शुकसप्ततिः /11
This page has not been fully proofread.
प्रचिचिपे । तदनु व्याधस्य वृद्धी पितरी तिष्ठतः । तयोरुपान्तं गत्वा द्रविणमार्जितं तत्पुरस्तादवस्थाप्य
दण्डवत्प्रणिपत्य करौ योजयित्वा अतिथिरेको भ्यागतो वर्तत इत्यवादीत् । तच्छ्रुत्वा पितरौ जगदतुः ।
अतिथिरागतश्चेद्दैवमस्मदीयम् । तस्य सपर्या ज्यायसी कार्य ।
उक्तं च ।
गुरुरमिर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥
अतिथिश्चापवादी च द्वावेतौ मम बान्धवौ ।
अपवादी हरेत्पापमतिथिः स्वर्गसंक्रमः ॥
ततो धर्मव्याधस्तस्मिन्नतिथी सत्कारमकार्षीत् । ततो देवशर्माभ्यभाषत । त्वं च सर्वज्ञस्त्वया धर्मोपदेशः
कर्तव्यः । तदुदितमाकर्ण्य मृगयुर्जगाद । त्वं पतितस्त्वमुपदेशयोग्यो न भवसि । अतिथिरिति मत्वा
माननीयोऽस्माकम् ।
यतो भिहितम् ।
विप्रो वाप्यथवा शूद्रचण्डालो वा गृहागतः ।
अतिथिः पूज्य एवात्र सर्वथा साधुवद्भुवि ॥
यस्य पुत्रः पितुर्भक्तो भाया छन्दानुवर्तिनी ।
विभवो दानभोगाय तस्य स्वर्ग इहैव तु ॥
325
त्वं पितृभ्यामुदितं न करोषि । किमर्थं तीर्थेषु भ्रान्त्या श्रमं व्यर्थमापादयस्यात्मनि । तवैतद्विलसितं सकलं
व्यर्थमेव । त्वं पुनर्गृहान्गच्छ पित्रोः शुश्रूषां साधीयसों समाचर । एतावता स्वत एव ज्ञानमुत्पद्यते ।
अयमेव तवोपदेशः कृतः । ततो व्याधवचसा निजमेव निकेतनं निर्जगाम देवशमी । पितृभ्यां समागमत् । 15
तयोर्मनसि तनयसमागमजनितं निरतिशयं सौख्यं प्रवर्तिष्ट । एतावतासौ देवशमा निष्पाप : संजातः ।
अत एव मदनसेन त्वया पित्रोः परिचर्या कर्तव्या । एतावता त्वमपि विचित्रपात्रं भविष्यसि । काले
पित्रोरुपासनमपहाय नापरं किमपि नृषु प्रार्थितफलप्रदं जागर्ति । पश्येतद्विषये तवैकमुदाहरणमुप-
वर्णयामि । भागीरथीतरंगिणीतीरे पाण्डरपुरसंज्ञकं पृथु नगरम् । तत्र पुण्डरीकस्तु पित्रोरुपास्तिं
महनीयामहर्निशमाचरति । तज्जाततपोऽतिशयसामर्थ्येन स्वयमेवाकुण्ठधामा वैकुण्ठपरिवृढो वैकुण्ठ- 20
वसतिं शिथिलीकृत्य तमुपडुढौके । सो ऽद्यापि तत्रार्थ एवावस्थितोऽभूत् । तत्स्थानं दक्षिणद्वारकावेन
सर्वत्र प्रख्यातमाविर्बिभर्ति । एतावत्फलं पित्रोरस्ति परिचर्यायाः । तर्हि त्वमपि पित्रो: सेवामुपास्व ।
कथामेनां मदनसेनं प्रति शुको भाषिष्ट । तदाकर्ण्य मदनसेनः कीरं गीर्भिरुपाचरत् । कीर त्वदीयप्र-
सादेन परमो बोधो मम ह्युदियाय । इत्यभिधाय मदनसेनः पित्रोः समीपं प्ररिव्रज्य दण्डवत्प्रणिपत्य
करौ संयोज्य व्यजिज्ञपत् । एतावतो दिवसान्मुषितसर्वार्थसार्थोऽस्मि यो ऽहं भवतामादेशं न कृतवान्। 25
तदेतद्विमानसुगतं ममाजायत । अद्य प्रभृति प्रेष्ये यथादेशः प्रदीयते तथैतावत्प्रयोजनप्रेषणं मयि
दातव्यम् । एतदाकर्ण्य हरदत्तः संतुष्य परं प्रमोदभरं प्राप्तवान् ।
यथोदितम् ।
धनी पूज्यो धनी श्लाघ्यो धनी सर्वगुणाग्रणीः ।
धनहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥
यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बान्धवाः ।
यस्यार्थः स पुमांझोके यस्यार्थः स च पण्डितः ॥
Abh. d. I. Cl. d. k. Ak. d. Wiss. XXI. Bd. II. Abth.
5
ततः संतुष्य हरदत्तः पुत्रं प्रत्युवाच । त्वया कुटुम्बस्य पञ्चामागे चिन्तोदहनं कर्तव्यम् । अहं धनार्जन- 30
व्यवसायाय प्रव्रजिष्यामि । धनहीनः पुमांस्तुणस्यापि न विनिमयतामर्हति ।
तथा चाभ्यधुः ।
43
10
35