This page has not been fully proofread.

उवटभाष्य - महीधरभाष्यसंवलिता ।
 
५९१
 
दे॒वाना॒मम॑र्त्यस्तयो॒जाः । वाच॑म॒स्मे निय॑च्छ देवा - आच्छादयन् । 'वस आच्छादने' शानच्प्रत्ययः । विषूचीः विषुनि-
 
युव॑म् ॥ १६ ॥
 
उ० धर्ता दिवः । ऊर्ध्वबृहती धर्मस्तुतिः । योऽयं
धर्ता धारयिता दिवः द्युलोकस्य । यश्च तपसः रश्मिजालस्य
धर्ता । विभाति च पृथिव्यां अवस्थितः । धर्ता धारयिता
च देवानाम् । स्वयं च देवः अमर्त्यः मनुष्यधर्मरहितः ।
तपोजाः तपः आदित्यः तस्माज्जायते । सोयम् वाचं अस्मे
अस्मासु । नियच्छ नियच्छत्विति पुरुषव्यत्ययः । निगृह्णातु
स्थापयतु । देवायुवम् या देवान् यौति मिश्रयति आगमयति
सा तथोक्ता तां देवायुवम् ॥ १६ ॥
 
म० ऊर्ध्वबृहती । त्रिजागतोर्ध्वबृहती अत्राद्यौ त्रयोदश-
वर्णौ तृतीय एकादशवर्णस्तेनैकाधिका । स देवो धर्मः अस्मे
अस्मासु । विभक्तेः शे- आदेशः । वाचं नियच्छ पुरुषव्यत्ययः ।
यज्ञं नियच्छतु स्थापयतु । किंभूतां वाचम् । देवयुवं देवान्
यौति मिश्रयति देवयुः ताम् । क्विपि तुगभाव आर्षः । अनि-
त्यमागमशासनमिति वचनात् । देवसमूहमाह्वयन्तं यज्ञं समा-
पयत्विर्थः। 'यज्ञो वै वाग्यज्ञमस्मभ्यं प्रयच्छ येन देवान्प्री-
णामेत्येवैतदाह' ( १४ । १ । ४ । ८ ) इति श्रुतेः देवयुवमि
त्यत्र संहितायां वकारस्य दीर्घः । स कः । यो देवः पृथिव्यां
विभाति शोभते । कीदृशः । दिवो धर्ता द्युलोकस्य धारयिता ।
तपसः रश्मिजालस्य च धर्ता । देवानां च धर्ता । अमर्त्यः मनु-
ष्यधर्मरहितः अजरामरः । तपोजाः तप आदित्यस्तस्माज्जायत
इति तपोजाः सूर्योत्पन्नः ॥ १६ ॥
 
सप्तदशी ।
 

 
पातो नानार्थः । विषु अञ्चन्तीति विषूच्यः ताः नानाञ्चना
दिशो रश्मीन् वा वसानः । क्वित्रन्तात् 'उगितश्च' ( पा० ४ ।
१ । ६ ) इति ङीपि 'अचश्च' ( पा० ६ । ४ । १३८ ) इत्य-
लोपे 'चौ' ( पा० ६ । ३ । १३८ ) इति पूर्वपददीर्घः 'सी-
चीश्च ह्येष विषूचीश्च दिशो वस्तेऽथो रश्मीन्' ( १४ । १ । ४ ।
१० ) इति श्रुतिः । एकः सशब्दः पादपूरणः । स कः । यम-
हमपश्यमादित्यरूपं पश्यामि । कीदृशम् । गोपां गोपायतीति
गोपास्तम् । क्विपि यलोपः । अनिपद्यमानं निपद्यते पततीति
निपद्यमानः न निपद्यमानोऽनिपद्यमानस्तम् अन्तरिक्षे गच्छ-
न्तमपि नाधः पतन्तम् । च पुनः पथिभिः देवमार्गेः आचर-
न्तमागच्छन्तम् । पराचरन्तं परागच्छन्तं च गमनागमने
कुर्वाणम् ॥ १७ ॥
 
अष्टादशी ।
 
विश्वसां भुवां पते॒ विश्व॑स्य॒ मन॒सस्पते॒ विश्व॑स्य
वचसस्पते॒ सर्व॑स्य वचसस्पते । देवश्रुत्वं दैव धर्म
देवो दे॒वान्पा॑त्र॒ प्रावी॒रनु॑ वां दे॒ववी॑तये । मधु॒
माध्वीभ्यो॒ मधु माधूंचीभ्याम् ॥ १८ ॥
 
