This page has not been fully proofread.

1

<page>
<ignore>
६०४

</ignore>
<ignore>
शुक्लयजुर्वेदसंहिता ।

</ignore>

छन्दस्यपि दृश्यते'' ( पा० ७।१।७६ ) इत्यस्थिशब्दस्य

हलादिविभक्तावप्यनङादेशः १४, मज्जभ्यः मज्जा षष्ठी धातुः

१६, रेतसे रेतो वीर्यम् १७, पायवे पायुर्गुदम् १८ ॥ १० ॥

<heading>
एकादशी ।
</heading>

आ॒य॒साय॒ स्वाहा॑ प्राय॒साय॒ स्वाहा॑

स्वाहा॑ विद्य॒या॒साय॒ स्वाहा॑हो॑द्य॒या॒साय॒ स्वाहा॑
। शु॒चे
स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोच॑मानाय॒ स्वाहा॒
शोका॑य॒
स्वाहा॑ ॥ ११ ॥

या॒साय॒

। शु॒चे

शोकय॒

उ
भायासायेत्यादयः स्पष्टार्थाः ॥ ११ ॥ १२ ॥ १३ ॥
मैं

म
० आयासाय आयासादयो देवविशेषाः १९, प्रायासाय

२०, संयासाय २१, विवासाय २२, उद्यासाय २३, शुचे २४,

शोचते २५, शोचमानाय २६, शोकाय २७ ॥ ११ ॥

<heading>
द्वादशी ।

</heading>

त
प॑से॒ स्वाहा॒ तप्य॑ते॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ ।

स॒प्ताय॒ स्वाहा॑ घ॒र्माय॒ स्वाहा॑ । निष्कृ॑त्यै॒ स्वाहा॑हा॒ प्राय॑

श्चित्त्यै॒ स्वाहा॑ भेष॒जाय॒ स्वाहा॑ ॥ १२ ॥

म० तपसे २८, तप्यते २९, तप्यमानाय ३०, तप्ताय

३१, घर्माय ३२, निष्कृत्यै ३३, प्रायश्चित्यै ३४, भेषजाय

३५ ॥ १२ ॥

<heading>
त्रयोदशी ।

</heading>

य॒माय॒ स्वाहा॑ाहान्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॒ ब्रह्म॑णे

स्वाहा॑ ब्र॒ह्म॒ह॒त्यायै॒ स्वाहा॑ । विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॒

द्यावा॑पृथि॒वीभ्या॒ स्वाहा॑ ॥ १३ ॥

<trailer>
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां

एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥

</trailer>
<trailer>इति उ<flag>वं</flag>टकृतौ मन्त्रमाष्ये एकोन
चत्वारिंशोऽध्यायः ॥ ३९ ॥</trailer>

म० यमाय ३६, अन्तकाय ३७, मृत्यवे ३८, ब्रह्मणे ३९,
ब्रह्महत्याये
४०]

, विश्वेभ्यो देवेभ्यः ४१, एतेभ्यो देवेभ्यः
सुहुतमस्तु । एता आहुतीर्हुत्वा द्यावापृथिवीभ्यः स्वाहेत्यन्त्या-
माहुतिं जुहुयात् ४२ । एतावता कर्मकाण्डं समाप्तम् ॥ १३ ॥

श्रीमन्महीधरकृते वेददीपे मनोहरे ।
गतोऽध्याय उपान्त्योऽयं प्रोक्तधर्मादिनिष्कृतिः ॥ ३९ ॥

<heading>चत्वारिंशोऽध्यायः ।</heading>
<heading>तत्र प्रथमा ।</heading>

ई॒शा वा॒स्य॒मि॒दᳪं् सर्वं॒ यत्किंच॒ जग॑त्यां॒ जग॑त् ।
तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑स्वि॒द्धन॑म् ॥ १ ॥

