This page has been fully proofread once and needs a second look.

10
 
328
 
तथाभिहितम् ।
 
तत्त्वमुपभोगविरहितमात्मीयं जन्म किमिति वृथैवातिवाहयसि । स्वेच्छया सुखोपभोगमाचरन्त्या भवत्या
वयमपि साहाय्यभावं यास्यामः । अनेन राजकुमारेण विनयकन्दर्पेण समं भवत्याः संगमं कारयामः ।
5 एतावतापि जनुः सफलं भविष्यति । एतादृशैर्वचोभिस्तस्या मानसं भ्रमितम् ।
 
उक्तं च ।
 
यावज्जीवं सुखं जीवेदृणं कृत्वा घृतं पिबेत् ।

भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥
 
30
 

 
तत्त्वमुपभोगविरहितमात्मीयं जन्म किमिति वृथैवातिवाहयसि । स्वेच्छया सुखोपभोगमाचरन्त्या भवत्या
वयमपि साहाय्यभावं यास्यामः । अनेन राजकुमारेण विनयकन्दर्पेण समं भवत्याः संगमं कारयामः ।
एतावतापि जनुः सफलं भविष्यति । एतादृशैर्वचोभिस्तस्या मानसं भ्रमितम् ।
 
उक्तं च ।
संतप्तायसि संस्थितस्य पयसो नामापि न श्रूयते

मुक्ताकारतया तदेव नलिनीपत्त्रस्थितं दृश्यते ।

अन्तःसागर शुक्तिमध्यपतितं तन्मौक्तिकं जायते

प्रायेणाधममध्यमोत्तमजुषामेवंविधा वृत्तयः ॥

स्वातन्त्र्यं पितृमन्दिरेषु वसतियात्रोत्सवे संगतिः

गोष्ठीपूरुषसंनिधावनियमो वासो विदेशे तथा ।

संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः

पत्यु वार्द्धकमीर्ष्यितप्रवसनं नाशस्य हेतुः स्त्रियाः ॥
 

 
ततः सा प्रभावती भूयोभिर्भूषणैरात्मानं भूषयित्वा व्यभिचरणाय निर्गन्तुं प्रावर्तत । तदानीं शारिका
15

पक्षिणं व्याभाषीत् । मदनसेनेन इयं प्रभावत्यावयोरुपहारे निवेशितासीत् । तस्यैषा व्यभिचारे प्रवर्त -

माना । तत्त्वं कस्मादेनां न निवारयसि । तदनु कीर उदीरयामास । त्वं तूष्णीमास् । यदभिधातव्यं

तत्स्वयमेवैनामहं व्याहरिष्ये । यावता विहग उपायं विरचयति तावता शारिका प्रालपत् । प्रभावति

यत्त्वं विधातुमभिलषसि तेन त्वं विनाशमवाप्स्यसि । इत्याकर्ण्य तया दूतीमुखमुदैक्षि । ततो दूतो

रराण । इयं पक्षिणी पापिनी निहन्तव्या या परेषामसुखाय प्रत्यूहव्यूहमाचरति । तदा प्रभावतो
20

समीपमागम्य पञ्जरार्गलमपाचकार । पाणिना धृत्वा शारिका विपादनीयेति मनसि प्रवर्तमानासीत् ।

तावता शारिका समुड्डीयापलायिष्ट । ततः सर्वा अपि बभाषिरे । निरगमदियं तदैव । साध्वजनिष्ट ।

ततः प्रभावत्या सकलवृत्तान्त आवेदितः । तच्छ्रुत्वा शुको ऽप्यकथयत् । तदेतद्रुचिरं व्यरचि । सर्वदैवाहं

भवर्तीतीं मन्मथावस्थाभृशार्दिताङ्गीमालोके । किमपि भवतीमेतद्विषयं व्याहर्तुमन्विच्छामि । परंपरेषां

मनोभावं को नाम ज्ञातुमीष्टे । संसारे साध्वभिसरणं विहाय नेतरत्सुखं भूयसा जरीजृम्भीति ।
25 तीं

तर्ही
दं त्वया साध्वाचरितम् । परमत्रान्यदपि विद्यते । गुणशालिनीव संकीर्णावप्रसङ्गप्राप्ता उत्तरं

कर्तुतुं प्रभवसि चेत्तदेतद्वद्वायासंबह्वायासविभाव्यं विधेयमङ्गीकुरु । इत्युदिता प्रभावती बभाषे । का नाम

गुणशालिनी । कीदृशं संकीर्णं निस्तीर्णम् । तदुपवर्णयतां नाम भवान् । ततः शुको व्यावर्णयति ।

प्रभावती वयस्या पतिव्रता परिपृच्छति । इतीयं प्रथमा कथा इतरासां कथानां मूलपीठिकारूपा

व्यावर्णिता । इति कथाकोशे कथावतारः ॥
 

 
अथ चन्द्रवती नाम नगरी । तत्र भीमसेनो नाम राजा । तत्र मोहननामा वणिक् । तस्य भायी
र्या
नामतो गुणशालिनी । सा रूपेणातिशयं प्रकर्षं प्राप्ता । ततो वसुदत्ततनयस्तामीक्षितवान् । तद्वीक्षणक्षण

एवायं मन्मथमथितसवीर्थसार्थः प्रावर्तत । ततो ऽपार्थीकृतेतरव्यापारीरो दूतीभिस्तत्प्रार्थनां निरवर्तयत् ।

परं सा नोनीरीकृतवती । ततः कुट्टिनीकर्मनिर्माणोपायपरिपूर्णाणां पूर्णभिधां मासोपवासिनीं प्रार्थयत

दूतकृत्ये । यदि गुणशालिनी मामनुसरतीति त्वं चेत्करिष्यसि तर्हि यथा त्वं संतुष्यसि तथाहं निर्मिमे।
35

ययाचिष्यसे तद्वितरिष्यामि । तदानीं तया तथा करवाणीत्यङ्गीचक्रे । ततः सम्यङ्मुहूर्तमालोक्य गुण -

शालिनीगृहमगच्छत् । तया समं प्रत्यहं गरिष्ठां गोष्ठीमनुतिष्ठति प्रतिदिनं श्रीकृष्णविलासमल्लायोध-

कन्दुककेलिप्रमुखानि चरितानि गायति पुरातनबालत्वस्य गोष्ठीं निर्मिमीते। इत्थं तयोर्मैत्री समजायत ।