This page has been fully proofread once and needs a second look.

यथोक्तम् ।
 
गिरौ कलापी गगने च मेघा लक्षान्तरे भानुरथाप्सु पद्मम् ।

द्विलक्षसोमः कुमुदस्य बन्धुर्यो यस्य मैत्री न च तस्य दूरम् ॥

दूरस्थो ऽपि समीपस्थो यो वै मनसि वर्तते ।

यो हि चित्ते न वर्तेत समीपस्थो ऽपि दूरतः ॥
 

 
व्याहृत्येत्यंथं मदनसेनो निरगच्छत् । ततस्तया बहुजलपरिसुप्लुते विलोचने अकारिषाताम् । तदालोक्य मद-

नसेनस्तस्याः समीपे समागत्य निबिडपरिरम्भसमारम्भसौरभ्यमभ्यस्यात्मीयपाणिनाश्रुपरिमार्जनं विधाय

शुकशारिके अवोचत् । आकर्णयतां गुणसागरीरो मालावती च । इयं प्रभावती सर्वस्मिन्नपि विषये

भवतोरुपहारे तिष्ठन्ती । भवद्भ्यामेतस्याश्चेतसो विरहजन्यप्रलयकालसंकाशं कष्टं शनैः शनैरुक्तिविशेषैर-

पोहितव्यम् । इयं भव<flag>ड्घ</flag>स्ते दत्तास्ति । एतस्या विरहो वर्धितुं न दातव्यः । इत्यभिधाय मदनसेनो

वणिक्करणनिमित्तं मनीषितं कृत्वा देशप्रदेशमुद्दिश्य निरयासीत् । तदुपरि प्रभावती विवोदुढुर्विरहवे - 10

दनावस्थया विज्ञह्वलावयवा रात्रिंदिवं तदवस्थामवलम्बमाना सान्नोदकक्रियायामपि न स्पृहां बध्नाति ।

ततस्तस्या विरहव्यथाबाहुल्यमभिवीच्क्ष्य शारिका शुकमुवाच । रामचन्द्र । मदनसेनेन प्रभावती दत्ता-

सीदावयोः । यदियं भवद्भिर्विरहव्यथाकदर्थनतो निवारणीया । तर्ह्येतां वियोगवनज्वलनज्वालाज-

टालजाज्वल्यमानापघनां मारकारागारविहारविक्लव क्लेशविशेषविगलिताङ्गसर्वस्वां विक्षतेक्षणे ऽक्षणशो-

कशङ्कुनिकारपरिकरमनाकुलमाबध्नानां त्वमेव किमिति कथाचरित्रेतिहासादिभिः कौतुकाधिकं जन - 15

यन्दुःखविशेषापाकरणेन न शिक्षयसि । तव मौनालम्बनमनुपदं तवैव वचनोयतामापादयिष्यति ।

ततो निशमितकान्तावचनः शकुन्तस्तद्वचनानुकूलकलित कलेवरकान्तसंकोच क्लिष्टान्तःकरणगणस्तामभाषीत् ।

प्राणाधिपे । स्त्रीणां चेतांसि क्षणिकानि दुर्वाराणि निर्वाहशून्यानि च । पश्यामि तावदेतस्याश्चेतसो

ऽवस्थितायतिः किमुदर्केति । ततस्तदवबोधात्तदनुरूपं कमप्युपायं रचयामि ।
 

 

 
तथोदितम् ।
 
अनृतं साहसं माया मूर्खत्वं चलचित्तता ।

शीशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥
 
327
 
43*
 
5
 
20
 

 
इत्युक्त्वा पक्षी जोषमासाद्यातिष्ठत् । तदन्वेकस्मिन्दिवसे प्रभावती स्वस्योपत्यकायां स्थितवती । ततो

विनयकन्दर्पेण पार्थिवकुमारेण तत्रस्था समन्मथावस्था कदर्थितानां स्वस्थकरणपरिणतदिव्यमहौषधी

सा ददृशे । तदन्वनेककलाकोविदा वीक्षणक्षणाभिलक्षणाभिलक्षितहर्षोत्कर्षोत्पादनवैलक्षण्यास्तात्का -

लिकोत्तरविनिमयनियमितमनोवृत्तिस्वेच्छाविहरणपरिहृतविग्रहाः श्रुतिसमुदितपरब्रह्मात्यन्तिकानुभव - 25

संभाविताः स्तोकालोकशोकशङ्कूत्कीलनकोविदाः पत्युर्मनसि संश्रुत्य कृतमप्यात्मीयमपराधं विस्मारय-

तीर्व्यवहारे परमार्थे च नानोदाहरणानुगृहीतोपपत्तिसंपत्तिस्फुरिताधरा एवंविधा दूतोःतीः प्रभाव
तीं
प्रति जिघाय । ताश्च तस्याः संनिधानमागत्य शनैः शनैर्बहुविधां विबुधहृदयंगमां गोष्ठीं कुर्वन्ति

मनोवासनानुरूपं निरूपयन्ति । अनेन प्रकारेण प्रभावत्या सह नैकव्यं प्रावर्तिष्ट । ततश्च व्याहर्तुमादद्रे ।

प्रभावति त्वं भर्तुर्वियोगं कस्माद्विभर्षि । अविद्यमानमपि श्रमं निजे मानसे कस्मादारोपयसि । अद्यतनं 30

दिनं द्वितीयदिने न निर्वहति । गतास्तु दिवसा न पुनरागच्छन्ति । अद्य त्वं निजावयवविद्यमानानुरा -

गं तारुण्यं लावण्यं च किमिति किमिति वृथैव परिक्षपयसि । त्वं यद्वियोगं बिभ्राणासि स चेद्भवत्यां

प्रेमपरवशः स्यात्तदात्मना समं किमिति न नयति । स तु पुरतोगताभिर्नितम्बिनीभिः समं दिव्यं

विषयसुखमुपभुञ्जन्नास्ते । त्वं भर्तुर्भक्त्या किं न भक्षयसि । अनया पतिशुश्रूषया का नाम जातेति

मह्यमेकामपि प्रदर्शय । परलोकोपभोग्यात्पातकाद्विभेषि चेत्तदा स परलोकस्तत्पातकं च कस्य 35

लोचनगोचरोपभावमापन्नं विजृम्भितम् ।