This page has not been fully proofread.

1
 
६०४
 
शुक्लयजुर्वेदसंहिता ।
 
'छन्दस्यपि दृश्यते' ( पा० ७।१।७६ ) इत्यस्थिशब्दस्य
हलादिविभक्तावप्यनङादेशः १४, मज्जभ्यः मज्जा षष्ठी धातुः
१६, रेतसे रेतो वीर्यम् १७, पायवे पायुर्गुदम् १८ ॥ १० ॥
एकादशी ।
आ॒य॒साय॒ स्वाहा॑ प्राय॒साय॒ स्वाहा॑
स्वाहा॑ विद्य॒साय॒ स्वाहा॑द्य॒साय॒ स्वाहा॑
स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोच॑मानाय॒ स्वाहा॒
स्वाहा॑ ॥ ११ ॥
 
या॒साय॒
 
। शु॒चे
 
शोकय॒
 
ॐ० भायासायेत्यादयः स्पष्टार्थाः ॥ ११ ॥ १२ ॥ १३ ॥
मैं ० आयासाय आयासादयो देवविशेषाः १९, प्रायासाय
२०, संयासाय २१, विवासाय २२, उद्यासाय २३, शुचे २४,
शोचते २५, शोचमानाय २६, शोकाय २७ ॥ ११ ॥
 
द्वादशी ।
 
सप॑से॒ स्वाहा॒ तप्य॑ते॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ ।
स॒प्ताय॒ स्वाहा॑ घ॒र्माय॒ स्वाहा॑ । निष्कृ॑त्यै॒ स्वाहा॑हा॒ प्राय॑
श्चित्त्यै॒ स्वाहा॑ भेष॒जाय॒ स्वाहा॑ ॥ १२ ॥
 
म० तपसे २८, तप्यते २९, तप्यमानाय ३०, तप्ताय
३१, घर्माय ३२, निष्कृत्यै ३३, प्रायश्चित्यै ३४, भेषजाय
३५ ॥ १२ ॥
 
त्रयोदशी ।
 
य॒माय॒ स्वाहा॑ान्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॒ ब्रह्म॑णे
स्वाहा॑ ब्र॒ह्म॒ह॒त्यायै॒ स्वाहा॑ । विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॒
द्यावा॑पृथि॒वीभ्या॒ स्वाहा॑ ॥ १३ ॥
 
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां
 
एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
 

 
चत्वारिंशोऽध्यायः ४०]
 
ईशावास्यम् । तिस्रोऽनुष्टुभः । दध्यड्डाथर्वण ऋषिः स्वशिष्यं
पुत्रं वा गर्भाधानादिभिः संस्कारैः संस्कृत शरीरमधीतवेदमु-
त्पादितपुत्रं यथाशक्ति अनुष्ठितयज्ञमपापं निस्पृहं यमनि-
यमवन्तमतिथिपूजापनीतकिल्बिषं मुमुक्षुमुपसन्नं शिक्षय-
आह । ईशा वास्यम् । इदं सर्वम् ईशा 'ईश ऐश्वर्ये' तृती-
यान्तस्यैतद्रूपम् । यदीशनेन । वास्यं वसनीयम् ममेदमि-
त्यनया भावनया आच्छादनीयम् । इदं सर्वमक्ष
निर्दिश्यत इति । यत्किंच यत्किंचशब्दो भिन्नक्रमः। किंच । यत्
जगत्यां पृथिव्यां जगत् जङ्गमादि स्वस्वामिसंबन्धाभिल-
क्षितं स्यात् । तेनानेन सर्वेण । त्यक्तेन त्यक्तस्वस्वामिसंब-
न्धेन । भोगान्भुञ्जीथाः अनुभावयस्व । मा गृधः । 'गृधु
अभिकाङ्क्षायाम्' । माभिकाङ्क्षीः ममेदमिति धियं त्यज ।
कस्यस्विद्धनम् । स्विन्निपातो वितर्कवचनः । कस्य पुनरेतद्धनं
न कस्यचिदपीत्यभिप्रायः । सर्वाण्ययथार्थानि हि द्रव्याण्यु-
त्पद्यन्ते । तद्यथा । स्त्रियमिति अन्यथा भुङ्क्ते अन्यथा पुत्र
अन्यथा प्राघूर्णकः । तथा कटककेयूरादीन्यलंकरणानि अन्यं
चान्यं च पुरुषमुपतिष्ठमानानि दृश्यन्ते । अतः सर्वार्थस्य
यस्य स्वस्वामिसंबन्धः सा त्वविद्या । निःस्पृहस्य योगेऽधि -
कार इति वाक्यार्थः ॥ १ ॥
 
