शुकसप्ततिः /14
This page has been fully proofread twice.
तथाभिहितम् । यावज्जीवं सुखं जीवेदृणं कृत्वा घृतं पिबेत् ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥
तत्त्वमुपभोगविरहितमात्मीयं जन्म किमिति वृथैवातिवाहयसि । स्वेच्छया सुखोपभोगमाचरन्त्या भवत्या
वयमपि साहाय्यभावं यास्यामः । अनेन राजकुमारेण विनयकन्दर्पेण समं भवत्याः संगमं कारयामः ।
एतावतापि जनुः सफलं भविष्यति । एतादृशैर्वचोभिस्तस्या मानसं भ्रमितम् ।
उक्तं च । संतप्तायसि संस्थितस्य पयसो नामापि न श्रूयते
मुक्ताकारतया तदेव नलिनीपत्त्रस्थितं दृश्यते ।
अन्तःसागर शुक्तिमध्यपतितं तन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमजुषामेवंविधा वृत्तयः ॥
स्वातन्त्र्यं पितृमन्दिरेषु वसतिर्यात्रोत्सवे संगतिः
गोष्ठीपूरुषसंनिधावनियमो वासो विदेशे तथा ।
संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः
पत्यु र्वार्द्धकमीर्ष्यितप्रवसनं नाशस्य हेतुः स्त्रियाः ॥
ततः सा प्रभावती भूयोभिर्भूषणैरात्मानं भूषयित्वा व्यभिचरणाय निर्गन्तुं प्रावर्तत । तदानीं शारिका
पक्षिणं व्याभाषीत् । मदनसेनेन इयं प्रभावत्यावयोरुपहारे निवेशितासीत् । तस्यैषा व्यभिचारे प्रवर्त -
माना । तत्त्वं कस्मादेनां न निवारयसि । तदनु कीर उदीरयामास । त्वं तूष्णीमास्व । यदभिधातव्यं
तत्स्वयमेवैनामहं व्याहरिष्ये । यावता विहग उपायं विरचयति तावता शारिका प्रालपत् । प्रभावति
यत्त्वं विधातुमभिलषसि तेन त्वं विनाशमवाप्स्यसि । इत्याकर्ण्य तया दूतीमुखमुदैक्षि । ततो दूतोती
रराण । इयं पक्षिणी पापिनी निहन्तव्या या परेषामसुखाय प्रत्यूहव्यूहमाचरति । तदा प्रभावतोती
समीपमागम्य पञ्जरार्गलमपाचकार । पाणिना धृत्वा शारिका विपादनीयेति मनसि प्रवर्तमानासीत् ।
तावता शारिका समुड्डीयापलायिष्ट । ततः सर्वा अपि बभाषिरे । निरगमदियं तदैव । साध्वजनिष्ट ।
ततः प्रभावत्या सकलवृत्तान्त आवेदितः । तच्छ्रुत्वा शुको ऽप्यकथयत् । तदेतद्रुचिरं व्यरचि । सर्वदैवाहं
भवतीं मन्मथावस्थाभृशार्दिताङ्गीमालोके । किमपि भवतीमेतद्विषयं व्याहर्तुमन्विच्छामि । परं परेषां
मनोभावं को नाम ज्ञातुमीष्टे । संसारे साध्वभिसरणं विहाय नेतरत्सुखं भूयसा जरीजृम्भीति ।
तर्हीदं त्वया साध्वाचरितम् । परमत्रान्यदपि विद्यते । गुणशालिनीव संकीर्णावप्रसङ्गप्राप्ता उत्तरं
कर्तुं प्रभवसि चेत्तदेतद्बह्वायासविभाव्यं विधेयमङ्गीकुरु । इत्युदिता प्रभावती बभाषे । का नाम
गुणशालिनी । कीदृशं संकीर्णं निस्तीर्णम् । तदुपवर्णयतां नाम भवान् । ततः शुको व्यावर्णयति ।
प्रभावती वयस्या पतिव्रता परिपृच्छति । इतीयं प्रथमा कथा इतरासां कथानां मूलपीठिकारूपा
व्यावर्णिता । इति कथाकोशे कथावतारः ॥
अथ चन्द्रवती नाम नगरी । तत्र भीमसेनो नाम राजा । तत्र मोहननामा वणिक् । तस्य भार्या
नामतो गुणशालिनी । सा रूपेणातिशयं प्रकर्षं प्राप्ता । ततो वसुदत्ततनयस्तामीक्षितवान् । तद्वीक्षणक्षण
एवायं मन्मथमथितसवीर्वार्थसार्थः प्रावर्तत । ततो ऽपार्थीकृतेतरव्यापारो दूतीभिस्तत्प्रार्थनां निरवर्तयत् ।
परं सानीनोरीकृतवती । ततः कुट्टिनीकर्मनिर्माणोपायपरिपूर्णां पूर्णणाभिधां मासोपवासिनीं प्रार्थयत
दूतकृत्ये । यदि गुणशालिनी मामनुसरतीति त्वं चेत्करिष्यसि तर्हि यथा त्वं संतुष्यसि तथाहं निर्मिमे।
