2026-02-20 06:10:13 by ambuda-bot
This page has not been fully proofread.
1
1
५९२
शुक्लयजुर्वेदसंहिता ।
( १४ । १ । ४ । १३ ) इति श्रुतेः । कीदृशाभ्यां युवाभ्याम् ।
माध्वीभ्यां मधुब्राह्मणमीयाते तौ माध्थ्यौ ताभ्याम् 'ई गतौ'
क्विप् । तथा माधूचीभ्यां मधुब्राह्मणमञ्चतः पूजयतस्तौ मध्वञ्चौ
ताभ्याम् । मध्वग्भ्यामिति प्राप्ते ङीपि अलोपे मधूचीभ्या-
मिति लिङ्गव्यत्ययः आदिदीर्घश्छान्दसः ॥ १८ ॥
[ सप्तत्रिंशोऽध्यायः ३७ ]
नमस्ते अस्तु मा मां मा हिंसीः मा जहि । महावीरोपस्थानं
समाप्तम् । 'त्वष्टृमन्त इत्येनां वादयति' ( का० २६ । ४ ।
१३ ) । महावीरमीक्षमाणामपनीतशिरोवस्त्रां धर्मं पश्यन्तीं
पत्नीमध्वर्युर्वाचयतीत्यर्थः । ऋचां त्रिष्टुप् घर्मदेवत्या पत्न्याशीः ।
हे घर्म । वयं त्वा त्वां सपेम । सपतिः स्पृशतिकर्मा । मैथुनाय
त्वामुपस्पृशामः । किदृशा वयम् । त्वष्टृमन्तः त्वष्टा विद्यते येषां
ते त्वष्टृमन्तः । त्वष्टा रेतसामधिकारी तत्सहिताः मैथुनार्थो -
त्वा । पस्पर्शे वीर्याधिष्ठातापेक्षितोऽत एतद्युताः । अतः पुत्रान् पशून्
च मयि विषये त्वं धेहि स्थापय । प्रजामुत्तरोत्तरवंशवृद्धिम-
स्मासु धेहि स्थापय । किंच पत्या भर्त्रा सहारिष्टा अनुपहिंसिता
अहं भूयासं भवेयम् । भर्तृमती चिरं जीवेयमित्यर्थः । 'वृषा
वै प्रवयों योषा पत्नी मिथुनमेवैतत् प्रजननं क्रियते' ( १४ ।
१ । ४ । १६ ) इति श्रुतेः ॥ २० ॥
एकोनविंशी ।
हृदेवा मनसे त्वादि॒वे त्वा सूर्याय
ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॑ धेहि ॥ १९ ॥
उ० हृदे त्वा । परोष्णिक् । हृदे त्वा हृदयार्थं त्वां ।
स्तुम इति शेषः । एवं मनसे त्वां स्तुमः । दिवे अर्थाय ।
त्वां स्तुम इति शेषः । सूर्याय त्वा सूर्यतर्पणाय त्वां
स्तुमः । यस्माच्च सर्वकार्येषु त्वामेव स्तुमः । अतो ब्रूमः
ऊर्ध्वः अवहितचित्तः सन् अध्वरं दिवि देवेषु धेहि निधेहि
स्थापय ॥ १९ ॥
म० परोष्णिक् । आद्यावष्टाण तृतीयो द्वादशार्णः सा
परोष्णिक् । 'परोष्णिक् परतः' इत्युक्तेः । आद्ययोर्व्यूहः ।
हे धर्म, हृदे वा हृदय स्वास्थ्याय त्वा वां स्तुम इति शेषः ।
मनसे मनःशुद्ध्यर्थं त्वा त्वां स्तुमः । दिवे स्वर्गप्राप्यै वा वां
तुमः । सूर्याय सूर्यतृप्त्यै त्वा त्वां स्तुमः । हृदयं संशोध्य
मनो निर्मलं कृत्वा दिवमस्मान्नीत्वा सूर्यं तर्पयेति भावः । किंच
ऊर्ध्वः सावधानः सन् अध्वरमस्मदीयं यज्ञं दिवि द्युलोके वर्त -
मानेषु देवेषु धेहि स्थापय । यज्ञे गते यजमानो गच्छत्येवेति
भावः ॥ १९ ॥
विंशी ।
