2026-02-20 06:10:21 by ambuda-bot
This page has not been fully proofread.
उवटभाष्य - महीधरभाष्यसंवलिता ।
: उ० यस्तु । तुशब्दो विशेषणार्थः । यः पुनः सर्वाणि
भूतानि चेतनाचेतनानि आत्मन्नेव अनुपश्यति । मय्येव
सर्वाणि भूतान्यवस्थितानि न मव्यतिरिक्तानि । अहमेव परं
ब्रह्मेति । सर्वभूतेषु चात्मानं अवस्थितं तद्व्यतिरिक्तं पश्यति ।
ततो न विचिकित्सति न संशेते । एवं पश्यतो योगिनः
परब्रह्मरूपाण्यात्मसंस्थानि भवन्ति विज्ञानघनानन्दैकत्वा
दिति अतो विचारान्न विनिवर्तते ॥ ६ ॥
६०७
उ० स पर्यगात् । जगती । य एवमात्मानमुपास्ते स
पर्यगात्परिगच्छति शुक्रं शुक्लं विज्ञानानन्दस्वभावमचिन्त्यश-
क्तिम् । अकायं न विद्यते कायः शरीरं यस्य स तथोक्तः ।
अत्रणं कायरहितत्वादेव । भस्त्राविरं स्नायुरहितमकायत्वादेव
शुद्धमनुपहतं सत्वरजस्तमोभिरपापविद्धं क्लेशकर्मविपाकाश-
यैरसंस्पृष्टम् । अकायमव्रणमस्त्राविरमिति पुनरुक्तान्यभ्यासे
भूयांसमर्थं मन्यन्त इत्यदोषः । इत्थंभूतं ब्रह्म प्रतिपद्यते ।
म० अथोपासनप्रकारमाह । यस्तु यः पुनः मुमुक्षुः अथात्मोपासनायुक्तस्य फलमाह । यश्च कविः कान्तदर्शनः
सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि चेतनानि आत्मन् । मनीषी मेधावी परिभूः सर्वतो भविता विज्ञानबलात्स्वयंभूः
सप्तम्या लुक् । आत्मनि एवानुपश्यति मय्येव सर्वभूतानि स्वयं ज्ञानबलाद्ब्रह्मरूपेण भविता सः याथातथ्यतोऽर्था-
स्थितानि न मद्यतिरिक्तानीति पश्यति । आत्मव्यतिरिक्तानि न । न्व्यदधाद्यथास्वरूपमर्थान्विहितवान् त्यक्तस्वस्वामिसंबन्धैर-
पश्यतीत्यर्थः । सर्वभूतेषु चात्मानमवस्थितमव्यतिरिक्तं पश्यति र्थैश्चेतनाचेतनैरुपभोगं कृतवान् । शाश्वतीभ्योऽनन्ताभ्यः
तेषां भूतानां खं आत्मानमात्मत्वेन पश्यतीत्यर्थः । अयमर्थः । समाभ्योऽर्थाय अनन्तवर्षप्राप्तये च कर्म कृतवान् । ननु
अस्य कार्यकारणसंघातस्यात्माहं सर्वप्रत्ययसाक्षिभूतश्चेतयिता । कर्मजा ड्याल्लोकः कर्मवान्भवति । सत्यम् । आत्मसंस्कारक
निर्गुणश्च तथा तेनैव स्वरूपेणाव्य कादीनां स्थावरान्तानामहमे तु कर्म ब्रह्मभावजनकं स्यात् । तस्मात्सोपि गच्छति शुक्रम-
वात्मेति सर्वेषु चात्मानं निर्विशेषं पश्यति । ततस्तस्माद्दर्शनान्न । कार्य ब्रह्म इति ॥ ८ ॥
विचिकित्सति न संशेते 'कित रोगापनयने संशये च' इति धातोः
:
'गुप्तिकिंन्यः सन् ' ( पा० ३ । १ । ५ ) इति स्वार्थे सन्प्रत्ययः ।
आत्मनोऽन्यत्पश्यतः सर्वः संदेहो भवत्यात्मानमेवात्यन्तं शुद्धं
निरन्तरं पश्यतो न संदेहावकाश इति भावः । अत आत्मज्ञस्य
विचारनिवृत्तिः ॥ ६ ॥
सप्तमी ।
यस्मि॒न्सर्वा॑णि भू॒तान्या॒त्मैवार्भूद्विजान॒तः । तत्र
को मोह॒ः कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः ॥ ७ ॥
उ० किंच । यस्मिन् अवस्थाविशेषे । सर्वाणि भूतानि
चेतनाचेतनानि । आत्मैव अभूत् संभवन्ति । विजानतः
'आत्मैवेदं सर्वं' । 'सर्व खल्विदं ब्रह्मे' त्येवमादिवाक्यविचारेण
