This page has not been fully proofread.

सभाप्यशुक्लयजुर्वेद परिशिष्टानि ।
 
वेदपारायणविधिः ।
 
श्रीवेदपुरुषाय नमः ॥ स्थण्डिलं कल्पयित्वाग्निमुपसमा
धाय संपरिस्तीर्याज्येनैताभ्यो देवताभ्यो जुहोति अग्नये
सोमायेन्द्राय विश्वेभ्योदेवेभ्यः ऋषिभ्य ऋग्भ्यो यजुर्भ्यः
सामभ्यः श्रद्धायै प्रज्ञायै मेधायै धारणायै श्रियै हियै
सावित्र्यै सवित्रे प्रजापतये काण्डऋषये सोमाय काण्डऋषये
अग्नये काण्डऋषये विश्वेभ्योदेवेभ्यः काण्डऋषिभ्यः संहि-
ताभ्यो देवताभ्य उपनिषच्यो याज्ञिकीभ्यो देवताभ्य उपनि-
षद्भ्यो वारुणीभ्यो देवताभ्य उपनिषच्यो हव्यवाहाय विश्वेभ्य
ऋग्गणेभ्योऽनुमत्यै स्विष्टकृते च पृथक्स्वाहाकारेण हुत्वा
व्याहृतिभिश्च पुनः परिषिञ्चति । समाप्ते चैता यजुषा तर्प-
 
। मृग्वेद काण्डर्व्यादिवर्ण्यमास्विष्टकृतस्तेषां
स्थाने शतचिभ्यो माध्यमेभ्यो गृत्समदाय विश्वा-
मित्राय वामदेवायाऽन्त्रये भरद्वाजाय जामदम्याय गौतमाय
वसिष्ठाय प्रगाथेभ्यः पावमानीभ्यो देवताभ्यः क्षुद्रसूक्तेभ्यो
महासूक्तेभ्यो महानाम्नीभ्य इति । ततो वेदादिमारभ्य
संततमधीयीतेत्याह भगवान्बौधायनः । इति वेदपाराय-
गोपक्रमविधिः ॥ ॥ अथ वेदपारायणे कलशप्रतिष्ठापनादि-
प्रकारः ॥ तीर्थे देवालये गेहे प्रशस्ते सुपरिष्कृते । कलशं
सुदृढं तत्र सुंनिर्णिक्तं विभूषितम् । पुष्पपल्लवमालाभिश्च
न्दनैः कुङ्कुमादिभिः । मृत्तिकाभिश्च संमिश्रवेदिमध्ये न्यसे-
सतः । पञ्चाशद्भिः कुशैः कार्यो ब्रह्मा पश्चान्मुख स्थितः ।
नापितः स्थापितः कुम्भे चतुर्बाहुश्चतुर्मुखः । वत्सजान्वाकृति
दण्डमुत्तराद्यैः कुशैः कृतम् । ब्रह्मोपधाने दत्त्वा तं ततः स्व-
स्त्ययनं पठेत् । प्रतिष्ठां कारयेत्पश्चात्पूजाद्रव्यमथोच्यते ।
यज्ञोपवीतनैवेद्यवस्त्रचन्दकुङ्कुमैः । स्रग्धूपदीपताम्बूलैरक्ष-
तैश्च पितामहम् । ब्रह्मज्ञानमिति वा गायत्र्या वा प्रपू-
जयेत् । उपध्यायश्च संपूज्यो यथापाठं पठेत्ततः । इति
वेदपारायणे कलश प्रतिष्ठापनादिप्रकारः ॥
 
अनश्नत्पारायणविधिः ।
 
श्रीः ॥ अथातोऽनश्नत्पारायणविधिं व्याख्यास्याम आसमा-
तेर्नाश्नीयात् यथाशक्ति वापः पयः फलान्योदनं वा हविष्य-
मल्पं भुक्त्वा तदा शेषमधीयीत । ग्रामात्प्राचीमुदीचीं
वा दिशमुपगम्याग्निमुपसमाधाय परिस्तीर्येध्मं प्रदायाज्येनै-
ताभ्यो देवताभ्यो जुहोति अग्नये सोमायेन्द्राय प्रजापतये
बृहस्पतये विश्वेभ्यो देवेभ्यो ब्रह्मणे ऋषिभ्य ऋग्भ्यो यजुभ्यैः
 