पि॒ता नौऽसि पि॒ता नो॑ बोधि॒ नम॑स्ते अस्तु मा
म हिएसीः । त्वष्टृमन्तस्त्वा सपेम पुत्रान्प॒शून्मय॑
धेहि प्र॒जाम॒स्मासु॑ धे॒ह्यरि॑ष्टा॒हथ् स॒ह प॑त्या भूया -
सम् ॥ २० ॥
।
एकविंशी ।
अह॑ः के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।
रात्रैः के॒तुना॑ जुषता सु॒ज्योति॒ज्र्ज्योति॑षा॒ स्वाहा॑ २१
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां
सप्तत्रिंशोऽध्यायः ॥ ३७॥
उ० रौहिणं जुहोति । अहः केतुना प्रज्ञया कर्मणा
वा सहितम् जुषतां परिगृह्णातु । कथंभूतम् । यदहः
सुज्योतिः शोभनज्योतिष्कम् । केन ज्योतिषा स्वकीयेनैव ।
स्वाहा सुहुतं चैतद्धविर्भवतु । रात्रिः केतुना । अधस्तनेन
व्याख्यातम् ॥ २१ ॥
इति उवटकृतौ मन्त्रभाष्ये सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
म० 'अहः केतुनेति दक्षिणं रोहिणं जुहोति' (का० २६ ।
दक्षिणे रोहिणं पुरोडाशंसत्यर्थः । धर्मदेवत्ये
४। १४ ) । उपस्थानगानयोः समाप्तौ रौहिणहवन्या सुचा
यजुषी सामनुष्टुभ । केतुः कर्म वा । केतुना प्रज्ञया
कर्मणा वा सहितमहः दिनं जुषतां रौहिणहोमेन प्रीयताम् ।
उ० पिता नोऽसि । गायत्री । यतश्च त्वम् पिता नः कीदृशमहः । ज्योतिषा स्वकीयेनैव तेजसा सुज्योतिः शोभनं
अस्माकमसि भवसि । अतो ब्रवीमि । पितेव भूत्वा नः ज्योतिर्यस्य तत् विशिष्टतेजस्कम् । स्वाहा एतद्धविः सुहुतमस्तु ।
अस्मान् बोधि बोधय सर्वथा । नमः ते अस्तु मा मा हिंसी: रोहति स्वर्गं यजमानो याभ्यां तौ रोहिणी अभ्यादित्यौ अहो -
हिंसीथाः । पत्नीं वाचयति महावीरमीक्षमाणाम् । त्वष्टृ रात्रे वा 'इमौ लोकौ वा चक्षुषी वा शिरः प्रवग्यौ रौहिणौ
मन्तस्त्वा । यजुः । यतश्च स्वाष्ट्रसंयुक्ताः । त्वष्टा हि चेतसां ! चक्षुषी तत्र दधाति' ( १४ । २ । १ । १ – ५ ) इत्यादिरौ-
विकर्ता । त्वामेव सपेम । सपतिः स्पृशतिकर्मा । मैथुना हिणप्रशंसा श्रुतौ ज्ञेया । 'रात्रिरिति सायम्' (का० २६।४।१४)।
र्थमुपस्पृशामः । अतः पुत्रान् पशून् मयि धेहि स्थापय । । सायंकालीने प्रवर्ग्य रात्रिरिति मन्त्रेण द्वावपि प्रवर्ग्यो यथाकालं
प्रजां च भूयोभूयः अस्मासु धेहि स्थापय । किंच अरिष्टा जुहोतीत्यर्थः । केतुना सहिता रात्रिः जुषतां प्रीयताम् ।
अनुपहिंसिता अहम् । सह पत्या सह भर्त्रा भूयासम् । ज्योतिषा कृत्वा सुज्योतिरित्युक्तम् ॥ २१ ॥
आशीः ॥ २० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
अभ्यादिगैहिह्णान्तोऽयं सप्तत्रिंशो निरूपितः ॥ ३७ ॥
म० ऋग्गायत्री । हे महावीर, वं नोऽस्माकं पितासि
पालको भवसि । पितेव नोऽस्मान् बोधि बोधय । सर्वथा !
-