2026-02-20 06:10:14 by ambuda-bot
This page has not been fully proofread.
उवटभाष्य - महीघरभाप्यसंवलिता ।
द्वायत्वेति । 'एतस्माद्वै समुद्रात्सर्वाणि भूतानि समुद्रवन्ति'
इति समुद्रो वातः । समुद्राय त्वां हे प्रवर्ग्य, वाताय स्वाहा
जुहोमि । इयमेवोत्तरत्रापि योजना । सरिराय । एतस्मात्स-
रिरात्सर्वाणि भूतानि लब्धकार्याणि सन्ति । सह ईरते
गच्छति । अनाधृष्याय अशक्याय आधर्षितुम् । अप्रतिष्ट-
care अशक्याय प्रतिघर्षितुम् । अवस्यवे अवनशीलाय ।
अशिमिदाय । शिमीति कर्मनाम । क्लेशात्मकं चैतत् ।
अक्लेशदाय ॥ ७ ॥
५९५
रुद्रवान् तस्मै वसुयुताय रुद्रयुतायेन्द्राय वाताय हे धर्म, वां
स्वाहा जुहोमि 'अयं वा इन्द्रो योऽयं पवते' (१४ । २ । २ । ६)
इति श्रुतेः । आदित्या विद्यन्ते यस्य स आदित्यवान् तस्मै
आदित्ययुक्तायेन्द्राय वाताय स्वाहा । अभिमातीन्सपत्नान्
हन्तीत्यभिमातिहा । ' सपत्नो वा अभिमातिः ' ( १४ । २ ।
२ । ८ ) इति श्रुतेः । शत्रुनाशकायेन्द्राय वाताय त्वां जुहोमि ।
सूते स सविता तस्मै चेष्टयत्रे वाताय त्वां जुहोमि । 'अयं वै
सविता योऽयं पवते' ( १४ । २ । २ । ९ ) इति श्रुतेः ।
कीदृशाय । ऋभुमते ऋभुरस्यास्ति ऋभुमान् विभुरस्यास्ति विभु-
मान् वाजोऽस्यास्ति वाजवान् । आङ्गिरसस्य सुधन्वनस्त्रयः पुत्रा
ऋभुविभुवाजास्तद्युक्ताय वाताय । बृहस्पतये बृहतां महतां
पतिर्वातस्तस्मै 'अयं वै बृहस्पतिर्योऽयं पवते' ( १४ । २ ।
२ । १० ) इति श्रुतेः । कीदृशाय । विश्वदेव्यावते विश्वेषां
देवानां समूहो विश्वदेव्यम् तदस्यास्ति विश्वदेव्यवान् तस्मै ।
'मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ' ( पा० ६ । ३ । १३१ )
नवमी ।
म० 'पैतु ब्रह्मणस्पतिरित्युच्यमाने समुद्राय लेति वात-
नामानि जपति गच्छन्नाहवनीयम्' (का० २६ । ६ । १ ) ।
पैत्विति होत्रोच्यमाने आहवनीयं प्रति गच्छन्नध्वर्युः समुद्राये-
त्यादीनि द्वादश वातनामानि खरेण जपतीत्यर्थः । द्वादश
यजूंषि वातनामदेवत्यानि । है धर्म, वाताय त्वा त्वां स्वाहा
जुहोमि । कीदृशाय वाताय । समुद्राय समुद्रवन्त्युद्भवन्ति
सर्वाणि भूतानि यस्मात् स समुद्रस्तस्मै 'अयं वै समुद्रो योऽयं
पवत एतस्माद्वै समुद्रात्सर्वे देवाः सर्वाणि भूतानि समुद्रवन्ति । इति दीर्घः । सर्वदैवसहिताय जुहोमि ॥ ८ ॥
तस्मा एवैनं जुहोति' ( १४ । २ । २ । २ ) इति श्रुतेः ।
सरिराय । सह ईरते यच्छन्ति सर्वभूतानि सिद्धार्थानि यस्मात्
सरिरस्तस्मै वाताय धर्म, त्वां जुहोमि । 'अयं वै सरिरो योऽयं
पवत एतस्माद्वै सरिरात्सर्वे देवाः सर्वाणि भूतानि सहेरते'
( १४ । २ । २ । ३ ) इति श्रुतेः । अनाधृष्याय न आध-
र्षितुं पराभवितुं शक्योऽनाधृष्यः तस्मै । अप्रतिधृष्याय न