<note>TODO below this line</note>

ईशावास्यम् । तिस्रोऽनुष्टुभः । दध्यड्डाथर्वण ऋषिः स्वशिष्यं

पुत्रं वा गर्भाधानादिभिः संस्कारैः संस्कृत शरीरमधीतवेदमु-

त्पादितपुत्रं यथाशक्ति अनुष्ठितयज्ञमपापं निस्पृहं यमनि-

यमवन्तमतिथिपूजापनीतकिल्बिषं मुमुक्षुमुपसन्नं शिक्षय-

आह । ईशा वास्यम् । इदं सर्वम् ईशा ''ईश ऐश्वर्ये'' तृती-

यान्तस्यैतद्रूपम् । यदीशनेन । वास्यं वसनीयम् ममेदमि-

त्यनया भावनया आच्छादनीयम् । इदं सर्वमक्ष

निर्दिश्यत इति । यत्किंच यत्किंचशब्दो भिन्नक्रमः। किंच । यत्

जगत्यां पृथिव्यां जगत् जङ्गमादि स्वस्वामिसंबन्धाभिल-

क्षितं स्यात् । तेनानेन सर्वेण । त्यक्तेन त्यक्तस्वस्वामिसंब-

न्धेन । भोगान्भुञ्जीथाः अनुभावयस्व । मा गृधः । ''गृधु

अभिकाङ्क्षायाम्'' । माभिकाङ्क्षीः ममेदमिति धियं त्यज ।

कस्यस्विद्धनम् । स्विन्निपातो वितर्कवचनः । कस्य पुनरेतद्धनं

न कस्यचिदपीत्यभिप्रायः । सर्वाण्ययथार्थानि हि द्रव्याण्यु-

त्पद्यन्ते । तद्यथा । स्त्रियमिति अन्यथा भुङ्क्ते अन्यथा पुत्र

अन्यथा प्राघूर्णकः । तथा कटककेयूरादीन्यलंकरणानि अन्यं

चान्यं च पुरुषमुपतिष्ठमानानि दृश्यन्ते । अतः सर्वार्थस्य

यस्य स्वस्वामिसंबन्धः सा त्वविद्या । निःस्पृहस्य योगेऽधि -

कार इति वाक्यार्थः ॥ १ ॥

<verse>
गणेशनरहरिलक्ष्मीर्नत्वा तत्कृपया मया ।

संहिताचरमाध्याये वेददीपो वितन्यते ॥

</verse>

म० एकोनचत्वारिंशताध्यायैः कर्मकाण्डं निरूपितम् ।

इदानीं कर्माचरणशुद्धान्तःकरणं प्रति ज्ञानकाण्डमेकेनाध्यायेन

निरूप्यते । ईशावास्यमित्यादिमन्त्राणां कर्मसु विनियोगो नास्ति

तेषां शुद्धत्वैकत्वापापविद्धत्वाशरीरत्व सर्वगतत्वाद्यात्मयाथात्म्य-

प्रतिपादनात् । तच्च कर्मणा विरुध्यते । नहीदृगात्मोत्पाद्यो -

विकार्य आप्यः संस्कार्यः कर्ता भोक्ता वा भवेद्येन कर्मशेषता

स्यात् । तस्मादविद्याकृतमात्मनोऽनेकत्व कर्तृत्व भोक्तृत्वाशुद्धत्व -

पापविद्धत्वाद्यङ्गीकृत्य लोकबुद्धिसिद्धानि कर्माणि विहितानि ।

यो हि दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना कर्मफलेनार्थी

सन्नहं द्विजातिः कर्माधिकारवानित्यात्मानं मन्यते तस्य कर्मा-

धिकारः । तस्मादेते मन्त्रा आत्मयाथात्म्य प्रकाशनेन शोकमो-

हादिसाधनमज्ञानं विनिवर्त्यत्मज्ञानं जनयन्तीत्यभिधेयसंबन्ध-

प्रयोजनानि । इदानीं ते मन्त्रा व्याख्यायन्ते । ईशा वास्यम् ।

<verse>
आत्मदेवत्य अनुष्टुप्छन्दस्कोऽध्यायो दधीचाथर्वणेन दृष्टः ।

इति उवंटकृतौ मन्त्रमाध्ये एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
म० यमाय ३६, अन्तकाय ३७, मृत्यवे ३८, ब्रह्मणे ३९,
ब्रह्महत्याये ४०, विश्वेभ्यो देवेभ्यः ४१, एतेभ्यो देवेभ्यः
सुहुतमस्तु । एता आहुतीर्हुत्वा द्यावापृथिवीभ्यः स्वाहेत्यन्त्या -
माहुतिं जुहुयात् ४२ । एतावता कर्मकाण्ड समाप्तम् ॥ १३ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
गतोऽध्याय उपान्त्योऽयं प्रोक्तधर्मादिनिष्कृतिः ॥ ३९ ॥
</verse>

गर्भाधानादिसंस्कार संस्कृतमधीतवेदं जनितसुतं यथाशक्ति कृत-

चत्वारिंशोऽध्यायः ।

तत्र प्रथमा ।

ई॒शा वा॒स्य॒मा॒द् सर्व॒ यत्क॑च॒ जग॑त्या॒ जग॑त्
"तेन॑ य॒क्तेन॑ भुञ्जीथा मा गृधः कस्य॑स्व॒द्धन॑म् ॥ १॥

• समासं कर्मकाण्डमिदानीं ज्ञानकाण्डं प्रस्तूयते ।

<ignore>
1

</ignore>

यज्ञं निष्पापं निःस्पृहं यमनियमोपेतं मुमुक्षुमुपसन्नं शिष्यं पुत्रं

वा ऋषिरुपदिशन्नाह । ''ईश ऐश्वर्य'' किप् ईष्ट इतीद ईशिता

परमेश्वरः । स हि सर्वजन्तूनामात्मा सन् सर्वमीष्टे । तेन स्वेना-

मनेशा इदं प्रत्यक्षत दृश्यमानं सर्वं वास्यम् ''वस आच्छा.

दने ''हलोथेत्'' ( पा० ३ । १ । १२४ ) इति व्यत्प्रत्ययः ।

आच्छादनीयं परमात्माहमेवेदं सर्वमिति परमार्थसत्यरूपेणा-

त्मना सर्वमिदमनृतमाच्छादनीयम् । परमात्माहमेवास्मि नान्य-

</page>