2026-02-20 06:10:11 by ambuda-bot
This page has not been fully proofread.
५८८
शुक्लयजुर्वेदसंहिता ।
[ सप्तत्रिंशोऽध्यायः ३७ ]
( पा० ६ । १ । ६३ ) इति सूत्रेण शकृच्छब्दस्य शकनादेशः ।
एवमितरमन्त्राभ्यामितरौ धूपयेत् । 'प्रदहनं च मखायेति प्रति-
मन्त्रम्' (का० २६ । १ । २४ ) । मखायेति त्रिभिर्मन्त्रै-
स्त्रीन्महावीरानुखावच्छ्पयेत् पिन्वनरोहिणैः सहेत्यर्थः । मखाय
मखस्य शीर्ष्णे त्वा त्वां निर्दहामि । एवमितरौ ॥ ९ ॥
दशमी ।
जवै त्वा साधवे॑ त्वा सुक्षि॒त्यै त्वा॑ । म॒खाय॑
त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा
श॒ष्णे॑ । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥ १० ॥
साधु-
उ० पक्वानुद्धरति । ऋजवे त्वेति प्रतिमन्त्रम् । ऋजवे
स्वा । असौ वै लोक ऋजुः । सत्यमेव तत्र कौटिल्यरहितम् ।
सत्यं वा आदित्यः । ऋजवे त्वा आदित्याय त्वाम् उद्धरामीति
शेषः । एष उ प्रथमः प्रवर्ग्यः । साधवे त्वा । अयं वै
र्वायुः । एष हीमान् लोकान् सिद्धोऽप्रतिहतः पवते । एष
उ द्वितीयः प्रवर्ग्यः। सुक्षित्यै त्वा । अयं वै लोकः सुक्षितः ।
अस्मिन्हि लोके सर्वाणि भूतानि क्षियन्ति । अग्निर्हि वा ।
सुक्षितः । अग्निर्हि अस्मिन् लोके सर्वाणि भूतानि परिगृह्य
वसति । एष उ तृतीयः प्रवर्ग्यः । अजापयसा परिसिञ्चति
महावीरान् मखाय त्वेति प्रतिमन्त्रम् ॥ १० ॥
महावीरसंभरणं समाप्तम् ।
।
म० 'पक्वानुद्धरत्यृजवे त्वेति प्रतिमन्त्रम् ' ( का० २६ ।
१ । २५ ) । पक्कान्महावीरानापाका दिवोद्धरति त्रिभिर्मन्त्रैर-
त्यर्थः । ऋजवे । असौ लोक ऋजुः तत्र सत्यमेव नतु कौटि -
ल्यम् । सत्यमादित्यः । हे महावीर, ऋजवे सत्यायादित्याय
त्वा त्वामुद्वपामीति शेषः । तथाच श्रुतिः 'स उद्वपत्यृजवे
त्वेत्यसौ वै लोक ऋजुः सत्यं ह्यजुः सत्यमेष य एष तपत्येष उ
प्रथमः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाहर्जवे त्वा' ( १४ ।
१ । २ । २२ ) इत । अथ द्वितीयम् । साधवे त्वा साधवे
वायवेऽर्थाय वायुप्रीत्यै त्वामुद्वपामि । तथाच श्रुतिः 'साधवे
वेत्ययं साधुर्योऽयं पवत एष हीमान् लोकान् सिद्धोऽनुपवत
एष उ द्वितीयः प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति तस्मादाह साधवे
त्वा' ( १४ । १ । २ । २३ ) इति । अथ तृतीयम् । सुक्षियै
त्वा सुतरां क्षियन्ति निवसन्ति सर्वभूतानि यस्यां सा सुक्षिति-
भूमिः । तथाच श्रुतिः 'सुक्षित्यै लेत्ययं वै लोकः सुक्षितिर -
स्मिन् हि लोके सर्वाणि भूतानि क्षियन्त्यथोऽग्निर्वै सुक्षितिर-
ग्निर्ह्यवास्मिन् लोके सर्वाणि भूतानि क्षियत्येष उ तृतीयः प्रव-
र्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह सुक्षित्यै त्वा' ( १४ । १ ।
२ । २४ ) इति । 'अजापयसावसिञ्चति मखायेति प्रतिमन्त्रम् '
(का० २६ । १ । २६ ) । अजादुग्धेन त्रीन्महावीरांस्त्रिभिः ।
तुल्यमन्त्रैः सिञ्चतीत्यर्थः । मखाय मखशीर्ष्ण चाजापयसा त्वां
