This page has not been fully proofread.

उवटभाष्य - महीधरभाष्यसंवलिता ।
 
दस्तीति चिन्तयेदित्यर्थः । यत् किंचेति भिन्नक्रमः । किंच
यत् जगत्यां लोकत्रये जगत् जङ्गमादिकं स्वामिसंबन्धालिङ्गितं
भवेत् तेन सर्वेण त्यक्तेन त्यक्तस्वस्वामिसंबन्धेन भुञ्जीथाः भोग-
मनुभवेः । मा गृधः 'गृधु अभिकाङ्क्षायाम्' आकाङ्क्षां मा
कृथाः । ममेदमिति धियं त्यजेत्यर्थः । किमिति । खदिति
निपातौ वितर्के । धनं कस्य खित् । न कस्यापीत्यर्थः । सर्वाणि
द्रव्याण्यन्योन्यमुपगच्छन्ति दृश्यन्ते अतो ममेदमिति बुद्धि-
विद्या तो त्यजतो योगेऽधिकार इत्यर्थः ॥ १॥
 
समा॑ः ।
 
1
 
द्वितीया ।
कुर्वन्नेवेह कर्मणि जिजीविषेच्छ॒त
ए॒वं त्वय॒ नान्यथे॒तोऽस्ति॒ न कर्म॑ लिप्यते॒ नरे ॥२॥
उ० निःस्पृहस्यापि योगिनो ज्ञाननिमित्ते कर्मण्यधिकार
इत्येतमर्थमाह । कुर्वन्नेव । कुर्वन्नेव कर्माणि मुक्तिहेतुकानि ।
इह लोके जिजीविषेत् । जिजीविषेरिति पुरुषव्यत्ययः ।
प्रत्यक्षकृतत्वान्मन्त्रस्य । जीवितुमिच्छेः पथ्यहितमितभक्ष-
णेन । शतं समाः इत्युपलक्षणार्थम् । यावदायुः पर्यवसान
मित्यर्थः । एवम् त्वयि तवेति विभक्तिव्यत्ययः । मुक्तिर-
स्तीति शेषः । नान्यथेतोऽस्ति इतः प्रकारात् अन्यथा मुक्ति ।
र्नास्ति । एतदुक्तं भवति । यथा स्वर्गप्राप्तौ नानाभूताः
प्रकाराः सन्ति न तथा मुक्तावित्यर्थः । ननु कर्मणः फलेन
भवितव्यमथ कथं मुक्तिप्राप्तिरित्येतदाशङ्कयाह । न कर्म
लिप्यते नरे । नहि मुक्त्यर्थं क्रियमाणं कर्म नरे मनुष्ये
संबध्यते । मुक्तिप्रदानेनोपक्षीणशक्तित्वात् । तथाच बृह-
दारण्यकम् ' तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति
यज्ञेन दानेन तपसाऽनाशकेन' इति । विविदिषन्ति वेदितु
मिच्छन्ति । अनेनैतद्दर्शयति यावदिच्छाप्रवृत्तिस्तावत्कर्म-
स्वधिकार इति ॥ २ ॥
 
६०५
 
कुर्वन्नेव जीवितुमिच्छेत् प्रत्यवायपरिहारायेत्यर्थः । तदुक्तम्
'द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो
धर्मो निवृत्तौ च विभाषितः' इति ॥ २ ॥
 
तृतीया ।
 
असुर्या नाम ते लोका अन्धेन॒ तम॒सावृ॑ताः ।
तांस्ते प्रेत्यापि॑गच्छन्ति॒ ये के चत्म॒नो जनः ॥ ३ ॥
 
उ० इदानीं स्वर्गादिप्राप्तिहेतुभूतानि कर्माणि ये कु-
र्वन्ति ते निन्द्यन्ते । असुर्या नामेति । असुर्याः । पर-
मात्मभावमद्वयमपेक्ष्य देवा अप्यसुराः । असुराणां स्व-
भूता असुर्याः एवंसंज्ञकास्ते लोकाः अन्धेन तमसा
अज्ञानलक्षणेन तमसा आवृताः सर्वतोवृताः । तान् लो-
कानू ते जनाः प्रेत्य मृत्वा अपिगच्छन्ति । ये केचात्महनो
जनाः आत्मानं घ्नन्ति ये जनाः ते आत्महनः । आत्मानं च ते
मन्ति ये स्वर्गप्राप्ति हेतूनि कर्माणि कुर्वन्ति । ते हि जनित्वा
त्रियन्ते मृत्वा च जायन्ते । एवमहर्निशं नाशं प्राप्नु-
वन्ति ॥ ३ ॥
 
