This page has not been fully proofread.

उवटभाष्य - महीधरभाष्यसंवलिता ।
 
५९७
 
सु॒धर्माऽमे॑न्य॒स्मे नृ॒म्णानि॑ धारय॒ ब्रह्म॑ धारय क्ष॒त्रं ऊ॒र्ध्वबर्हियैः । ऊर्ध्वं प्रागग्रं बर्हिर्येषां त मुच्यते ।
 
धरय॒ विश॑ धारय ॥ १४॥
 
उ० पिन्वमानमनुमन्त्रयते । इषे पिन्वस्व । वृष्टितर्पणाय
विलुषो मुञ्च । एवं ऊर्जे अन्नाय । ब्रह्मणे ब्राह्मणेभ्यः । क्षत्राय
क्षत्रियेभ्यः द्यावापृथिवीभ्यां पिन्वस्वेति । उत्क्रामत्युत्तरपू-
र्वार्धम् । धर्मासि सुधर्म । धर्मासि धारणं समस्तस्य जगतो-
ऽस्याहुतिपरिणामद्वारेण । हे सुधर्म साधुधारणशील, खरे ।
सादयति । अमेनि । 'मीङ् हिंसायाम्' । अहिंसन् अनु-
ध्यन् । अस्मे अस्मासु । नृम्णानि । नृन्नमयन्तीति नृम्णानि
धनानि । धारय स्थापय । ब्रह्म धारय क्षत्रं धारय विशं
धारय त्रैवर्णिकानस्मासु स्थापय ॥ १४ ॥
 
1
 
म० 'इषे पिन्वखेति पिन्वमानमनुमन्त्रयते' ( का०
२६ । ६। ९)। पिन्वमानमतितप्तं धर्ममभिमन्त्रयत इत्यर्थः ।
ऋचां पङ्क्तिः धर्मदेवत्या । हे पिन्वमान धर्म, इषे वृष्ट्यै पिन्वस्व ।
पुष्टो भव वृष्ट्यर्थम् । ऊर्जेऽन्नाय पिन्वख अन्नं वर्धय । ब्रह्मणे
ब्राह्मणेभ्यः पिन्वख क्षत्राय क्षत्रियेभ्यः पिन्वख द्यावापृथि-
वीभ्यां पिन्वख । ब्राह्मणक्षत्रिय द्यावापृथिवीस्तर्पयेत्यर्थः ।
'घर्मासीत्युत्क्रामत्युत्तर पूर्वार्धम्' (का० २६ । ६ । १० ) ।
ऐशानीं दिशं प्रत्युत्क्रामतीत्यर्थः । यजुर्गायत्री धर्मदेवत्या । हे
धर्म, हे सुधर्म, सुष्ठु धारयतीति सुधर्मः हे साधुधरणशील, वं
धर्मः असि सर्वजगतो धारणमसि आहुतिपरिणामद्वारेण सर्वं
धरसीत्यर्थः । 'अमेन्यस्मे इति खरे करोति' ( का० २६ ।
६ । ११ ) । महावीरं खरे आसादयतीत्यर्थः । ऋग्बृहती
घर्मदेवत्या । हे धर्म, अमेनि 'मिञ् हिंसायां' मिनोति हिन-
स्तीति मेनिः न मेनिरमेनिः 'सुपां सुलुक्' (पा०७ । १ । ३९)
सुलोपः । अमेनिः अहिंसन् अक्रुध्यन् सन् अस्मे अस्मासु
नृम्णानि धनानि धारय स्थापय । नृन्नमयतीति नृम्णम् 'अकु
ध्यन्नो धनानि धारय' ( १४ । २ । २ । ३० ) इति श्रुतिः
ब्रह्म क्षत्रं विशं च धारय । विप्रादीनस्मद्वशान्कुर्वित्यर्थः ॥१४॥
पञ्चदशी ।
 
स्वाहा॑ पू॒ष्णोः॒ शर॑से॒ स्वाहा॒ प्राव॑भ्य॒ स्वाहा॑ प्रति-
र॒वेभ्य॑ः । स्वाहा॑ पि॒तृभ्य॑ ऊ॒र्ध्वव॑र्हिभ्यो॑ धर्मपा-
 
I
 
व॑भ्यः॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ स्वाहा॒ विश्वे॑भ्यो
दे॒वेभ्यः॑ ॥ १५ ॥
 

 
सोमपा ह्येत इत्यर्थः । धर्मपावभ्यः धर्मपातृभ्यः । स्वाहा
द्यावापृथिवीभ्याम् । प्राणोदानौ वै द्यावापृथिवी । स्वाहा
विश्वेभ्यो देवेभ्यः । प्राणो वै विश्वेदेवाः ॥ १५ ॥
 