गणेशनरहरिलक्ष्मीर्नत्वा तत्कृपया मया ।
संहिताचरमाध्याये वेददीपो वितन्यते ॥
 
म० एकोनचत्वारिंशताध्यायैः कर्मकाण्डं निरूपितम् ।
इदानीं कर्माचरणशुद्धान्तःकरणं प्रति ज्ञानकाण्डमेकेनाध्यायेन
निरूप्यते । ईशावास्यमित्यादिमन्त्राणां कर्मसु विनियोगो नास्ति
तेषां शुद्धत्वैकत्वापापविद्धत्वाशरीरत्व सर्वगतत्वाद्यात्मयाथात्म्य-
प्रतिपादनात् । तच्च कर्मणा विरुध्यते । नहीदृगात्मोत्पाद्यो -
विकार्य आप्यः संस्कार्यः कर्ता भोक्ता वा भवेद्येन कर्मशेषता
स्यात् । तस्मादविद्याकृतमात्मनोऽनेकत्व कर्तृत्व भोक्तृत्वाशुद्धत्व -
पापविद्धत्वाद्यङ्गीकृत्य लोकबुद्धिसिद्धानि कर्माणि विहितानि ।
यो हि दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना कर्मफलेनार्थी
सन्नहं द्विजातिः कर्माधिकारवानित्यात्मानं मन्यते तस्य कर्मा-
धिकारः । तस्मादेते मन्त्रा आत्मयाथात्म्य प्रकाशनेन शोकमो-
हादिसाधनमज्ञानं विनिवर्त्यत्मज्ञानं जनयन्तीत्यभिधेयसंबन्ध-
प्रयोजनानि । इदानीं ते मन्त्रा व्याख्यायन्ते । ईशा वास्यम् ।
आत्मदेवत्य अनुष्टुप्छन्दस्कोऽध्यायो दधीचाथर्वणेन दृष्टः ।
 
इति उवंटकृतौ मन्त्रमाध्ये एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
म० यमाय ३६, अन्तकाय ३७, मृत्यवे ३८, ब्रह्मणे ३९,
ब्रह्महत्याये ४०, विश्वेभ्यो देवेभ्यः ४१, एतेभ्यो देवेभ्यः
सुहुतमस्तु । एता आहुतीर्हुत्वा द्यावापृथिवीभ्यः स्वाहेत्यन्त्या -
माहुतिं जुहुयात् ४२ । एतावता कर्मकाण्ड समाप्तम् ॥ १३ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
गतोऽध्याय उपान्त्योऽयं प्रोक्तधर्मादिनिष्कृतिः ॥ ३९ ॥ गर्भाधानादिसंस्कार संस्कृतमधीतवेदं जनितसुतं यथाशक्ति कृत-
 
चत्वारिंशोऽध्यायः ।
 
तत्र प्रथमा ।
 
ई॒शा वा॒स्य॒मा॒द् सर्व॒ यत्क॑च॒ जग॑त्या॒ जग॑त्
"तेन॑ य॒क्तेन॑ भुञ्जीथा मा गृधः कस्य॑स्व॒द्धन॑म् ॥ १॥
• समासं कर्मकाण्डमिदानीं ज्ञानकाण्डं प्रस्तूयते ।
 

 

 
1
 
यज्ञं निष्पापं निःस्पृहं यमनियमोपेतं मुमुक्षुमुपसन्नं शिष्यं पुत्रं
वा ऋषिरुपदिशन्नाह । 'ईश ऐश्वर्य' किप् ईष्ट इतीद ईशिता
परमेश्वरः । स हि सर्वजन्तूनामात्मा सन् सर्वमीष्टे । तेन स्वेना-
मनेशा इदं प्रत्यक्षत दृश्यमानं सर्वं वास्यम् 'वस आच्छा.
दने 'हलोथेत्' ( पा० ३ । १ । १२४ ) इति व्यत्प्रत्ययः ।

आच्छादनीयं परमात्माहमेवेदं सर्वमिति परमार्थसत्यरूपेणा-
त्मना सर्वमिदमनृतमाच्छादनीयम् । परमात्माहमेवास्मि नान्य-