This page has not been fully proofread.

उवटभाष्य - महीधरभाष्यसंवलिता ।
 
या ते हे धर्म, पृथिव्यां शुक् जगत्यां छन्दसि प्रविष्टा । कीदृशी ।
सदस्या सदसि प्रविष्टा यज्ञगृहे स्थिता सा त इत्युक्तम् ॥१८॥
 
एकोनविंशी ।
 
५९९
 
दनुग्रहात्मकं यस्य स तथोक्तः । तस्य कर्म वयं सेवामहे
सायुज्यं प्राप्ताः सन्तः ॥ २० ॥
 
म० 'नाभिस्पृशं प्रवृञ्जनीयं निदधाति चतुःस्रक्तिरिति' ।
क्ष॒त्रस्य॑ त्वा प॒रस्ता॑य॒ ब्रह्म॑णस्त॒न्व॑ पाहि । विश॑स्त्वा॒ - ( का० २६ । ४ । १४ ) प्रवृञ्जनीयं महावीरमुत्तरवेदौ नाभि-
लग्नं स्थापयतीत्यर्थः । महाबृहती धर्मदेवत्या । स घर्मो नोs -
धर्म॑णा व॒यमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से ॥ १९ ॥
स्माकं सर्वायुरस्तु सर्वं पूर्णमायुर्यस्मात्स सर्वायुः । पूर्णायुः प्रदो -
उ० निष्क्रामति । क्षन्त्रस्य त्वा महावीरोऽभिधीयते ऽस्त्वित्यर्थः । पुनरुक्तिरादरार्था । कीदृशः सः । चतुःस्रक्तिः
बृहत्या । क्षत्रस्य संबन्धिनः परस्पाय परस्य पालनाय ।
चतस्रः स्रुक्तयः कोणा दिनूपा यस्य सः । ' एष वै चतुःस्रक्तिर्य
हे महावीर, अनुक्रामामेति चतुर्थपादे भविष्यति तस्येह एष तपति दिशो ह्येतस्य स्रक्तयः' ( १४ । ३ । १ । १७ )
संबन्धः । अनुक्रामाम । किंच ब्रह्मणः तन्वं शरीरं पाहि इति श्रुतेः । तथा ऋतस्य सत्यस्य यज्ञस्य वा नाभिः नहनं
गोपाय । किंच विशः । यज्ञो वै विशः । यज्ञस्य धर्मणा बन्धनस्थानम् । सप्रथाः सविस्तारः । विश्वायुः विश्वस्य जगतः
धारणेन निमित्तभूतेन त्वा त्वाम् हे महावीर, वयम् अनु- । आयुर्यस्मात् जगत आयुर्दाता । सप्रथाः सर्वतः प्रथयिता च ।
क्रामाम अनुगच्छेम । सुविताय सुगताय सुप्रसूताय वा । हे धर्म, त्वत्प्रसादात् द्वेषः अपगच्छत्विति शेषः । अस्मत्तो
नव्यसे नवतराय च कर्मणे अनुक्रामाम ॥ १९॥
द्वेषः गच्छतु वीतरागाः स्यामेति भावः । 'ह्वर चलने' हरः
चलनं जन्ममरणलक्षणं चास्मत्तोऽपगच्छतु । वयमन्यत्रतस्य
सश्चिम अन्यत् मनुष्यकर्मणः सकाशाद्भिन्नं व्रतं कर्म जगदनु-
ग्रहरूपं यस्य सोऽन्यत्रतः परमात्मा तस्य । कर्मणि षष्ठी । 'सश्च
सेवने' धातुः । अन्यत्रतं परमात्मानं सेवामहे सायुज्यं प्राप्नुम
इति भावः । ' अन्यद्वा एतस्य व्रतमन्यन्मनुष्याणाम्' ( १४ ।
३ । १ । १९ ) इति श्रुतेः ॥ २० ॥
 