य ।
यद्याचिष्यसे तद्वितरिष्यामि । तदानीं तया तथा करवाणीत्यङ्गीचक्रे । ततः सम्यङ्मुहूर्तमालोक्य गुण -
शालिनीगृहमगच्छत् । तया समं प्रत्यहं गरिष्ठां गोष्ठीमनुतिष्ठति प्रतिदिनं श्रीकृष्णविलासमल्लायोध-
कन्दुककेलिप्रमुखानि चरितानि गायति पुरातनबालत्वस्य गोष्ठीं निर्मिमीते । इत्थं तयोर्मैत्री समजायत ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥
तत्त्वमुपभोगविरहितमात्मीयं जन्म किमिति वृथैवातिवाहयसि । स्वेच्छया सुखोपभोगमाचरन्त्या भवत्या
वयमपि साहाय्यभावं यास्यामः । अनेन राजकुमारेण विनयकन्दर्पेण समं भवत्याः संगमं कारयामः ।
एतावतापि जनुः सफलं भविष्यति । एतादृशैर्वचोभिस्तस्या मानसं भ्रमितम् ।
उक्तं च । संतप्तायसि संस्थितस्य पयसो नामापि न श्रूयते
मुक्ताकारतया तदेव नलिनीपत्त्रस्थितं दृश्यते ।
अन्तःसागर
प्रायेणाधममध्यमोत्तमजुषामेवंविधा वृत्तयः ॥
स्वातन्त्र्यं पितृमन्दिरेषु वसतिर्यात्रोत्सवे संगतिः
गोष्ठीपूरुषसंनिधावनियमो वासो विदेशे तथा ।
संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः
पत्यु
ततः सा प्रभावती भूयोभिर्भूषणैरात्मानं भूषयित्वा व्यभिचरणाय निर्गन्तुं प्रावर्तत । तदानीं शारिका
पक्षिणं व्याभाषीत् । मदनसेनेन इयं प्रभावत्यावयोरुपहारे निवेशितासीत् । तस्यैषा व्यभिचारे प्रवर्त
माना । तत्त्वं कस्मादेनां न निवारयसि । तदनु कीर उदीरयामास । त्वं तूष्णीमास्व । यदभिधातव्यं
तत्स्वयमेवैनामहं व्याहरिष्ये । यावता विहग उपायं विरचयति तावता शारिका प्रालपत् । प्रभावति
यत्त्वं विधातुमभिलषसि तेन त्वं विनाशमवाप्स्यसि । इत्याकर्ण्य तया दूतीमुखमुदैक्षि । ततो दू
रराण । इयं पक्षिणी पापिनी निहन्तव्या या परेषामसुखाय प्रत्यूहव्यूहमाचरति । तदा प्रभाव
समीपमागम्य पञ्जरार्गलमपाचकार । पाणिना धृत्वा शारिका विपादनीयेति मनसि प्रवर्तमानासीत् ।
तावता शारिका समुड्डीयापलायिष्ट । ततः सर्वा अपि बभाषिरे । निरगमदियं तदैव । साध्वजनिष्ट ।
ततः प्रभावत्या सकलवृत्तान्त आवेदितः । तच्छ्रुत्वा शुको ऽप्यकथयत् । तदेतद्रुचिरं व्यरचि । सर्वदैवाहं
भवतीं मन्मथावस्थाभृशार्दिताङ्गीमालोके । किमपि भवतीमेतद्विषयं व्याहर्तुमन्विच्छामि । परं परेषां
मनोभावं को नाम ज्ञातुमीष्टे । संसारे साध्वभिसरणं विहाय नेतरत्सुखं भूयसा जरीजृम्भीति ।
तर्हीदं त्वया साध्वाचरितम् । परमत्रान्यदपि विद्यते । गुणशालिनीव संकीर्णावप्रसङ्गप्राप्ता उत्तरं
कर्तुं प्रभवसि चेत्तदेतद्बह्वायासविभाव्यं विधेयमङ्गीकुरु । इत्युदिता प्रभावती बभाषे । का नाम
गुणशालिनी । कीदृशं संकीर्णं निस्तीर्णम् । तदुपवर्णयतां नाम भवान् । ततः शुको व्यावर्णयति ।
प्रभावती वयस्या पतिव्रता परिपृच्छति । इतीयं प्रथमा कथा इतरासां कथानां मूलपीठिकारूपा
व्यावर्णिता । इति कथाकोशे कथावतारः ॥
अथ चन्द्रवती नाम नगरी । तत्र भीमसेनो नाम राजा । तत्र मोहननामा वणिक् । तस्य भार्या
नामतो गुणशालिनी । सा रूपेणातिशयं प्रकर्षं प्राप्ता । ततो वसुदत्ततनयस्तामीक्षितवान् । तद्वीक्षणक्षण
एवायं मन्मथमथितस
परं सा
दूतकृत्ये । यदि गुणशालिनी मामनुसरतीति त्वं चेत्करिष्यसि तर्हि यथा त्वं संतुष्यसि तथाहं निर्मिमे
य
यद्याचिष्यसे तद्वितरिष्यामि । तदानीं तया तथा करवाणीत्यङ्गीचक्रे । ततः सम्यङ्मुहूर्तमालोक्य गुण