतत्री गतोद्रेकः प्रत्यभाषत । मदनपुराभिधानं नगरम्। 30
तत्र नन्दननामा नरपतिः पालयति भूतधात्रोम् । तस्य तनयो राजशेखरः । तस्य भायी शशिप्रभा ।
सैकेन वणिङ्कन्दनेन नयनविषयमापादिता । तदर्शनसमयसमनन्तरमेवासी मदनमार्गणप्रहृतिझर्झ-
रितशरीरपरिहृतधैर्यो भूत्वा युगपदवस्थाविशेषाननुभवनुत्तरस्थितहृदयः सदा तदाप्युपायं परिचि
न्वंस्तदेकतानतापदवीमवगाहमानो विद्यते । परं समर्थस्य युवतिः कथं केन प्रकारेण समासाद्यते
इति प्रतिदिनं चिन्तया शुष्यच्छरीरो गलितकलाधन: कृष्णपचशशीव परिशेषितनामधेयाश्रयो 35
भूत्वावतिष्ठते । इत्थं तज्जननी तादृशीमवस्थामवेच्य तमप्राचीत् । पुत्र त्वमित्यं वर्तसे । तव मनसि