This page has been fully proofread once and needs a second look.

5
 
324
 
नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।

नास्ति क्रोधसमो वहिनीह्निर्नास्ति ज्ञानसमं सुखम् ॥
 

 
इत्यभिधाय देवशर्मा तस्य दोषस्या पाकरणकाम्यया पुनरपि स्नानदेवार्चनादिकर्मावशेषं निर्माय

समाधावुपविश्यैकान्तचित्तो भूत्वा कामपि मन्त्रानुवृत्तिं कृतवान्द्वैतभावपरित्यागेन ।
 

 
अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने।

व्यग्रचित्तेन यज्जप्तं तत्सर्वं निष्फलं भवेत् ॥
 

 
तदनु निमित्तं निर्माय नगरान्तर्गन्तुं प्रक्रान्तवान् । ततो नारायणनामधेयस्य ब्राह्मणस्य गृहं भिक्षा-

हरणायागच्छत् । ततस्तदीयपत्न्या द्वारि गतं भिनुक्षुमवेच्क्ष्य भिक्षां दातुं प्रात्रं करे ऽकारि । तावता

तस्याः पतिनारायणो गृहानगच्छत् । ततस्तया भिक्षापाचंत्रं स्थापयित्वा क्षणमात्रं स्थातव्यमिति देवशमा
10
र्मा
व्याहारि । भर्त्रे जलपात्रं दत्त्वा स्नापनाय सलिलं समानीय स्नानसुरसपर्या भोजनादिसामग्रीसंपादनं

संसाध्य देवशर्मभिचुक्षुनिमित्तं भिचाक्षामाहृतवती । ततो देवशमीर्मा तामवादीत् । एतावन्तं समयमहं द्वार्येव

तिष्ठामि । त्वं विलम्बेन भिक्षां वितरिष्यसि । तर्हि गरीयान्प्रत्यवायस्तवाघटिष्ट । ततः सा भिक्षुमवोचन् ।

एकस्माद्विधेयविशेषादेकस्य बलवत्तरता । यस्यास्ति धर्मो ऽत्र यस्मिन्नुचितत्वमुख्यता स तेनादौ वि-

धातव्यः । ततो ऽन्यस्मै प्रयोजनाय प्रवर्तितव्यम् ।
 
15

 
गदितं च ।
 
अपूज्या यत्र पूज्यन्ते न पूज्यन्ते गुणान्विताः ।

त्रीणि तत्र भविष्यन्ति दुर्भिक्षं मरणं भयम् ॥
 

 
अस्माभिः पतिवरिवस्यानुसंधातव्या ।

 
तथा हि ।
 
अयमेव परो धर्मो ह्ययमेव परं तपः ।

पतिशुश्रूषणं यत्र तत्स्त्रीणां स्वर्गहेतुकम् ।
 
20

 
एतावतास्मदीयं समस्तमपि व्यवसितं चरितार्थं भवति ।
 

 
रचितं च ।
 
कोकिलानां स्वरो रूपं पातिव्रत्यं तु योषिताम् ।

विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥
 

 
भवादृशानां योगीश्वराणां क्षमैव भाव्या । तदानीमेवाविकलं योगस्य फलमासाद्यते । इतरथा व्यर्थः

परिश्रम एवोदेति । ततो ऽसौ सरोषभूभङ्गदुर्दृश्यतारकं न्यफालयत् । तदनु तया पतिव्रतयावादि ।
26

भवतां कोपेन किं नाम शक्यते कर्तुम् । कथमहं सा बलाका या कोपेन भवतो न्तरिक्षादपतत् ।

एतदाकर्ण्य देवशमीर्मा विस्मयविवशः संजातः । अन्यप्रदेशजनितं वृत्तान्तं कथमेषा दृग्विषयीभावमापाद-

यितुं प्रगल्भते । न ह्यसौ सामान्यसंभावनासंभाव्या भवति । अभिधायेत्यंथं तां दण्डवत्प्रणतवान् ।

व्याभाषीच्च । त्वयाहमुपदेष्टव्यः । तवेदृशमतीन्द्रियं ज्ञानं कुतस्त्यम् । ततः साश्रावयत् । यस्य प्राणिनो

यो धर्मो ऽभिहितो ऽस्ति तं यथावदनुतिष्ठति । तर्हि स्वभावत एव ज्ञानोदयस्तस्मिन्नास्पदं संपादयति ।
30

मम पत्युरुपाचरणेन ज्ञानं जरीजृम्भीति । भवान्वाराणसीं गच्छतु । तत्र धर्मव्याधो नाम मृगयुरधिवस-

ति । स तुभ्यं ज्ञानोपदेशं दास्यति । ततः साध्वीवचसासौ देवशमीर्मा वाराणसीं प्रति प्रस्थितवान् । शनैः

शनैर्विश्वनाथनगरं मुक्तिक्षेत्रमासादितवान् । नगरमध्यमाविश्य तोतीर्थे समाप्लाव्य श्रीविश्वेश्वरमभिपूज्य

प्रदक्षिणं कृत्वा दण्डवत्प्रणिपत्य पवित्रमात्मानं विधाय धर्मव्याधं दिदृचुक्षुस्तदुपान्तमगच्छत् । ततस्तेन

दर्शनसमनन्तरमेवाभाषि । किकिं पतिव्रतया प्रस्थापिता भवन्तः । तदाकर्ण्य तमवदत् । तथैव प्रस्थापितो
35

युष्मत्संनिकृष्टमागतो ऽस्मि । ततो द्वावपि व्याधस्य निकेतनं गतीतौ व्याधेन देवशर्मााणमासनायासनं