This page has not been fully proofread.

1
 
६१०
 
शुक्लयजुर्वेदसंहिता ।
 
पृथक्कुरु च अस्मत् अस्मत्तः जुहुराणं प्रतिबन्धकमेनः पापम् ।
यतो भूयिष्ठां ते नमउक्तिं विधेम बहुतरां तव नमस्कारोक्तिं
कुर्मः । व्याख्यातायाः पुनर्वचनं विशेषार्थम् ॥ १६ ॥
 
म० पुनरन्येन मन्त्रेणान्याख्यं ब्रह्मप्रति योगी मार्ग
याचते । अगस्त्यदृष्टाग्नेयी त्रिष्टुप् ( अ० ५ । क० ३६ ) ।
व्याख्यातापि विशेषाय पुनर्व्याख्यायते । हे देव दानादिगुणयुक्त
हे अग्ने, अस्मान् सुपथा शोभनेन मार्गेण देवयानेन नय ।
सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । गतागतलक्षणेन
दक्षिणमार्गेण निर्विष्टोऽहम् अतोऽग्ने, त्वां याचे पुनर्गमनागम-
नवर्जितेन शोभनेन पथास्मान्कर्मफलविशिष्टान्नय । किमर्थम् ।
राये धनाय मुक्तिलक्षणाय । कर्मफलभोगायेत्यर्थः । किंविध-
स्त्वम् । विश्वानि सर्वाणि वयुनानि कर्माणि प्रज्ञानानि वा विद्वान्
जानन् । किंच जुहुराणं । 'हुर्च्छा कौटिल्ये' शानचि जुहोत्या-
दिवेन रूपम् । कुटिलं प्रतिबन्धकं वञ्चनात्मकमेनः पापमस्मत्
अस्मत्तः सकाशात् युयोधि पृथक्कुरु वियोजय । नाशयेत्यर्थः ।
'यु मिश्रणामिश्रणयोः' ह्वादित्वाश्छब्लोपद्विले छान्दसं हेर्धित्वम् ।
ततो विशुद्धा वयं ते तुभ्यं भूयिष्ठां बहुतरां नमउक्ति नमस्का
रवचनं विधेम कुर्याम । इदानीं सपापत्वात्तव परिचर्यां कर्तुं
न शक्नुमस्ततस्त्वया पापनाशे कृते शुद्धा वयं नमस्कारेण त्वां
परिचरेमेत्यर्थः ॥ १६ ॥
 
सप्तदशी ।
 
[ चत्वारिंशोऽध्यायः ४० ]
 
इत्युपक्रम्य 'अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्म-
लोक आनन्दः' इति । तथा सर्वनियन्तृत्वं दर्शयति 'एतस्य
वा अक्षरस्य प्रशासने गार्गी' त्युपक्रम्य ' द्यावापृथिवी विष्टते
तिष्ठतः' इत्यादि । तथा सर्वज्ञत्वं दर्शयति । 'यद्वा एतम-
क्षरं गार्गि अदृष्टं द्रष्टृ' इत्यादि । तथा सत्यसंकल्पादयोऽस्य
गुणाः श्रूयन्ते 'सत्यसंकल्पः सत्यधृष्टि' रित्यादि । यद्येवं
तर्हि एतद्वै तदक्षरं गार्गि अस्मिन्वा आकाश ओतश्च प्रोत-
श्चेति ओतप्रोतसामान्यात् आकाशेनैवैतद्रूपं ब्रह्माभिहितं
स्यादिति । अयमेव च ब्रह्माभिहितं स्यादिति अयमेव च
ब्रह्मवित्सिद्धान्तः ॥
 
इति उवटकृतौ मन्त्रभाष्ये चत्वारिंशोऽध्यायः समाप्तः ॥४०॥
आनन्दपुर वास्तव्यवज्रटाख्यस्य सूनुना ।
उवटेन कृतं भाष्यं पदवाक्यैः सुनिश्चितैः ॥ १ ॥
ऋष्यादींश्च नमस्कृत्य अवन्त्यामुवटोsवसन् ।
 
मन्त्राणां कृतवान्भाष्यं महीं भोजे प्रशासति ॥ २ ॥
 
म० पुनरादित्योपासनमाह । उष्णिक् यजुर्द्वयान्ता 'उष्णिक्
त्रिपादान्त्यो द्वादशक' इति वचनात् । हिरण्मयमिव हिर-
ण्मयं ज्योतिर्मयं यत् पात्रम् पिबन्ति यत्र स्थिता रश्मयो
रसानिति पात्रं मण्डलम् तेन तेजोरूपेण मण्डलेन सत्यस्यादित्य-
मण्डलस्थस्याविनाशिनः पुरुषस्य मुखं शरीरमपिहितमाच्छादितं
वर्तते । तथापि यः असौ प्रत्यक्षः आदित्ये रविमण्डले पुरुषः
 