१ निर्णितं प्रक्षालितम् ।
 
श्रद्धा मेधायै प्रज्ञायै धारणायै सदसस्पतये अनुमतये श्रियै
हियै सावित्र्यै सवित्रे प्रजापतये काण्डऋषये सोमाय काण्ड-
ऋषये विश्वेभ्योदेवेभ्यः काण्डऋषिभ्यः संहिताभ्यो देव-
ताभ्य उपनिषच्यो याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यो वारु
णीभ्यो देवताभ्य उपनिषद्भ्यो हव्यवाहाय विश्वेभ्य ऋग्गणेभ्य
अनुमत्यै स्विष्टकृते च पृथक् स्वाहाकारेण हुत्वा व्याहृति-
भिश्च पुनः परिषिञ्चति । समाप्ते चैता यजुषा तर्पयति । एव-
मृग्वेदिनां काण्डर्ष्यादिवर्ज मास्विष्टकृतस्तेषां स्थाने श-
तर्चिभ्यो माध्यमेभ्यो गृत्समदाय विश्वामित्राय वामदेवाया-
त्रये भरद्वाजाय जामदम्याय गौतमाय वसिष्ठाय प्रगाथेभ्यः
पावमानिभ्यः क्षुद्रसूक्तेभ्यो महानाम्नीभ्य इति । ततो
वेदादिमारभ्य संततमधीयीत नास्यान्तरानध्यायो नास्यान्तरा
जननमरणे अशुची नान्तरा व्याहरेन्नान्तरा विरमेद्या-
वन्तमधीयीत । यद्यन्तरा विरमेत्रीन्प्राणायामानायम्य
प्रणवं वा प्रणिधाय यावत्कालमधीयीत । ततः सर्व निशो
निशान्तरं संग्रामारण्यसलिलं प्रलोप्य परिदध्यात् । आदावन्ते
च ब्राह्मणभोजनं दक्षिणादानं च दद्यात् । परातेन विधिना
वेदमधीयीत स ततः पूतो वेदो भवति मनः शुद्धश्च भवति
द्वाभ्यां पारायणाभ्यां ऋग्भिश्च भोजन इहाधीते अनृतेभ्यः
सिक्त्वा गङ्गासु निमजंश्च भवति । चतुर्भ्यः शूद्रान्नभो
प्रमुच्यते त्रिभिर्बहुभ्यः पातकोपपातकेभ्यः शूद्रायां रेतः-
जनात्तत्सेवनात्तत्स्त्रीसेवनाच्च
 
पञ्चभिरयाज्ययाजनात्पूतो
 
भवति
। अग्राह्यग्रहणाड्राह्याग्रहणादभ्यासोपासनाच्च पवित्र-
झणस्य लोहितकरणात्स्त्री लोहितकरणात्पशुहननात्सुवर्णस्तेया-
त्पतिसंप्रयोगाच्च सप्तभिः प्राजापत्यानां हीनाचरणात् । य-
ज्ञोपवेधनाञ्च अष्टभिश्चान्द्रायणस्यान्तराना चरणाद्गुरुतल्पगम-
नाद्रजस्वलागमनाच्च नवभिः सुरापानाच्च दशभिरश्रोत्रियया-
जनात् असोमपानात् अन्यायतश्च एकादशभिर्ब्राह्मणहनना-
गर्भहननाद्वादशभिः पूर्वजन्महजन्म कृतैः सर्वैः पापैः प्रमुच्यते
स्वर्गलोकं गच्छति पितृन्स्वर्गलोकं गमयति अग्निष्टोमादी-
न्क्रतून्यजति तैः क्रतुभिरिष्टं भवति । वेदाध्यायी सदैव
स्याद्यथा हि सत्यवाक्शुचिः । यं यं कामयते कामं तं तं
वेदेन साधयेत् । असाध्यं नास्ति यत्किंचिद्ब्रह्मणो हि फलं
महत् ब्रह्मणो हि फलं महदिति । समाप्तौ यजुषा तर्पय-
तीति । वेदपारायणे समाप्ते एता देवताः पूर्वोक्ता
अग्निसोमाद्यायजुषा तर्पयति यजुर्वेदपारायणे तस्य वेदस्य
प्राधान्यमुच्यते । अथवा भूरादिव्याहृतिचतुष्टयात्मकं यजुः--
शब्देन गृह्यते तेनैतदुक्तं भवति । भूर्देवांस्तर्पयामीत्यनेन
प्रकारेण तर्पयित्वा अग्निसोमादींस्तर्पयेदिति । नास्यान्तरा