विद्युत विज्ञानस्य । तत्र अवस्थाविशेषे कृतचेतसो योगिनः
कः मोहः कश्च शोकः न कश्चिदपीत्यभिप्रायः । शोकमोहौ
ह्यपरिज्ञाततत्वस्य भवतः । हेतुगर्भ विशेषणमाह । एकत्वम-
नुपश्यतः सर्वाणि भूतानि ध्यायतः ॥ ७ ॥
म० इममेवार्थमन्यो मन्त्रो वदति । यस्मिन्नवस्थाविशेषे
विजानतः 'आत्मैवेदम्' 'सर्वं खल्विदं ब्रह्मे' त्यादिवाक्यविचारेणा
वधृतपरमार्थस्य सतः सर्वाणि भूतानि आत्मैवाभूत् परमार्थदर्श-
नादात्मैव संवृत्तः । तत्र तस्यामवस्थायामेकत्वं विशुद्धं मगनो-
पममात्मैकत्वं पश्यतः जानतः को मोहः कः शोकश्च । अवि-
द्याकार्ययोः शोकमोहयोरसंभवात्सकारणस्य संसारस्यात्यन्तमु-
च्छेद इति भावः ॥ ७ ॥
अष्टमी ।
स पर्य॑गाच्छुक्रम॑क॒यम॑त्र॒णम॑स्नावि॒रए शुद्धम-
पविद्धम् । क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒भूर्यौथातथ्य॒तो-
ऽथो॒न्व्य॒धाच्छाश्वतीभ्यः॒ समा॑भ्यः ॥ ८ ॥ .
म० एवंभूतात्मज्ञस्य फलमाह । य एवमात्मानं पश्यति स
क
ईदृशं ब्रह्म पर्यगात् परिगच्छति प्राप्नोतीत्यर्थः । कीदृशम् ।
शुक्रं शुद्धं विज्ञानानन्दस्वभावमचिन्त्यशक्ति
कायः शरीरं यस्य तत् । अकायत्वादेवा व्रणमक्षतम् । अस्ना विरं
न विद्यन्ते नावाः शिरा यत्र तदस्त्राविरं स्नायुरहितम् । अका
विंदं क्लेशकर्म विपाकाशयैरस्पृष्टम् । अकायमत्रणमस्त्राविरमित
यत्वादेव शुद्धमनुपहतं सत्त्वरजस्तमोभिः । अपापविद्धं न पापै-
र्विद्धं
पुनरुक्तिरर्थातिशयद्योतनाय । 'अभ्यासे भूयांसमर्थं मन्यन्ते'
( निरु० १० । ४२ ) इति यास्को केः । ईदृशं ब्रह्मात्मज्ञः प्रति-
पद्यत इत्यर्थः । पुनस्तस्यैव फलान्तरमाह । य ईदृश उपासकः
स शाश्वतीभ्यः समाभ्यः निरन्तरमनन्त वर्षेभ्योऽर्थाय अनन्त-
वर्षप्राप्तये याथातथ्यतः यथातथाभावो याथातथ्यं तेन यथा-
स्वरूपमर्थान् व्यदधाद्विहितवान् । त्यक्तखखामिसंबन्धैश्चेतना-
चेतनैरर्थैरुपभोगं कृतवानित्यर्थः । कीदृशः । कविः क्रान्तदर्शी ।
मनीषी मेधावी । परि सर्वतो भवतीति परिभूः ज्ञानबलात्स-
र्वरूपः । स्वयं भवतीति स्वयंभूः ब्रह्मरूपेण भविता । ईदृशोऽपि
। पूर्वोक्तं शुक्रमकायमित्यादिविशेषणविशिष्टं ब्रह्म प्राप्नोतीत्यर्थः ।
एतस्या ऋचोऽर्थान्तरं यथा । योऽयमतीतमन्त्रोक्त आत्मा स
पर्यगात् परितः सर्वत्र गच्छति नभोवत्सर्वं व्याप्नोति । व्याप्य च
शाश्वतीभ्यो नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यो
याथातथ्यतः यथाभूतकर्मफलसाधनतः अर्थान्कर्तव्यपदार्थान्
व्यदधात् । यथानुरूपं व्यभजदित्यर्थः । स कीदृशः । शुक्रमि-
त्यादिविशेषणानि लिङ्गव्यत्ययेन पुंलिङ्गे नेतव्यानि । शुक्रः शुद्धो
दीप्तिमान् । अकायोऽशरीरः । लिङ्गशरीरवर्जित इत्यर्थः । अत्र-
णोऽश्नतः । अस्नाविरः शिरारहितः । अत्रणोऽस्नाविर इति विशे-
षणद्वयेनं स्थूलशरीरप्रतिषेधः । शुद्धो निर्मलः। अपापविद्धोऽध-
र्मादिवर्जितः । क्रविः सर्वदृक् 'नान्यदतोऽस्ति द्रष्टृ' इति श्रुतेः ।