This page has not been fully proofread.

1
 
५९६
 
शुक्लयजुर्वेदसंहिता ।
 
[ अष्टत्रिंशोऽध्यायः ३८ ]
 
;
 
विश्वान् सर्वान्देवान् अयाद । यजतेरेतद्रूपम् । अयाक्षीत् तन्तुनालिखि सूत्रपूरणाय एति त्रींल्लोकान् स तत्रायी
इष्टवान् इह स्थितः । दक्षिणतो हि स्थित आहुतीर्जुहोति । आदित्यः तस्मै नमः । उत्तरत्राप्यनुषङ्गः । द्यावापृथिवीभ्यां
आहुतिश्च यज्ञः । यत एवमतो ब्रवीमि । दक्षिणतोऽग्नेर । नमः अस्तु ॥ १२ ॥
स्माभिः स्वाहाकृतस्य वषट्कारानन्तरं स्वाहाकृतस्य धर्मस्य
मधोः पिबतं मध्वास्वादस्य पिबतम् अश्विनौ ॥ १० ॥
 
म० ' वषट्कृते जुहोति विश्वा आशा इति' ( का० २६ ।
६ । ४ ) । वषट्कृते सति धर्मं जुहोतीत्यर्थः । अश्विदेवत्या
नुष्टुप् । इह यज्ञे दक्षिणसत् दक्षिणस्यां दिशि सीदति तिष्ठति
दक्षिणसत् । सर्वनाम्नो वृत्रिमात्रे पुंवद्भावः । दक्षिणतः स्थितो-
ऽध्वर्युर्विश्वाः सर्वाः आशाः दिशो विश्वान् सर्वान् देवान् च
अयाट् अयाक्षीत् । यजेर्लुङि च्लेर्लोपे रूपम् । इष्टवान् दक्षिणतः
स्थितो ह्याहुतीर्जुहोति । अतो ब्रवीमि हे अश्विना अश्विनौ,
स्वाहाकृतस्य वषट्कारानन्तरं हुतस्य मधोर्मधुरास्वादस्य धर्मं
युवां पिबतम् । कर्मणि षष्टी ॥ १० ॥
 
एकादशी ।
 
म० 'अश्विना घर्ममिति ब्रह्मानुमन्त्रयते' ( का० २६ ।
६ । ७ ) । ब्रह्मा धर्ममभिमन्त्रयत इत्यर्थः । स्वराडुष्णिक् ।
अश्विनावादित्यो द्यावापृथिव्यौ च देवताः । हे अश्विना अश्विनौ,
युवां घर्मं पातं पिबतम् । काभिः । ऊतिभिरवनैर्निमित्तैः । अवनं
कृत्वा पिबतमित्यर्थः । कीदृशीभिरूतिभिः । अहर्दिवाभिः ।
अहः शब्देन प्रातः कालः दिवाशब्देन सायंकालः । प्रातः सायंका-
लोपलक्षिताभिः । प्रवर्ग्यकालः स एव यतः । कीदृशं धर्मम् ।
हार्द्धानम् ' वा गतिगन्धनयो:' ल्युट् । हृदि वानं गमनं यस्य स
हृद्वान: हृद्वान एव हार्द्रानस्तम् । स्वार्थेऽण् । हृदयप्रियमित्यर्थः।
एवं धर्मपानायाश्विनौ संप्रार्थ्य तत्साहाय्याय सूर्यादीन्नमति ।
तन्त्रायिणे नमः तन्यते तन्त्रम् पटरचनाय तुरीशलाकाप्रोता-
स्तन्तवस्तन्त्रमुच्यते तद्वन्नभसि कालचक्रमपि तन्त्रमुच्यते । तथा
चाभिधानम् 'तन्त्रे राष्ट्रे परच्छन्दाप्रधानयोः । अगदे कुटुम्ब -
 
दि॒वि धा॑ इ॒मं य॒ज्ञमि॒मं य॒ज्ञं दि॒वि धः । स्वाहा॒ कृत्ये तन्तुवाने परिच्छदे । श्रुतिशाखान्तरे शास्त्रे करणे व्यर्थ-
ग्नये॑ य॒ज्ञिया॑य॒ शं यजु॑र्भ्यः ॥ ११ ॥
 
उ० त्रिरुकम्पयति । दिवि धाः द्युलोके स्थापय इमं
यज्ञं । इमं यज्ञं दिविधाः । ' अभ्यासे भूयांसमर्थ मन्यन्ते'
अनुवपदकृते जुहोति । स्वाहा ये सुहुतमस्तु अग्नये । यज्ञि-
या यज्ञहिताय । शं सुखं च यजुर्भ्यः सकाशात् अस्माक-
मस्त्विति शेषः । यद्वा शं यजुभ्य देहि ॥ ११ ॥
 
