This page has not been fully proofread.

६००
 
शुक्लयजुर्वेदसंहिता ।
 
[ अष्टत्रिंशोऽध्यायः ३८]
 
महान् प्रभावतः । मित्रोन दर्शतः मित्रइव दर्शनीयः । स्थ॒िरे । ताव॑न्त॒मिन्द्र ते॒ ग्रह॑मू॒र्जा गृहा॒म्यक्षि॑तं॒ मयि॑
मित्रो हि सर्वस्यैव मित्रम् । संसूर्येण दिद्युतत् संगत्य सूर्येण गृह्णाम्यक्षितम् ॥ २६ ॥
सह द्योतते समानइव । उदधिः उदकधारणः । निधिश्व
सुखानाम् ॥ २२ ॥
 
म० 'त्रिः परिषिच्याचिक्रददिति' (का० २६ । ७ । १२)।
सामगानान्तरमुत्सादनदेशे परिषिच्य वक्ष्यमाणं करोतीत्यर्थः ।
परोष्णिक् धर्मदेवत्या । घर्मः सूर्यात्मना स्तूयते । वृषा आहु-
तिद्वारेण वृष्टिकर्ता धर्मः प्रवृज्यमानः सन् अचिक्रदत् 'कदि
शब्दे' पुनः पुनः शब्दमकरोत् । कीदृशः । हरिः हरितवर्णः
रसानां हर्ता वा 'एष वै वृषा हरिर्य एष तपत्येष उ प्रवर्ग्यः '
( १४ । ३ । १ । २६ ) इति श्रुतिः । महान् प्रभावान् । मित्रो
न दर्शतः । न उपमार्थः । मित्र इव दर्शनीयः । अतएव
सूर्येण सह दिद्युत्सूर्यतुल्यो द्योतते । द्युतेर्लुङि णिजन्तस्य
रूपमडभावः । सूर्यवत् सर्वं द्योतयतीत्यर्थः । उदधिः उदकं
धीयते यस्मिन् । जलस्य धर्ता निधिः सुखानामिति शेषः ।
सुखनिधिः ॥ २२ ॥
 
त्रयोविंशी ।
 
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रिया -
स्तस्मै॑ सन्तु॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥ २३ ॥
उ० सुमित्रिया न उद्वयमेधोऽसीति व्याख्यातास्त्रयो
मन्त्राः ॥ २३ ॥ २४ ॥ २५ ॥
 
उ० दधिधर्मग्रहणम् । यावती द्यावापृथिवी । महाबृ-
हती ऐन्द्री । यावती यावत्परिमाणे द्यावापृथिव्यौ । यावच्च
क्षेत्रं सप्तसिन्धवः सप्तसमुद्राः वितस्थिरे व्याप्नुवन्ति । ताव-
न्तम् हे इन्द्र, ते तव ग्रहम् ऊर्जा अन्नेन सह गृह्णामि ।
अक्षितमनुपक्षीणं मयि गृह्णामि । मयीत्यधिकरण निर्देशः ।
विज्ञानायेति शेषः । गृह्णामी त्या दिव्याख्यातम् ॥ २६ ॥
 
म० 'यावती द्यावापृथिवी इति दधिधर्मग्रहणम्' ( का०
२ । ६ । ७ । ५४ ) । सपवित्रायामग्निहोत्रहवण्यां दधिघर्मं
गृह्णातीत्यर्थः । ब्राह्मी उष्णिक् दधिधर्मदेवत्या इन्द्रदेवत्या च ।
हे इन्द्र, ऊर्जा अन्नेन सह अक्षितमनुपक्षीणं ते तव ग्रहं तावन्तं
तत्परिमाणमहं गृह्णामि । मयि च अक्षितं यथा स्यात्तथा गृहामि ।
तव ग्रहग्रहणेन मयि यज्ञक्षयो मास्त्वित्यर्थः । तावन्तं किय-
न्तम् । द्यावापृथिवी यावती द्यावाभूमी यत्परिमाणे । च पुनः सप्त
सिन्धवः सप्त समुद्राः क्षीरोदाद्याः यावत् यत्परिमाणे देशे
वितस्थिरे विशेषेण स्थिताः तावन्तमतिमहत्तरं दधिधर्मं
गृहामीत्यर्थः ॥ २६ ॥
 