म० 'क्षत्राय त्वेति निष्क्रमणं पुरस्तात्पत्नी मन्तर्धाय'
( का० २६ । ७ । ६ ) । होमानन्तरमध्वर्युः पत्नीमग्रे कृत्वा
शालाया निष्क्रामतीत्यर्थः । उपरिष्टादृहती धर्मदेवत्या । हे
घर्म, वयं त्वा त्वामनुक्रामाम अनुगच्छाम । त्वं ब्रह्मणः तन्वं
शरीरं पाहि पालय । किमर्थमनुगमनम् । क्षत्रस्य क्षत्रियस्य
देवस्य सूर्यस्य परस्पाय परमपालनाय । परः शब्दोऽव्ययम् ।
पर उत्कृष्टं पायते रक्ष्यत इति परस्पं तस्मै । 'एतद् वै दैवं क्षत्रं
य एष तपति' ( १४ । ३ । १ । ९ ) इति श्रुतेः । किंच विशः
यज्ञस्य धर्मणा धारणेन निमित्तेन वयं त्वामनुक्रामाम 'यज्ञो वै
विट्ज्ञस्य त्वारिष्ट्यै' ( १४ । ३ । १ । ९ ) इति श्रुतेः । किम-
थंम् । नव्यसे सुविताय नवीयसे नूतनाय सुगताय सुप्रसूताय
कर्मणे कर्मसिद्ध्यर्थं त्वामनुगच्छामेत्यर्थः । सुष्ठु इतं सुवितम्
'इण् गतौ' क्तः उपसर्गस्योवङादेशः । यद्वा 'धू प्रेरणे' सूयते
प्रेर्यते सुवितम् इडागमे धातोरुवङ् ॥ १९ ॥
 
विंशी ।
 
चर्तुःस्रुक्ति॒र्नाभि॑त्र॒तस्य॑ स॒प्रथा॒ स नो॑ वि॒श्वायु॑ः
स॒प्रथाः स नः॑ स॒र्वार्युः स॒प्रथा॑ः । अप॒ द्वेषो॒
ह्नरो॒ ऽन्यत्र॑तस्य सश्चिम ॥ २० ॥
 
अप॒
 
उ० महावीरं निदधाति । चतुःस्रक्तिः । दिशो महावी-
रस्य स्रक्तयः कोणः । यः चतुःस्रक्तिः । यश्च नाभिः नहनम्
ऋतस्य सत्यस्य वा यज्ञस्य वा । एवं सप्रथाः सर्वतः पृथुः ।
सः नः अस्माकम् विश्वायुः सर्वस्थायुषः दाता । सप्रथाः
सर्वतश्च प्रथयिता अस्तु । स नः सर्वायुः सप्रथाः । अभ्यासे
भूयांसमर्थं मम्यन्ते । त्वत्प्रसादाच्च अपद्वेषः अपगच्छतु द्वेषः
 
अस्मत्तः । वीतरागाः स्यामेत्यभिप्रायः । अपह्वरः । 'हर
झल चलने' । अपगच्छतु हरः चलनम् अस्मत्तः । जनित्वा
म्रियते मृत्वा जायते इत्येतच्चलनमभिप्रेतम् । अन्यत्रतस्य
सश्चिम अन्यत् व्रतं कर्म यस्य मनुष्यकर्मणः सकाशाज्जग-
 
एकविंशी ।
 
घर्मैतत्ते॒ पुरी॑षं॒ तेन॒ वर्ध॑स्व॒ चा च॑ प्यायस्व ।
व॒र्धष॒महि॑ च व॒यमा च॑ प्यासिषीमहि ॥ २१ ॥
 
उ० पयसा पूरयति । धर्मैतत् । अनुष्टुप् । धर्म उच्यते ।
हे धर्म, एतत् पयः ते तव पुरीषं पूरयितृ । तेन वर्धस्वे-
।त्यादिव्याख्यातम् ॥ २१ ॥
 

 
म०
 
-
 
'आसेचनवन्ति पयसः पूरयति घर्मैतत्त इति' ( का०
२६ । ७ । ३२ ) । आसेचनं गर्तः तद्युतानि पात्राणि दुग्धेन
पूरयति तानि सप्त महावीरत्रयं द्वे पिन्वने उपयमन
त्यर्थः । अनुष्टुप् धर्मदेवत्या । हे धर्म, एतत्पयः ते तव पुरी-
षम् पृणाति पूरयति पुरीषं पूरयितृ अन्नम् 'अन्नं वै पुरीषमन्न-
मेवास्मिन्नेतद्दधाति' ( १४ । ३ । १ । २३ ) इति श्रुतेः । तेन
पयसा वर्धख आप्यायस्व च । भवत्प्रसादाद्वयं वर्धिषीमहि आप्या-
सिषीमहि चेति व्याख्यातम् ( अ० २ । क० १४ ) ॥ २१ ॥
द्वाविंशी ।
 
अचि॑िक्रद॒द्वृषा॒ हरि॑म॒हान्मि॒त्रो न द॑श॒तः । स-
सूर्येण दिद्युतदुद॒धिनि॑धिः ॥ २२ ॥
 
उ० परिषिञ्चति । अचिक्रदत् परोष्णिक् । धर्मात्मना -
दित्यः स्तूयते । योऽयं महावीरः प्रवृज्यमानः अचिक्रदत् ।
क्रन्दतिः शब्दार्थः । पुनःपुनः शब्दमकरोत् । वृषा वर्षिता
आहुतिपरिणामद्वारेण । हरिः हरितवर्णः हर्ता वा रसानाम्