2026-02-20 06:10:11 by ambuda-bot
This page has not been fully proofread.
उवटभाष्य - महीधरभाष्यसंवलिता ।
म० 'इन्द्रस्यौजः स्थैति पूतीकान्' (का० २६ । १1८)
पूतीकान् रोहिषतृणान्यादाय तूष्णीं कृष्णाजिने वराहविहतोत्तरे
निदध्यादिति सूत्रार्थः । आदारदेवत्यमृक्त्रिष्टुप् । हे पूतीकाः,
यूयमिन्द्रस्य ओजः तेजोरूपाः स्थ भवथ । वो युष्मानादाय
पृथिव्याः देवयजने अद्य मखस्य शिरो राध्यासम् । मखाय
वो गृह्णामि मखस्य शीर्ष्णे महावीराय च गृहामीत्युक्तम् । 'मखा-
येति पयः' (का० २६ । १ । ९) । पय आदाय तूष्णीं
कृष्णाजिने पूतीकोत्तरे निदध्यादिति सूत्रार्थः । पयोदेवत्यम् ।
हे पयः, मखाय मखशीर्णे त्वां गृह्णामि । तूष्णीं गवेधुका
अपि ग्राह्याः । ' संभृतानभिमृशति मखायेति' (का० २६
१ । ११ )। संभृतान्संभारान्करेण स्पृशेदित्यर्थः । संभारदेव-
त्यम् । हे संभाराः, मखाय तच्छीष्र्णे च वः स्पृशामि ॥ ६ ॥
1
सप्तमी ।
।
प्रैतु॒ ब्रह्म॑ण॒स्पति॒ प्र दे॒व्य॒ तु सू॒नृता॑ । अच्छा
वीरं नये॑ प॒तरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः । म॒खाय॑
त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा
श॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥ ७ ॥
उ० परिश्रितमभिगच्छन्तो जपन्ति । प्रैत्विति व्याख्या-
तम् । खरे सादयति । मखाय शिरोसीत्युक्तार्थम् । मृत्ति -
usमादाय महावीरं करोति । मखाय त्वेत्युक्तम् ॥ ७ ॥
म० 'कृष्णाजिनं परिगृह्योत्तरतः परिवृतं गच्छन्ति प्रैतु ब्रह्म
णस्पतिरिति' (का० २६ । १ । १२) । अध्वर्युप्रतिप्रस्थात्रादयः
कृष्णाजिनं समन्तादादाय प्रैलिति जपन्तोऽन्तः पात्यादुत्तरे
परिवृत्तं प्रति गच्छन्ति । पञ्चारनिमितः समचतुरस्रः प्राग्द्वारः
सिकतोपकीर्णः पूर्वमेव कृतः सप्तभूसंस्कार संस्कृतश्छादितप्रदेशः
परिवृत उच्यत इति सूत्रार्थः । बृहती व्याख्याता [अ०
३३ । क० ८९] । 'परिवृते निदधाति संभारानुद्धतावोक्षिते
सिकतोपकीर्णे प्राग्द्वारे मखायेति' (का० २६ । १ । १३-१४) ।
अध्वर्युः कृष्णाजिनस्थानेव संभारान्परिवृते निदधाति । कीदृशे ।
उद्धतावोक्षिते उल्लिखितजलसिक्ते । एतत्संस्कारद्वयं पञ्चाधिकं
सिकतायुक्ते प्राग्द्वारे चेति सूत्रार्थः । हे संभाराः, मखाय युष्मा-
न्निदधामि । 'संभारैः संसृजति मखायेति' (का० २६ ।
१ । १५ ) । गवेधुकाजापयसी पृथक्कृत्य वल्मीकवपादित्रिसं-
भारैर्मृत्पिण्डं मिश्रयतीत्यर्थः । हे संभाराः, युष्मान् माय
मृत्पिण्डेन संसृजामि । 'मृदमादाय मखायेति महावीरं करोति
प्रादेशमात्रमूर्ध्वमासेचनवन्तं मेखलावन्तं मध्य संगृहीतमूर्ध्व
मेखलायाख्यङ्गुलम्' (का० २६ । १ । १६ ) । महावीरपर्याप्तं
