This page has not been fully proofread.

*
 
:
 
६०८
 
शुक्लयजुर्वेदसंहिता ।
 
मनीषी मनस ईषिता सर्वज्ञः । परिभूः परि सर्वेषामुपर्युपरि
भवतीति परिभूः । स्वयंभूः स्वयमेव भवतीति येषामुपरि भवति
यश्चोपरि भवति स खयमेव भवतीति स्वयंभूः । स नित्य
ईश्वरः सर्वं कृतवानित्यर्थः ॥ ८ ॥
 
नवमी ।
 
अ॒न्धं तम॒ः प्रवि॑शन्ति॒ येऽस॑भूतिमु॒पास॑ते । ततो॒

भूय॑ इव॒ ते तम॒ य उ॒ संर्भूत्या र॒ताः ॥ ९ ॥
 
उ० इत उत्तरमुपासनामन्त्राः प्रोच्यन्ते । अन्धं तमः
षडनुष्टुभः । लोकायतिकाः प्रस्तूय निन्द्यन्ते । येषामेतद्द-
र्शनम् । जलबुबुदवज्जीवाः । मदशक्तिवद्विज्ञानमिति । अन्धं
तमः प्रविशन्ति येऽसंभूतिमुपासते । मृतस्य सतः पुनः संभवो
नास्ति । अतः शरीरग्रहणादस्माकं मुक्तिरेव । नहि विज्ञा-
नात्मा कश्चिदनुच्छित्तिधर्मास्ति यो यमनियमैः संबध्यते ।
एवं ये उपासते ते अन्धं अज्ञानलक्षणं तमः प्रविशन्ति ततो
भूय इव ते तमः । ततोपि बहुतरम् । इवोऽनर्थकः । ते तमः
प्रविशन्ति ये उ । उकारः कर्मोपसंग्रहार्थीयः । ये संभूत्या-
मेव रताः । आत्मैवास्मि नान्यत्किंचिदस्तीत्ययमभिप्रायः ।
कर्मपराङ्मुखाय तत्कर्मकाण्डज्ञानकाण्डयोरसंभव इत्ययम-
भिप्रेत्य स्वबुद्धिमद्भुतां विभावयन्तः आत्मज्ञान एव
 
रताः ॥ ९ ॥
 
म० अतः परमुपासनामन्त्रा उच्यन्ते षडनुष्टुभः । यमनि-
यमसंबन्धवान्विज्ञानात्मा कश्चिन्नास्ति जलबुद्बुदवज्जीवाः मदश-
तिवद्विज्ञानमित्यादिमतवादिनो बौद्धाः प्रस्तूय निन्द्यन्ते । ये
नराः असंभूतिमसंभवमुपासते मृतस्य पुनः संभवो नास्ति अतः
शरीरान्तेऽस्माकं मुक्तिरेवेति वदन्ति ते अन्धं तमोऽज्ञानलक्षणं
प्रविशन्ति । ये उ ये च संभूत्यामेव रताः संभवत्यस्या इति
संभूतिरात्मा तत्रैवासक्ताः कर्मपराचुखाः खबुद्धिलाघवमजा-
नाना आत्मज्ञानमात्ररताः आत्मैवास्ति नान्यत् कर्मादीनि कर्म-
काण्डज्ञानकाण्डयोः संबन्धो नास्तीत्यभिप्रायवन्त इत्यर्थः । ते
नराः ततोऽन्धात्तमसो भूय इव । इवशब्दोऽनर्थकः । बहुतरं
तमोऽज्ञानं विशन्ति । अस्या ऋचोऽर्थान्तरमुच्यते । अधुना
व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते ।
संभवनं संभूतिः कार्यस्योत्पत्तिः तस्या अन्या असंभूतिः प्रकृतिः
कारणमव्याकृताख्यं तामसंभूतिमव्याकृताख्यां प्रकृतिं कारण-
मविद्याकामकर्मबीजभूतामदर्शनात्मिकां ये उपासते ते तदनु-
रूपमेवान्धं तमोऽदर्शनात्मकं संसारं प्रविशन्ति । ये संभूत्यां
कार्यब्रह्मणि हिरण्यगर्भाख्ये रताः ते ततस्तस्मादपि भूयो बहु-
तरमिव तमः प्रविशन्ति ॥ ९ ॥
 
दशमी ।
अ॒न्यदे॒वाहुः से॑भ॒वाद॒न्यदा॑हु॒रस॑भवात् । इर्ति
शुश्रुम धीरा॑णां ये न॒स्तद्वचचक्षि॒रे ॥ १० ॥
 