1
 
म० अथ काम्यकर्मपरान्निन्दति । ये के च ये केचित्
जनाः नराः आत्महनः आत्मानं नन्तीत्यात्महनः अविद्वांसः
काम्यकर्मपराः विद्यमानस्याजरामरस्यात्मनोऽविद्यादोषेण तिर-
स्करणादात्महन्तारः । ते प्रेत्य मृत्वा देहं त्यक्त्वा तान् लोकान्
जन्मानि स्थावरान्तानि अपिगच्छन्ति प्राप्नुवन्ति । तान् कान्
नाम प्रसिद्धम् । ते ये यत्तदोर्व्यत्ययः । ये लोकाः लोक्यन्ते
दृश्यन्ते भुज्यन्ते कर्मफलानि यत्रेति लोका जन्मानि । असुर्याः
असुराणामिमे असूर्याः, असुषु प्राणेषु रमन्तेऽसुराः प्राणपोष -
णपराः । अद्वैतमपेक्ष्य देवा अपि असुराः । कीदृशा लोकाः ।
अन्धेन तमसा अदर्शनात्मकेनाज्ञानेन आवृताः आच्छादिताः ।
अनात्मज्ञाः पुनर्जायन्ते म्रियन्ते चेत्यर्थः ॥ ३ ॥
 
चतुर्थी ।
 
1
 
अने॑ज॒देकं मन॑सो जवी॑यो॒ नैन॑दे॒व आ॑नु॒व॒न्पू-
बेमशैत् । तद्भाव॑ति॒ऽन्यानत्यै॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो
मा॑त॒रिश्वा॑ दधाति ॥ ४ ॥
 
म० आत्मज्ञानाशक्तस्य कर्मोपदेशमाह। कर्माणि अग्नि-
होत्रादीनि निष्कामानि मुक्तिहेतुकानि कुर्वनेवेह लोके शतं
समाः शतवर्षपर्यन्तं जिजीविषेत् । पुरुषव्यत्ययः । लं जिजी-
विषेः जीवितुमिच्छेः । पुरुषायुषः शतवर्षत्वाच्छतग्रहणम् ।
त्वयीति विभक्तिव्यत्ययः। तत्रैवं कर्म कुर्वतो जिजीविषतो मुक्ति-
रस्तीति शेषः । इतः प्रकारादन्यथा प्रकारान्तरेण मुक्तिर्नास्ति । उ० इदानीमधस्तनयमनियमवतां मुमुक्षूणां यथाभूतं
अयमर्थः । स्वर्गादिप्राप्तो यथा नानाप्रकाराः सन्ति न तथा परब्रह्म आत्मत्वेनोपात्यं तदाह । उक्तंच 'अहं ब्रह्मास्मि
मुक्तावित्यर्थः । निष्कामकर्मानुष्ठानेन शुद्धान्तःकरणस्यैव मुक्तिरि- संरुध्य इदं सर्व च मन्मयम् । इयं विद्या समुद्दिष्टा विमु-
त्यर्थः । ननु कर्मणः फलेन भाव्यम्, कथं मुक्तिरित्यत आह । क्तिर्यनिबन्धनी' इति । अनेजदेकम् । त्रिष्टुप् । यत् अनेजत्
न कर्मेति । मुक्त्यर्थं क्रियमाणं कर्म नरे मनुष्ये न लिप्यते न ।अचलत् तस्वमस्ति एकमद्वितीयं विज्ञानघनरूपेण । मनसो
संबध्यते । मुक्तिकारणान्तःकरणशुद्ध्यापादकत्वेनोपक्षीणशक्ति जवीयः । मनस्तावच्छीघ्रं भवति ततोऽपि शीघ्रतरं प्रसवदा-
त्वात् यावदिंच्छा तावत्कर्मस्वधिकार इति दर्शितम् । उत्तरार्ध - नेन कारणभूतत्वात् । नैनद्देवा आप्नुवन् न चैतत्तत्वं देवा अपि
स्वार्थान्तरं वा । एवंप्रकारे त्वयि जिजीविषति नरे नरमात्रा प्राप्तुं शक्ताः । सूक्ष्मत्वात् पूर्वम् भर्शत् । रिशतिहिंसाकर्मा
भिमानिनि इतः एतस्मात्कर्म करणादन्यथा प्रकारान्तरं नास्ति । अविनश्यदास्ते । अनादिनिधनं मित्यर्थः । तद्भावतः तदः स्थाने
येन प्रकारेणाशुभं कर्म न लिप्यते । अतः शास्त्रविहितं कर्म । यदो वृत्तिरुद्देश्यस्वात् । यच्च धावतः अन्यान्पुरुषांदीनस्येति