तूष्णीं मृत्पिण्डमादाय मन्त्रेण महावीरं करोति । कीदृशम् ।
प्रादेशोच्चं गर्तवन्तं मेखलायुतं मध्ये संकुचितं मेखलोपरि त्र्यङ्गु-
लोच्चमिति सूत्रार्थः । हे महावीर, मखाय तच्छीष्णे त्वां
करोमि ॥ ७ ॥
।
अष्टमी ।
५८७
म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा
शीर्ष्णे । म॒खस्य॒ शिरो॑सि । म॒खाय॑ त्वा म॒खस्य॑
त्वा शीर्ष्णे । म॒खस्य॒ शिरो॑सि । म॒खाय॑ त्वा म॒खस्य॑
त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शीर्णे ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥ ८ ॥
उ० निष्ठितमभिमृशति । मखस्य शिरोसीत्युक्तार्थम् ।
एवं द्वितीयतृतीयो । गवेधुकाभिः श्लक्ष्णयति । मखाय वेति
त्रिभिर्मन्त्रैस्त्रीन्महावीरान् ॥ ८ ॥
म० 'निष्ठितमभिमृशति मखस्य शिर इति' ( का० २६ ।
१ । १७ ) । निष्पन्नं महावीरं वामकरस्थं दक्षिणेन स्पृशती -
मितरौ प्रतिमन्त्रम्' (का० २६ । १ । १९ ) । इतरौ द्वौ महा
त्यर्थः । हे महावीर, त्वं मखस्य शिरो मूर्धासि भवसि । 'एव-
।
वीरौ प्रतिमन्त्रमेवमेव करोति अभिमृशति चेत्यर्थः । मखाय
द्वितीयं महावीरं करोमि । मखस्य निष्पन्नं स्पृशामि । मखाय
तृतीयं महावीरं करोमि । मखस्येति निष्पन्नं स्पृशति । मखस्य
शिरोऽसि मखाय त्वा मखस्य शीर्ष्ण त्वामभिमृशामि । 'गवे -
धुकाभिः श्लक्ष्णयति मखायेति प्रतिमन्त्रम्' (का० २६ । १।
२२ ) गवेधुकाभिः महावीरान् घर्षणेन मृदून् करोति मखायेति
प्रतिमन्त्रमेकैकम् । मखाय मखस्य शीर्णे च त्वां गवेधुकाभिः
श्लक्ष्णयामि । एवमग्रिमौ मन्त्रौ ॥ ८ ॥
नवमी ।
अश्व॑स्य वा॒ वृष्णैः शक्ता धूपयामि देव॒यज॑ने
पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । अश्व॑स्य॒
त्वा॒ वृष्ण॑ श॒क्ना धूपयामि देव॒यज॑ने पृथि॒व्याः ॥
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा
म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा
शीर्णे ॥ ९ ॥
उ० अश्वशकृतावधूपयति । अश्वस्य त्वा त्वां हे महावीर,
वृष्णः सेक्तुः । शक्ता शकृच्छब्दस्य शकन्नादेशः । धूपयामि
देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्णे । एवं
द्वितीयतृतीयौ । श्रपयति त्रीन्महावीरान् त्रिभिर्मन्त्रैः मखाय
त्वेति प्रतिमन्त्रम् ॥ ९॥
म० 'अश्वशकृता धूपयत्यश्वस्येति प्रतिमन्त्रम् ' ( का० २६
१ । २३ ) । दक्षिणाग्निदीप्तेनाश्वपुरीषेण त्रिभिर्मन्त्रैस्त्रीन्महा-
वीरान्धूपयेत् । एकैकधूपने सप्तसप्ताश्वशन्ति गृह्णाति । हे
महावीर, पृथिव्याः देवयजने मखाय मखस्य शीर्ष्णे च वृष्णः
सेक्तुरश्वस्य शक्ना शकृता पुरीषेण त्वा त्वां धूपयामि । ' पद्दन्न - '