सप्तविंशी ।
 
मा॑य॒ त्यदि॑न्द्रि॒य॑ बृ॒हन्मय॒ दक्षॊ मय॒ क्रतु॑ः ।
घ॒र्मवि॒शुग्विरा॑जति वि॒राजा॒ ज्योति॑षा स॒ह॒ ब्रह्म॑णा॒
 
म० 'चात्वाले मार्जयन्ते सपत्नीकाः सुमित्रिया न इति' तेज॑सा स॒ह ॥ २७ ॥
 
( का० २६ । ७ । ३७ ) । सपत्नीका ऋत्विग्यजमानाः चात्वाले
मार्जनं कुर्वते । पत्या अपि मन्त्रपाठः व्याख्याता ( अ० ६ ।
क० २२ ) ॥ २३ ॥
 
चतुर्विंशी ।
 

 
उ० भक्षयति । मयि त्यत् पङ्किः यजमानाशीः । मयि
त्यत् तत् इन्द्रियं वीर्यम् बृहत् महत् अस्तु । मयि च
दक्षः संकल्प संपत्तिः अस्तु । मयि च क्रतुः संकल्पः विशि-
 

 
उद्व॒यं तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ उत्त॑रम् । देवं ष्टोऽस्तु । मयि च घर्मः त्रिशुक् तिस्रः शुचोऽस्येति त्रिशुक् ।
दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ २४ ॥
 
म० 'उद्वयमित्युत्क्रामत्युत्तरपूर्वार्धम्' (का० २६ । ७।
३८ ) । ऐशानीं दिशं प्रति यजमानो गच्छतीत्यर्थः ।
व्याख्याता ( अ० २० । क० २१ ) ॥ २४ ॥
 
मयि॑ धेहि ॥ २५ ॥
 
पञ्चविंशी ।
 
1
 
ताश्च व्याख्याताः शाकलमन्त्रेषु । विराजति विराजत्विति
लकारव्यत्ययः । विराजा आदित्याख्येन ज्योतिषा सह
ब्रह्मणा त्रय्याख्येन तेजसा सह ॥ २७ ॥
 
म०
 
'मयि यदिति भक्षणम्' (का० २६ । ७ । ५५ ) ।
हुतशेषं दधिधर्मं यजमानर्त्विजः सोपहवं भक्षयन्तीत्यर्थः । पङ्क्तिः
अष्टाक्षरपञ्चपादा दधिघर्मदेवत्या यजमानाशीर्देवतेति केचित् ।
 
एर्धोऽस्येधिषी॒महि॑ । स॒मिद॑सि॒ तेजऽसि॒ तेजो बृहत् महत् त्यत् तत् इन्द्रियं प्रसिद्धं वीर्यं मयि विराजति
विराजतु लकारव्यत्ययः । दक्षः संकल्पसिद्धिः मयि विराजतु ।
ऋतुः सत्संकल्पो मयि विराजतु । विशेषेण राजते विराट् तेन
जगत्प्रसिद्धेन ज्योतिषा तेजसा आदित्याख्येन सह ब्रह्मणा
त्रयीलक्षणेन ज्योतिषा च सह घर्मो मयि विराजतु । कीदृशो
धर्मः । त्रिशुक् तिस्रः शुचः दीप्तयो यस्य सः तास्तिस्रः शुचो
। या ते धर्म दिव्या शुगित्यष्टादश्यां कण्डिकायां शालाकमन्त्रे
व्याख्याताः ॥ २७ ॥
 
'अनपेक्षमेत्यैधोऽसीति समिधमादायाहवनीयेऽभ्या-
म०
दधाति समिदसीति' ( का० २६ । ७ । ३९ ) । यजमानः
पश्चादनवलोकयन्नीशानदेशादेत्यैधोऽसीति मन्त्रेणैकां समिधं
गृहीत्वा समिदसीति मन्त्रेणाहवनीये दधातीत्यर्थः । मन्त्रद्वयं
व्याख्यातम् ( अ० २० । क० २३ ) ॥ २५ ॥
 
षड्विंशी ।
 
याव॑ती॒ द्यावा॑पृथि॒वी याव॑च्च स॒प्त सिन्ध॑वो वित्त-
 
अष्टविंशी ।
 
पय॑सो॒ रेत॒ आभृ॑तं॒ तस्य॒ दोह॑मशीम॒द्युत्त॑रामु-