सिचामीत्यर्थः ॥ १० ॥
इति महावीरसंभरणं समाप्तम् ।
एकादशी ।
य॒मय॑ त्वा म॒खाय॑ त्वा॒ सूर्य॑स्य॒ त्वा॒ तप॑से ।
दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु । पृथि॒व्याः स॒स्पृश॑-
स्पाहि । अ॒र्चिर॑सि शो॒चिरसि॒ तपो॑ऽसि ॥ ११ ॥
उ० महावीरं प्रोक्षति । यमाय त्वा मखाय त्वा सूर्यस्य
त्वा तपसे । प्रोक्षामीति शेषः । महावीरमनक्ति । देवस्वा
सविता मध्वानक्तु इति व्याख्यातम् । रजतशतमानं खरे
उपगूहति । पृथिव्याः संस्पृशः । संस्पृशतीति संस्पृक्
क्विबन्तस्यैतद्रूपम् । हे रजत, पृथिव्याः संस्पृशो राक्षसात्
महावीरं पाहि गोपाय । महावीरमाज्यवन्तं निदधाति ।
अर्चिरसि शोचिरसि तपोसि ऋज्वर्थम् ॥ ११ ॥
म० 'ब्रह्मानुज्ञातो यमाय वेति महावीरं प्रोक्षति' । (का०
२६ । २ । १३ ) प्रचरेति ब्रह्मणानुज्ञातोऽध्वर्युरुपविश्य यमाय
वेति मन्त्रत्रयेण प्रचरणीयं महावीरं वारत्रयं प्रोक्षतीत्यर्थः ।
त्रीणि यजूंषि । यमयति नियच्छति सर्वमिति यम आदित्य-
स्तत्प्रीत्यै त्वा त्वां प्रोक्षामि । तथाच श्रुतिः 'स प्रोक्षति यमाय
त्वेत्येष वै यमो य एष तपत्येष हीदं सर्वं यमयत्येतेनेदं
सर्वं यतमेष उ प्रवर्ग्यस्तदेत मेवैतत्प्रीणाति तस्मादाह यमाय
त्वा' ( १४ । १ । ३ । ४ ) इति । मखाय त्वा । मखो यज्ञः
प्रवर्ग्यः सूर्यरूपस्तस्मै त्वां प्रोक्षामि । तथाच श्रुतिः 'एष वै
मखो य एष तपत्येष उ प्रवर्ग्यस्तदेत मेवैतत् प्रीणाति तस्मा-
दाह मखाय त्वा' ( १४ । १ । ३ । ५ ) इति । सूर्यस्य त्वा
तपसे । तपतीति तपस्तेजः । सूर्यतेजोरूपाय प्रवर्ग्याय त्वां
प्रोक्षामि । तथाच श्रुतिः 'एष वै सूर्यो य एष तपत्येष उ प्रवर्ग्य-
स्तदेवमेवैतत्प्रीणाति तस्मादाह सूर्यस्य त्वा तपसा' ( १४ ।
१ । ३ । ६) इति । 'अञ्जन्तीत्युच्यमाने देवस्त्वेत्यनक्ति
महावीरमाज्यं संस्कृत्य' ( का० २६ । २ । २० ) । होत्रा
अञ्जन्ति यं प्रथयन्तीति मन्त्रे पठ्यमानेऽध्वर्युराज्यं विधिना
संस्कृत्य तेनाज्येन प्रचरणीयं महावीरं मन्त्रेणानक्ति । सविता
देवः मध्वा मधुना मधुरेण सर्वजगद्रूपेणाज्येन हे महावीर,
त्वामनक्तु लिम्पतु । मध्येति नुमभाव आगमस्यानित्यत्वात् ।
तथाच श्रुतिः 'सर्वं वा इदं मधु यदिदं किंच तदेनमनेन सर्वेण
समनक्ति' ( १४ । १ । ३ । १३ ) इति । 'रजतशतमानं खर
उपगूहति पृथिव्याः संस्पृश' (का० २६ । २ । २१) इति ।
रजतस्य शतमानं शतरक्तिकामितं रजतं खरे सिकतान्तरुपगू-
हतीत्यर्थः । प्राजापत्या गायत्री रजतदेवत्या । संस्पृशति उप-
द्रवार्थं स्पर्शं करोतीति संस्पृक् राक्षसः क्विबन्तम् । पृथिव्याः संब-
न्धिनः संस्पृशः राक्षसात् महावीरं हे रजत, त्वं पाहि रक्ष ।
देवा राक्षसेभ्यो भीताः सन्तो यज्ञरक्षार्थमग्नेरपत्यं रजतं रक्षसां
घाताय खरं निदधुः । अथ च पृथिवी महावीरपाकेऽप्रेता
ततोऽसौ मा दयतामिति रजतं खरेऽन्तर्हितमिति श्रुतौ कथा ।
तथाच श्रुतिः 'देवा अबिभयुर्यद्वै न इममधस्ताद्रक्षांसि नाष्ट्रा