This page has not been fully proofread.

५९४
 
शुक्लयजुर्वेदसंहिता ।
 
[ अष्टत्रिंशोऽध्यायः ३८ ]
 

 

 

 
म० 'यस्ते स्तन इति स्तनमालभते ' ( का० २६ । ५ ।
१ ) । गोस्तनानालभते । जातावेकवचनमित्यर्थः । वाग्देवत्या
त्रिष्टुप् दीर्घतमोदृष्टा । हे सरस्वति, तं स्तनमिहास्मिन्स्थाने
धातवे 'धेटू पाने' तुमर्थे तवेप्रत्ययः । पानार्थमकः कुरु । मम
पानाय प्रयच्छेत्यर्थः । लोडर्थे लङ् शपि लुप्ते गुणः । तं कम् ।
यस्ते तव स्तनः स्तन इव स्तनः । शशयः शेते इति शशयः ।
अच्प्रत्यये द्वित्वं पूर्वस्यात्वं च छान्दसम् । सुप्त इवास्ते अन्यै-
रनुपभुक्तत्वात् 'यस्ते स्तनो निहितो गुहायाम् ' ( १४ । २ ।
१ । १५ ) इति श्रुतेः । यश्च स्तनो मयोभूः मयः सुखं भाव-
यति प्रापयति सर्वभूतानामिति मयोभूः । यश्च रत्नधाः रत्नानि ।
दधाति रत्नधाः रमणीयानां धनानां धारयिता । यश्च वसुवित्
वसु धनं विन्दति वेत्ति वा वसुवित् । यश्च सुदत्रः सुष्ठु ददा-
तीति सुदत्रः दाता । धनवानन्यो दातुं न शक्नोति त्वत्समस्तु
धनवान् दाता चेति अन्येभ्य आधिक्यम् । किंच येन स्तनेन
विश्वा विश्वानि सर्वाणि वार्याणि वरणीयानि वस्तूनि त्वं पुष्यसि
पुष्णासि । तं स्तनं मत्पानाय प्रयच्छेत्यर्थः । 'उपद्रव पय- ।
सेत्युच्यमाने गच्छत्युर्वन्तरिक्षमिति' ( का० २६ । ५ । ११ )
उपद्रवेति मन्त्रे होत्रोच्यमाने उर्विति मन्त्रेणाध्वर्युर्गेसमीपाद्गा-
र्हपत्यं प्रति गच्छतीत्यर्थः । प्राजापत्या गायत्री । विशालम -
न्तरिक्षमनु एमि गच्छामि ॥ ५ ॥
 