म० 'दिविधा इति त्रिरुत्कम्पयति' ( का० २६ । ६ ।
५) । महावीरं त्रिरूर्ध्वं कम्पयति सकृन्मन्त्रेण द्विस्तूष्णीमिति
सूत्रार्थः। यजुर्धर्मदेवत्यं सामोष्णिकू । हे महावीर, इमं
मदीयं यज्ञं त्वं दिवि द्युलोके धाः धेहि स्थापय । इमं यज्ञं
दिवि धा इति पुनरुक्तिरादरार्था । 'अभ्यासे भूयांसमर्थं मन्यन्ते'
( निरु० १० । ४२ ) इति वचनात् । 'स्वाहाम्नय इत्यनुवषट्-
कृते' ( का० २६ । ६ । ६ ) । अनुवषट् स्वाहेति मन्त्रेण धर्म
जुहोतीत्यर्थः । यज्ञियाय यज्ञहितायामये स्वाहा सुहुतमस्तु ।
यजुर्भ्यः सकाशात् अस्माकं शं सुखमस्तु ॥ ११ ॥
 
द्वादशी ।
 
साधके । इतिकर्तव्यतातन्त्वोः ' इति । तन्त्रे कालचक्रे एति
निरन्तरं गच्छति तन्त्राय तस्मै आदित्याय नमोऽस्तु 'एष वै
तन्त्रायी य एप तपत्येष ही माँल्लोकांस्तन्त्रमिवानुसंचरति' (१४
२ । २ । २२ ) इति श्रुतेः । द्यावापृथिवीभ्यामुभाभ्यां
लोकाभ्यां तदधिष्ठात्रीभ्यां नमः ॥ १२ ॥
 
त्रयोदशी ।
 
अपा॑ताम॒श्विना॑ घ॒र्ममनु॒ द्यावा॑पृथि॒वी अ॑म-
साताम् । इ॒हैव रा॒तयः सन्तु ॥ १३ ॥
 
उ० यजमानोऽनुमन्त्रयते । अपाताम् । आश्विनी ककुप् ।
अपातां पीतवन्तौ अश्विनौ घर्मम् । अनु द्यावापृथिवी अमं-
साताम् । तच्च धर्मपानमश्विनोः द्यावापृथिवी अपि अमं-
साताम् अनुमतवत्यौ साध्वभूदिति । यतएवमतो ब्रवीमि ।
इह एव अवस्थितानामस्माकं रातयः धनानि सन्तु ॥ १३ ॥
 
म० 'अपातामिति यजमानः' ( का० २६ । ६ । ८ ) ।
यजमानः धर्ममभिमन्त्रयत इत्यर्थः । ककुवुष्णिक् अश्विदेवत्या
मध्यमः पादो द्वादशार्णः आद्यन्तावष्टाणौ सा ककुप् । मध्यम-
 
अश्विना घ॒र्म पा॑त॒ हाद्वन॒मह॑र्दे॒वाभि॑रू॒तिभि॑ः । चेककुवित्युक्तेः । अश्विना घर्ममपातामपिवतां लुङ् । यावा -
तत्रा॒ायिणे॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ॥ १२ ॥
 
उ० ब्रह्मानुमन्त्रयते । अश्विना घर्मम् । उष्णिगाश्विनी ।
हे अश्विनौ, धर्मं पातं पिबतम् । हार्द्धानं हृदयस्य प्रियम् ।
हृदयं वा योऽनुवर्तते अहर्दिवाभिः । अहः शब्दः पूर्वाह्न -
वचनः दिवाशब्दस्तु सायाह्नवचनः । स हि प्रवर्ग्याय
कालः । एतत्कालोपलक्षिताभिः ऊतिभिः अवनेर्निमित्त
भूतैः । तत्रायिणे नमो द्यावापृथिवीभ्याम् । तत्रायिणे लोके
ये प्रसारिताः तन्तवः तुरीशलाकाप्रोताः ते तत्रमित्युच्यन्ते ।
 
पृथिवी अन्वमंसातामनुमतवत्यौ । साधु कृतमिति अनुमेनाते
इत्यर्थः । अत एवाश्व्यादिप्रसादात् इहैवास्मद्गृहे स्थितानाम-
स्माकं रातयो धनानि सन्तु 'इहैव रातयः सन्त्वितीहैब नो
धनानि सन्त्वित्येवैतदाह' ( १४ । २ । २ । २६ ) इति
श्रुतेः ॥ १३ ॥
 
चतुर्दशी ।
 
इ॒षे पि॑न्वस्व॒ोर्जे पि॑न्वस्व॒ ब्रह्म॑णे पिन्वस्व क्ष॒त्राय॑
पिन्वस्व॒ द्यावा॑पृथि॒वीभ्यां॑ पिन्वस्व । घर सि