उ० विश्वासां भुवाम् । सर्वासां पृथिवीनां पते हे
प्रवर्ग्य, विश्वस्य मनसः सर्वस्य प्राण्याश्रयस्य मनसः पते ।
विश्वस्य वचसः सर्वस्य त्रयीलक्षणस्य वचसः पते । सर्वस्य
वचसः सर्वस्य लौकिकस्य वचसः पते । त्वां स्तुम इति
शेषः । यतश्च त्वं देवश्रुत देवैः श्रुतः अतः त्वां याचे । हे
देव धर्म, त्वं देवः सन् देवान्पाहि गोपाय । अत्र प्रावीरनु
वां देव वीतये । अत्र सत्रे अस्मिन्नवसरे वा । प्रावीरिति
पु॒रुषव्यत्ययः । प्रावतु तर्पयतु धर्मः । वां युवाम् हे अश्विनौ,
। ।
अनु देववीतये । ततोऽनन्तरम् देवतर्पणाय नमस्करोत्विति
उ० अपश्यम् । त्रिष्टुप् । आदित्यात्मना धर्मस्तुतिः । । वाक्यशेषः । मधुमाध्वीभ्याम् मधुनाम ब्राह्मणं तदश्विभ्यां
यमहमपश्यम् । गोपां गोप्तारम् । अनिपद्यमानम् अनालम्बने । ददौ दध्यङ्काथर्वणः । तदेतदुक्तम् । मधुमाधूचीभ्यां मधु
अन्तरिक्षे गच्छन्नासौ पतति । आच पराच पथिभिश्वरन्तम् ब्राह्मणं प्रति अञ्चतो गच्छतः तौ ताभ्यां मध्वञ्चनाभ्याम् ।
आचरन्तं च आगच्छन्तं च । पराचरन्तं च परागच्छन्तं शेषं पूर्ववद्व्याख्येयम् ॥ १८ ॥
 
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थि
भि॒श्चर॑न्तम् । स स॒ध्रीची॒ः स विभू॑च॒र्वसा॑न॒ आव॑

रीवति॒ भुव॑नेष्व॒न्तः ॥ १७ ॥
 
म०
 
च । पथिभिः देवैः सह । स सध्रीचीः सएव सधीचीः । अत्यष्टिः । हे विश्वासां भुवां पते सर्वासां पृथिवीनां
सहस्य सधिरादेशः । सहाञ्चनाः दिशो रश्मीन्वासहस्रम् । स्वामिन्, विश्वस्य सर्वप्राणिगतस्य मनसः पते अधिपते, विश्वस्य
सविषूचीः । विषु इति निपातो नानावचनः । अञ्चतेः परं वचसः पते सर्वप्राणिवचनस्य पालक, सर्वस्य त्रयीलक्षणस्य
क्विप् । नानाञ्चनाः दिशः नानाञ्चनान्वा रश्मीन् । वसानः वचसः पते प्रवर्तक, हे देवश्रुत देवैः श्रूयत इति देवश्रुत्
आच्छादयन् । आवरीवर्ति पुनःपुनरावर्तते । भुवनेषु त्रिषु देहप्रसिद्ध, हे देव दीप्यमान हे धर्म देव, त्वं देवान् पाहि रक्ष ।
लोकेषु । अन्तर्मध्ये व्यवस्थितः ॥ १७ ॥
एवं धर्मं संप्रार्थ्याश्विनावाह । हे अश्विनौ, अत्र यज्ञे देववीतये
म० त्रिष्टुब्दीर्घतमोदृष्टा । स घर्मो भुवनेषु त्रिलोकेषु । देवतर्पणाय अनु अनन्तरं घर्मो वां प्रावीः प्रावीत् तर्पयतु ।
अन्तर्मध्ये व्यवस्थितः आवरीवर्ति पुनःपुनरावर्तते । वृतेर्य ।
लुकि रूपम् । कीदृशः । सध्रीचीः सह अञ्चन्तीति सध्रीच्यः
सहस्य सधिरादेशः । सहाञ्चना दिशो रश्मीन् वा वसानः
 
लोडर्थे लुङ् पुरुषव्यत्ययश्च । युवयोस्तृप्त्या सर्वदेवास्तृप्यन्तीति
भावः । याभ्यां युवाभ्यां दध्यङ्काथर्वणो मधुसंज्ञकं ब्राह्मणमु
वाच 'दध्यङ् ह वा आभ्यामाथर्वणो मधुनाम ब्राह्मणमुवाच '