म० 'विकङ्कतशकलैर्जुहोति धर्मे न्यज्य न्यज्य स्वाहा
पूष्णे शरस इति प्रतिमन्त्रम् ' (का० २६ । ६ । १२ ) । घर्मे
नितरामक्त्वा विकङ्कतशकलैर्घर्माज्यं जुहोति स्वाहा पूष्ण
प्रतिमन्त्रमित्यर्थः । सप्त लिङ्गोक्तदेवतानि यजूंषि । शरःशब्दो
दध्युपरिस्थस्नेहवाचकः अत्र तु स्नेहमात्रवाची । शरसे स्नेहकर्त्रे
पूष्णे वाताय प्राणरूपाय स्वाहा सुहुतमस्तु । 'अवरं स्वाहा-
कारं करोति परां देवताम्' ( १४ । २ । २ । ३२ ) इति श्रुते-
रादौ स्वाहाकारस्ततो देवतापदानि । 'अयं वै पूषा योऽयं
पवत एष हीदं सर्वं पुष्यत्येष उ प्राणः प्राणमेवास्मिन्नेतद्द-
धाति' ( १४ । २ । २ । ३२ ) इति श्रुतिः । गृह्णन्ति ते प्रा-
वाणः प्राणा विषयग्रहणशीलाः तेभ्यः स्वाहा 'प्राणा वै ग्रावाणः
प्राणानेवास्मिन्नेतद्दधाति' ( १४ । २ । २ । ३३) इति श्रुतिः ।
 
प्रतिरुवन्ति शब्दं कुर्वन्ति प्रतिरमन्ते वा यान् प्राप्येति प्रति-
रवाः तेभ्यः स्वाहा 'प्राणा वै प्रतिरवाः प्राणान्हीदं सर्व
प्रतिरतम्' (१४ । २ । २ । ३४ ) इति श्रुतिः । 'चतुर्थमहुत-
मुदङ्ङीक्षमाणो दक्षिणतो बर्हिष्युपगूहति' ( का० २६ । ६ ।
१४ ) । चतुर्थं शकलमहुतमेवोदीचीं पश्यन् वेदेः दक्षिण-
भागे आतिथ्या बर्हिषि प्रवेशयतीत्यर्थः । पितृभ्यः स्वाहा ।
कीदृशेभ्यः । ऊर्ध्वबर्हिर्भ्यः ऊर्ध्व प्रागमं बर्हिर्येषां ते ऊर्ध्वब-
हिंषः तेभ्यः । सोमपाभ्य इत्यर्थः । तथा घर्मपावभ्यः घर्म
पिबन्ति धर्मपावानः तेभ्यः स्वाहा । द्यावापृथिवीशब्देन प्रा-
गोदानावुच्येते ताभ्यां सुहुतमस्तु । 'प्राणोदानौ वै द्यावापृथिवी
प्राणोदानावेवास्मिन्नेतद्दधाति' ( १४ । २ । २ । ३६ ) इति
श्रुतिः । विश्वेभ्यो देवेभ्यः स्वाहा । 'प्राणा वै विश्वेदेवाः प्राणा-
नैवास्मिन्नेतद्दधाति' (१४ । २ । २ । ३७) इति श्रुतिः ॥ १५ ॥
षोडशी ।
 
I
 
स्वाहा॑ रु॒द्राय॑ रु॒द्रहु॑तये॒ स्वाहा॒ सं ज्योति॑षा॒
ज्योति॑ः । अह॑ः के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒
स्वाहा॑ । रात्रैः के॒तुना॑ जुषता सु॒ज्योति॒ज्र्ज्योति॑षा॒
स्वाहा॑ । मधु॑ ह॒तमिन्द्र॑तमे॑ अ॒ग्नाव॒श्याम॑ ते देव घर्म
नर्मस्
अस्तु मा म हिसीः ॥ १६ ॥
 
उ० शकलैर्जुहोति । स्वाहा पूष्णे । 'अयं वै
पूषा योयं
पवत एष हीदं सर्व पुष्यत्येष उ प्राणः प्राणमेवास्मिन्नि- उ० स्वाहा रुद्राय रुद्रद्भूतये । रुद्र इति स्तोतृनामसु
दधाति' इत्येतदुक्तम् । शरसे । अस्ति शरः शब्दः काण्ड- पठितम् । रुद्वैः स्तोतृभिराहूयते स रुद्रहूति: महावीरादुप-
वचनः अस्ति च सान्तः । दन उपरि स्नेहः शर इति यमन्यां प्रत्यानयति । स्वाहा संज्योतिषा ज्योतिः स्वाहा
यजमानाः प्राहुस्तदभिप्रायेणैतदुच्यते । स्वाहा प्रावभ्यः संगच्छतां ज्योतिषा ज्योतिः । 'ज्योतिर्वा इतरस्मिन्वायौ
प्राणेभ्यः विषयग्रहणशीलेभ्यः । स्वाहा प्रतिरवेभ्यः । भवति ज्योतिरितरस्याम्' इति श्रुतिः । अहः केतुना रात्रिः
प्राणाः प्रतिरवाः तान्प्राप्य सर्व जगद्रमते । स्वाहा पितृभ्यः । केतुना इति च व्याख्यातम् । भक्षयति मधु हुतम् यस्मान्मधु