This page has been fully proofread once and needs a second look.

326
 
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणज्ञः ।

स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयते ॥

अकारणं व्याकरणं तन्त्रीशब्दो ऽप्यकारणम् ।

अकारणं त्रयो वेदास्तण्डुलास्तत्र कारणम् ॥
 
6

 
इति पितुरभिहितं निशम्य मदनसेनो जनकं जगाद । मयि पुत्रे विद्यमाने यदि तत्रभवद्भिः प्रयासः

कर्तव्यस्तदानीं पुत्रस्य क उपयोगः । यस्तु तनयो जनयित्रोः सपर्यायामननुयुक्तः किं तस्य जन्मना।
 

 
अभ्यधाच्च ।
 
को ऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।

तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ॥
 

 
यस्तु पित्रोः सपर्यया सुखं जनयति तस्यैव सफलं जन्म नेतरस्य ।
 
10

 
तथोदितम् ।
 
वित्तानुसारिणो धर्मः श्रद्धान्वितशिवार्चनम् ।

पितुर्मातुः सदा भक्तिः सफलं तस्य जीवितम् ॥

एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् ।

सहैव दशभिः पुत्रैभारं वहति गर्दभी ॥
 

 
अत एव भवन्तो ऽत्रैव तावत्तिष्ठन्तु । अहमेव वाणिज्यविधानाय व्रजिष्यामि । इत्यनुज्ञामादाय निर्ग-
15

तवान् । निजमन्दिरमासाद्य प्राणप्रियां प्रभावर्तीतीं प्रति प्रावोचत् । प्रिये प्रभावति । धनमार्जयितुं

व्यवसायोद्देशेन द्द्दूयासुरस्मि । त्वया न कश्चिन्मद्विरहजन्यश्रमः समवलम्बनीयः । मयापि भवत्याः क्षण-

स्यापि वियोगः सोढुमशक्यः । परं जनकवचनमनतिलङ्घनीयमिति मत्वा गमनसंजायमानमना अस्मि।

तद्विषमविशिखविषयविमुखं विषादविषविशेषपोषकं गुरुवचोविषवेदनायनातिप्लोषपरं पत्युः क्रकचकर्कशं

वचनमतिदुःसहं श्रुत्वा निरस्तजीवितेव विध्वस्तापघना विगलिताङ्गसंधिबन्धा गलितकला पैराह-
20

तप्रभा प्रभावती मोहानन्द संदोहभूयस्थाया तापोष्णव्यथया गलगृहीतेव प्राणेश्वरं प्रति प्रोवाच । शृणुष्व

प्राणनाथ। पितुर्वचनमनतिक्रमणीयं परमो धर्मः । परमन्यदप्यस्ति । यदुक्तं ।
 
25 तथा च ।
 

 
प्रावृट्काले यात्रा यौवनकाले पुपूरुषदारिद्र्यम् ।

प्रथमस्नेहे विरहः त्रीण्यपि दुःखान्यतिगुरूणि ॥
 

 
एतत्रितयमपि पुरुषस्यातिकष्टतरम् ।
 

 
तथा च ।
सिद्धे ह्यन्ने फले पक्केवे नारीप्रथमयौवने ।

कालक्षेपो न कर्तव्यः कालस्य त्वरिता गतिः ॥
 

 
एतावत्सु प्रयोजनेषु पुरुषेणात्युत्सुकतया प्रयतनीयम् ।
 

 
तथा च ।
 
उत्कोचं प्रीतिदानं च द्यूतद्रव्यं सुभाषितम् ।

कामिनीं प्रथमावस्थां सद्यो गृह्णाति बुद्धिमान् ॥
 
30

 
इत्थं प्रभावती प्राब्रवीत् । परं न तत्तस्य चेतसि पर्येति । तदनु हिरण्यगर्भगृहिणीहृदयंगमैः प्रियवचोभिः

समाश्वास्य तां निरगात् । ततस्तयाभ्यधायि । मदनसेन तव मम चेत्तादृशं परमं प्रेमसामग्र्यं तर्हि

मामीदृशीं परित्यज्य त्वया गमनं कथं क्रियमाणमस्ति । ततो ऽसावजल्पत् । अहं यत्र क्वापि गतवान्तर्हि

तत्रापि त्वं मम हृदये वसन्त्येवासि । एवं नयमिकदृशा जानीहि ।