प्रतिधर्षितुं प्रतियोद्धुं शक्योऽप्रतिधृष्यस्तस्मै वातायेत्युक्तम् 'अयं
वा अनाधृष्योऽप्रतिधृष्यो योऽयं पवते' ( १४ । २ । २ । ४ )
इति श्रुतेः । अवस्यवे । अवो रक्षणमिच्छति अवस्यति अव-
स्यतीत्यवस्युः 'सुप आत्मनः क्यच्' 'क्याच्छन्दसि' ( पा० ३ ।
२ । १७० ) इत्युप्रत्ययः । अवनशीलाय । अशिमिदाय ।
क्लेशात्मकं कर्म शिमि तन्न ददातीत्यशिमिदस्तस्मै क्लेशनिवर्तकाय
वाताय 'अयं वा अवस्युरशिमिदो योऽयं पवते' ( १४ । २ ।
२ । ५ ) इति श्रुतेः ॥ ७ ॥
य॒माय॒ त्वाङ्गि॑रस्वते पितृ॒मते॒ स्वाहा॑ । स्वाहा॑
घ॒र्माय॒ स्वाहा॑ घ॒र्मः पि॒त्रे ॥ ९ ॥
अष्टमी ।
इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑ते॒ स्वाहेन्द्रा॑य॒ त्वादि॒
त्यव॑ते॒ स्वाहेन्द्रा॑य त्वाभिमाति॒घ्ने स्वाहा॑ । स॒वि॒त्रे त्वं
ऋभु॒मते विभु॒मते॒ वाज॑वते॒ स्वाहा॒ बृह॒स्पत॑ये त्वा
वि॒श्वदे॑व्याव॑ते॒ स्वाहा॑ ॥ ८ ॥
उ० इन्द्राय त्वा । इन्द्राय त्वा वसुमते रुद्रवते स्वाहा ।
इन्द्रयत्वा आदित्यवते स्वाहा । इन्द्राय त्वा अभिमातिने ।
सपत्नो वा अभिमातिः सवित्रे त्वा ऋभुमते विभुमते वाज-
वते स्वाहा। ऋभुर्विभुर्वाज इति सुधन्वन आङ्गिरसस्य त्रयः
पुत्रा बभूवुस्तेषामयं संस्तवः । बृहस्पतये त्वा विश्वदेव्यावते
स्वाहा ॥ ८ ॥
म०
वसवो विद्यन्ते यस्य स वसुमान् रुद्रा विद्यन्ते यस्य
उ० यमाय त्वा । अङ्गिरस्वते पितृमते स्वाहा । उपय-
मन्या आसिञ्चति । स्वाहा धर्माय सुहुतो घर्माय चैतत्स्यात् ।
स्वाहा धर्मः सुहुतो धर्मः पित्रे स्यादिति शेषः ॥ ९ ॥
म० यमाय वायवे हे घर्म, त्वां जुहोमि 'अयं वै यमो
योऽयं पवते' ( १४ । २ । २ । ११ ) इति श्रुतेः । कीदृशाय
यमाय । अङ्गिरखते अङ्गिरसो मुनयोऽस्य सन्ति अङ्गिरखान्
'अयस्मयादीनि छन्दसि' ( पा० १ । ४ । २० ) इति भसंज्ञायां
सस्य विसर्गाभावः । पितृमते पितरोऽस्य सन्ति पितृमान्
अङ्गिरः पितृयुताय वातायेत्यर्थः । वातनामानि समाप्तानि ।
'खाहा धर्मायेत्युपयमन्या सिञ्चति घर्मे' ( का० २६ । ६ ।
२ ) । उपयमन्या खुचा स्रुक्स्थं घृतं घर्मे सिञ्चतीत्यर्थः ।
धर्माय स्वाहा एतदाज्यं सुहुतमस्तु । 'स्वाहा धर्मः पित्र' इति
'जपिलातिक्रम्याश्राव्याह धर्मस्य ययेति' (का० २६ । ६ । ३)।
अपसव्यवान् दक्षिणास्यः स्वाहेति मन्त्रं खरेण जपिला सव्येन
जलं स्पृष्ट्वा धर्महस्तोऽतिक्रम्याश्राव्य धर्मस्य यजेत्याहेत्यर्थः ।
स्वाहा धर्मः पित्रे पित्रर्थायास्तु ॥ ९ ॥
दशमी ।
विश्वा आशा दक्षिणसद्विश्वा॑न्दे॒वानया॑रि॒ह ।
स्वाहा॑कृ॒तस्य॒ घ॒र्मस्य॒ मधु॑ौः पिबतमश्विना ॥ १० ॥
उ० वषट्कृते जुहोति । विश्वा आशाः । अनुष्टुबाश्विनी ।
विश्वाः सर्वाः आशाः काष्ठाः । दक्षिणसत् दक्षिणसद इति
वचनव्यत्ययः । दक्षिणस्यां सीदन्ति । कस्मात् । यतः