हिर॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म् । योऽसा- पुरुषाकारत्वात् पूर्णमनेन प्राणबुद्ध्यात्मना जगत्समस्तमिति वा
वा॑दि॒त्ये पुरु॑ष॒ः सोऽसाव॒हम् ॥ १७ ॥
 
ओ३म् खं ब्रह्म ॥
 
इति माध्यन्दिनीयायां वाजसनेयसंहितायां
 
चत्वारिंशोऽध्यायः ॥ ४० ॥
 
उ० इदानीमादित्योपासनमाह । हिरण्मयेन । यद्यपि
हिरण्मयरूपेण पात्रेण येन रौप्यमयेन पात्रेण । पिबन्त्यस्मि ।
निवस्थितान् रसान् रश्मय इति पात्रं मण्डलं तेन पात्रेण
मण्डलेन सत्यस्याविनाशिनः पुरुषस्य अपिहितमन्तर्हितम् ।
मुखं शरीरम् । तथापि यः असौ आदित्यः पुरुषः योगिभि-
रुपलक्ष्यते । सः असौ अहम् अस्मि । एतां चोपासनां
कुर्यात् ॥ १७ ॥ ॐ खं ब्रह्म । ओमिति नामनिर्देशः । आकाश -
स्वरूपं ब्रह्म ध्यायेत् आत्मत्वेन । नन्वचेतन आकाशः चेतन
आत्मा । तद्यथा 'विज्ञानमानन्दं ब्रह्म' इति तत्रानन्दप्र-
तिपादकं वाक्यम् । 'स यो मनुष्याणां राद्धः समृद्धो भवति'
 
१ दशाध्याये समाख्यातानुवाकाः सर्वसंख्यया । शतं दशानु-
वाकाश्च नवान्ये च मनीषिभिः ॥ सप्तषष्टिश्चितौ ज्ञेयाः सौत्रे
द्वाविंशतिस्तथा । अश्व एकोनपञ्चाशत्पञ्चत्रिंशत्खिले स्मृताः ॥
शुक्रियेषु तु विज्ञेया एकादश मनीषिभिः । एकीकृत्य समाख्यातं
त्रिशतं त्र्यधिकं मतम् ॥
 
पुरुषः पुरिशयनाद्वा स मण्डलस्थः पुरुषः असौ प्रत्यक्षः कार्य-
कारण संघातप्रविष्टोऽहमस्मि । एतां चोपासनां कुर्यादित्यर्थः ।
ओम् खं ब्रह्मेति यजुषी । ओ३मिति नामनिर्देशो ब्रह्मणः खं
ब्रह्मेत्याकाशरूपमन्ते ब्रह्म ध्यायेत् ( अनु० ४ । ९ ) । यद्यपि
ब्रह्म चेतनमाकाशस्त्वचेतनस्तथाप्येकदेशे सादृश्यम् । नभोव-
व्यापकं ब्रह्म ओमिति जपन्ध्यायेदित्यर्थः । सूर्यमण्डलस्थः पुरु-
षोऽहमेवेत्यमेदेन चिन्तयेत् ॥ १७ ॥
 
अथ विचारः । विद्यां चाविद्यां चेत्यत्र विद्याशब्देन
किं मुख्या परमात्मविद्योच्यते उतोपासना वा । अमृतमश्रुत
इत्यत्र अमृतशब्देन साक्षान्मुक्तिरुत्तरमार्गेण परम्परया वा ।
नाद्यः । विद्याकर्मणोर्यस्तद्वेदोभयं सहेति समुच्चयानुपपत्तेस्त-
। योर्विरोधात् विद्योत्पत्तौ तदाश्रयेऽविद्यानुत्पत्तेः । वह्निरुष्णः प्रका-
शश्चेति ज्ञानोत्पत्तौ शीतोऽग्निरप्रकाशश्चेति अविद्योत्पत्तिर्न संभ-
वति नापि संशयोऽज्ञानं वा ' यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्वि-
जानतः । तत्र को मोहः कः शोकः' इत्युक्तत्वात् । किंच विद्या-
शब्देन परमात्मविद्याग्रहणे अने नयेति सुपथयाचनमनुपप-
न्नम् । तस्माद्विद्योपासना अमृतं चापेक्षितमिति दिक् ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
व्यरमच्चरमोऽध्यायः परमात्मनिरूपकः ॥ ४० ॥
शुक्लयजुर्वेदस्य मन्त्रभागः समाप्तः ।
 
समाप्तोयं ग्रन्थः ।