 

 
[ चत्वारिंशोऽध्यायः ४० ]
 
उ० अन्यदेव । अन्यदेव फलं आहुः संभवात् संभव-
परिज्ञानात् । अन्यच्च आहुः फलम् संभवपरिज्ञानात् । इति
एवं शुश्रुम श्रुतवन्तो वयम् धीराणां वचांसि । ये धीराः नः
अस्माकम् । तत् ब्रह्म विचचक्षिरे आख्यातवन्तः ॥ १० ॥
 
म० अथोभयोरुपासनयोः समुच्चय कारणमवयवबलमेद-
णिमाद्यैश्वर्यलक्षणं फलमाहुः कथयन्ति धीराः । तथा असंभ-
माह । संभवात्संभूतेः कार्यब्रह्मोपासनात् अन्यदेव पृथगेवा-
वात् असंभूतेरव्याकृतादव्याकृतोपासनादन्यदेव बलमुक्तम् ।
अन्धं तमः प्रविशन्तीत्युक्तं प्रकृतिलय इति पौराणिकोक्तं फल-
माहुः इत्येवंविधं धीराणां विदुषां वचः शुश्रुम वयं श्रुतवन्तः ।
ये धीराः नोऽस्माकं तत् पूर्वोक्तं संभूत्यसंभूत्युपासन ( फलं
विचचक्षिरे व्याख्यातवन्तः ॥ १० ॥
 
एकादशी ।
संभूतिं च विनाशं च॒ यस्तद्वेद॒भय॑
विनाशेन॑ मृत्यु॑ त॒र्त्वा स॑भू॑त्या॒मृत॑मश्नुते ॥
 
स॒ह ।
 
११ ॥
 
उ० संभूर्ति च समस्तस्य जगतः संभवैकहेतुं च परं
ब्रह्म । विनाशं च विनाशिशरीरं च । यः योगी तदुभयं
वेद जानाति । सह एकीभूतम् । शरीरग्रहणेन ज्ञानोत्पत्ति-
हेतूनि कर्माणि करोति । सः विनाशेन । विनाशिना शरी-
रेण । मृत्युं तीर्त्वा उत्तीर्य । संभूत्या आत्मविज्ञानेन । अमु-
तमक्षुते । अमृतत्वमश्नातीत्यर्थः ॥ ११ ॥
 
म० संभूतिं सर्वजगत्संभवैकहेतुं परं ब्रह्म । विनाशं विना-
शोऽस्यास्तीति विनाशः अर्शआदित्वादच्प्रत्ययः । विनाशधर्म कं
शरीरम् । तदुभयं शरीरिशरीररूपं द्वयं यो योगी सह एकीभूतं
वेद जानाति । देहभिन्नोऽहं देहीवा से कर्मवशादिति ज्ञात्वा
शरीरेण ज्ञानोत्पत्तिकराणि निष्कामकर्माणि करोतीत्यर्थः । स
विनाशेन विनाबिना शरीरेण मृत्युं तीर्त्वान्तःकरणशुद्धिं संपाय
संभूत्यात्मज्ञानेनामृतमश्रुते मुक्तिं प्राप्नोति । अस्या ऋचोऽर्था-
न्तरम् । यथा । संभूत्युपासनयोरेकपुरुषार्थलात्समुच्चय एव
युक्त इत्याह । अत्र विनाशशब्दद्वये अवर्णलोपो द्रष्टव्यः पृषो-
दरादित्वात् । अन्यदाहुरसंभवादित्युक्तेः । संभूतिमविनाशं च
व्याकृता व्याकृतोपासनद्वयं यः सह वेद । उभयमुपास्त इत्यर्थः ।
स योगी अविनाशेनाव्याकृतोपासनेन मृत्युमनैश्वर्यमधर्मका-
मादिदोषजातं च तीर्त्वातिक्रम्य संभूत्या हिरण्यगर्भोपासनेना-
मृतं प्रकृतिलयलक्षणमश्नुते ॥ ११ ॥
 
द्वादशी ।
 

 
अ॒न्धं तम॒ः प्रवि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते । ततो॒
भूय॑ इव॒ ते तम॒ य उ॑ वि॒द्याया॑ र॒ताः ॥ १२ ॥
 
उ० अन्धं तमः भज्ञानलक्षणं तमः प्रविशन्ति । ये
अविद्यां स्वर्गाद्यर्थानि कर्माणि उपासतेऽनुतिष्ठन्ति । ततो
भूय इव ते तमः । ततोपि बहुतरम् । इवोऽनर्थकः । ते