रमणीयानां धनानां धारयिता । यश्च वसुवित् वसु विन्दति । म० 'परिशासावादत्ते गायत्रं छन्दोऽसीति प्रतिमन्त्रम् '
यश्च सुदत्रः कल्याणदानः । धनवानपि सन् कश्चिन्नोत्सहते ( का० २६ । ५ । १२ ) गायत्रमिति मन्त्राभ्यां परीशासौ
दातुम् अतएवं भिक्ष्यते । येन विश्वा येन च विश्वा विश्वानि । गृह्णातीत्यर्थः । यजुर्गायत्र्यौ परीशासौ देवते । हे परीशास,
पुष्यसि पुष्णासि वार्याणि वरणीयानि । हे सरस्वति, तं स्तनं त्वं गायत्रं छन्दोऽसि गायत्र्येव गायत्रं स्वार्थेऽण् । गायत्रीच्छ-
इह । धातवे । 'धेट् पाने' पानाय । अकः कुरु । गच्छति । न्दोरूपोऽसि । त्रिष्टुबेव त्रैष्टुभं त्रिष्टुप्छन्दोरूपोऽसीति द्वितीयम्।
उर्वन्तरिक्षमिति व्याख्यातम् ॥ ५ ॥
'ताभ्यां महावीरं परिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृहा-
मीति' ( का० २६ । ५ । १४ ) ताभ्यां परीशासाभ्यां महा-
वीरमादत्त इत्यर्थः । यजुर्जगती महावीरो देवता । हे महावीर -
द्यावापृथिवीभ्यां द्युभूमिभ्यां कृत्वा त्वा त्वां परिगृह्णामि ।
परीशासयोर्द्यावाभूमी अध्यस्ते महावीरे चादित्योऽध्यस्तः ।
तथाच श्रुतिः 'इमे वै द्यावापृथिवी परीशासावादित्यः प्रवर्ग्यो-
ऽमुं तदादित्यमाभ्यां द्यावापृथिवीभ्यां परिगृह्णाति' ( १४ ।
२ । १ । १६ ) इति । 'उद्यम्य मुञ्चवेदेनोपमृज्योपयमन्योपगृ-
ह्रात्यन्तरिक्षेणोपयच्छामि' इति । परिशासगृहीतं महावीरमूर्ध्वं
कृत्वा मुअकृतवेदेन संमार्योपयमन्या स्रुचा तं गृह्णातीत्यर्थः ।
यजुर्बृहती घर्मो देवता । हे धर्म, अन्तरिक्षेणाकाशेनोदरेण वा
त्वामुपयच्छामि निगृह्णामि । उपयमन्यन्तरिक्षत्वेनोदरत्वेन च
स्तूयते । तथाच श्रुतिः 'अन्तरिक्षं वा उपयमन्यन्तरिक्षेण
हीदं सर्वमुपयतमथो उदरं वा उपयमन्युदरेण हीदं सर्वम-
न्नाद्यमुपयतं तस्मादाहान्तरिक्षेणोपयच्छामि' (१४।२।१।१७)
इति । 'अजापयसावासिच्य शान्ते गोः पयोऽवनयतीन्द्राश्वि-
नेति' ( का० २६ । ५ । १६ ) । अजादुग्धेन महावीरं तूष्णीं
सिक्का शान्ते क्षीणज्वाले तत्र गोपयः सिञ्चतीत्यर्थः । ब्राह्मी
गायत्री विश्वेदेवा देवताः । हे इन्द्र, हे अश्विना अश्विनौ, हे
वसवः वासयितारः, यूयं मधुनो मधुरस्य पयसो घर्मं रसं पात
पिबत । पिबादेशाभावश्छान्दसः । कीदृशस्य मधुनः, सार-
घस्य सरघा मधुमक्षिका । अत्र सरघा मधुकृतो भ्रमरा इव
ऋत्विजः तैः कृतं सारघं तस्य । 'धर्मं पातेति रसं पातेयैवैत-
दाह' ( १४ । २ । १ । २० ) इति श्रुतिः । किंच हे इन्द्रादयः,
वाट् वषट्कारेण स्वाहा सुष्ठु हुतं सारघं मधु सूर्यस्य रश्मये
किरणाय यूयं यजत दत्त । यजतिर्दानार्थः । ' वषट्कृतं हृत-
मेवमस्यैतद्भवति' ( १४ । २ । १ । २० ) इति श्रुतेः । किंभू-
ताय रश्मये । वृष्टिवनये वृष्टिं वनति ददाति वृष्टिवनिस्तस्मै यो
रश्मिर्तृष्टिं दत्ते तस्मै मधु दत्तेत्यर्थः । तथाच श्रुतिः 'सूर्यस्य
तमेवैतत्प्रीणाति' ( १४ । २ । १ । २१ ) इति ॥ ६ ॥
हवा को रश्मिष्टिवनिर्नाम येनेमाः सर्वाः प्रजा बिभर्ति
 
षष्ठी ।
 
i
 
गा॒य॒त्रं छन्दो॑ऽसि॒ त्रैष्टु॑भं छन्दो॑ऽसि॒ द्यावा॑पृथि॒-
वीभ्यां त्वा॒ परि॑गृह्णाम्य॒न्तरि॑क्षो॒णोप॑यच्छामि । इन्द्रो
श्विना॒ मधु॑नः सार॒घस्य॑ घ॒र्मे पा॑त॒ वस॑वो॒ यज॑त॒
वाट् । स्वाहा॒ सूर्य॑स्य र॒श्मये॑ वृ॒ष्टि॒वन॑ये ॥ ६ ॥
 

 
कु० परीशासावादत्ते । गायनं छन्दोसि त्रैष्टुभं छन्दोसि
ऋक्षु महावीरं गृह्णाति । द्यावापृथिवीभ्यां त्वां परिगृह्णामि ।
परीशासयोः द्यौश्च पृथिवी च अध्यास्तः महावीरे चादित्यः ।
उपयमन्या उपगृह्णाति । अन्तरिक्षेणोपयच्छामि । अन्तरि-
क्षेण उपगृह्णामि । उपयमन्या अन्तरिक्षरूपेण संस्तवः ।
पयसा सिञ्चति । इन्द्राश्विना । हे इन्द्र हे अश्विनौ । मधुनः स॒मु॒द्राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ सरि॒राय॑ त्वा॒ वाता॑य॒
सारघस्य । सरघा मधुकृतः भ्रमरा इव ऋत्विजः तैः कृतस्य स्वाहा॑ । अन॒ध॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ प्रतिधृष्याय
सारघस्य मधुनः घर्म पात रसं पिबत । हे वसवः वासयि.
 
। ।
 
I ।
 
सप्तमी ।
 
तारः, यजत च बाद वषट्कारेण । स्वाहा सु॒द्रुतमस्तु । सूर्य॑स्त्वा॒वता॑य॒ स्वाहा॑ । अ॒व॒स्यवे॑ त्वा॒ वाता॑य॒ स्वाहा॑ऽ-
शिम॒दाय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ॥ ७ ॥
 
रश्मये । वृष्टिवनये वृष्टेः संभक्रे दात्रे वा । 'सूर्यस्य ह वा
एको रश्मिर्वृष्टिवनिर्नाम' इति श्रुतिः ॥ ६ ॥
 
उ० इतउत्तरं द्वादश वातनामानि यजत्यध्वर्युः । समु-