This page has not been fully proofread.

उवटभाष्य - महीधरभाष्यसंवलिता ।
 
उ० इन्द्रो विश्वस्य द्विपदा विराट् । योयं महावीर इन्द्र
आदित्यो वा । कस्याधिष्ठात्री देवता । विश्वस्य जगतः राजति
देदीप्यते ईष्टे वा । तस्य प्रसादात् । अस्माकम् अस्तु द्विपदे
शं चतुष्पदे । द्विपदां चतुष्पदां चेति विभक्तिव्यत्ययः ॥ ८ ॥
म० द्विपदा विराट् इन्द्रदेवत्या । विंशत्यक्षरा द्विपदा,
विराट् कथ्यते । विश्वस्य सर्वस्य जगतः इन्द्रः 'इदि परमैश्वर्ये '
इन्दतीतीन्द्रः परमेश्वरः महावीरः आदित्यो वा यो राजति
देदीप्यते ईष्टे वा स नोऽस्माकं द्विपदे । विभक्तिव्यत्ययः ।
द्विपदां पुत्रादीनां शं सुखरूपोऽस्तु । चतुष्पदे चतुष्पदां गवादीनां
च शं सुखरूपोऽस्तु ॥ ८ ॥
 
उ०
 
नवमी ।
 
शं नो मित्रः शं वरु॑ण॒ शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो बृह॒स्पति॒ शं नो विष्णुरुरुक्रमः ॥ ९ ॥
शं नो मित्रः । द्वे अनुष्टुभौ । महावीरप्रसादात् आदौ
च । शं सुखरूपः नोऽस्माकं भवतु मित्रः । शं च नः वरुणः
भवतु । शं च नः भवतु अर्थमा शं च नः इन्द्रः बृहस्पतिः
शं च नः विष्णुः उरुक्रमः उरु विस्तीर्णः क्रमो यस्य स
उरुक्रमः । शेषं दर्शितया व्याख्येयम् ॥ ९ ॥
 
म० द्वे अनुष्टुभौ मित्रवरुणादयो देवताः । मित्रो देवो
नोऽस्माकं शं सुखरूपो भवतु महावीरप्रसादात् । मेद्यति भक्तेषु
स्निह्यतीति मित्रः । वरुणः शं सुखरूपो भवतु । वृणोत्य-
ङ्गीकरोति भक्तमिति वरुणः । अर्यमा नोऽस्माकं शं भवतु ।
इयर्ति गच्छति भक्तं प्रतीत्यर्यमा । इन्द्रो देवेशो नोऽस्माकं शं
भवतु । बृहस्पतिर्देवगुरुर्नः शं भवतु । बृहतां वेदानां पतिः
पालकः । उरुर्विस्तीर्णः क्रमः पादन्यासो यस्य स विष्णुः
नोऽस्माकं शं भवतु । वेवेष्टि व्याप्नोतीति विष्णुः ॥ ९ ॥
 
दशमी ।
 
शं
 
शं नो॒ वात॑ः पवताएं शं न॑स्तपतु सूर्यैः ।
न॒ः कनि॑क्रदद्दे॒वः प॒र्जन्यो॑ अ॒भिव॑र्षतु ॥ १० ॥
उ० शं नः शं सुखरूपः नोऽस्माकम् वातः अपरुषः
अव्याधिजनकश्च पवतां वातु । शं सुखरूपः अदहनः भेषज-
रूपश्च नोऽस्माकं तपतु सूर्यः । शं नः सुखरूपश्चास्माकम् ।
पर्जन्यो देवः काशनिक्षाररहितं पवित्रमुदकम् भेषजकर्तृ
अभिवर्षतु । कनिक्रदत् । स्तनयितु शब्दं कुर्वन् ॥ १० ॥
 

 
५८३
 
कीदृशः । कनिक्रदत् अत्यन्तं कन्दतीति शब्दं कुर्वन् 'दाधर्ति -
दधर्ति-' ( पा० ७।४ । ६५ ) इत्यादिना यङ्लुगन्तो
निपातः ॥ १० ॥
 
एकादशी ।
 
अहा॑नि॒ शं भव॑न्तु॒ न॒ः श रात्रीः प्रति॑िधीय-
ताम् । शं न॑ इन्द्राग्नी भ॑वता॒मवो॑भिः शं न इन्द्रा-
वरुणा रातव्या । शं ने इन्द्रापूषणा वाज॑सात॒
शमिन्द्रासोमा॑ सुवि॒ताय॒ शं योः ॥ ११ ॥
 
शं
 
उ० अहानि शम् द्विपदा गायत्री । अहानि दिवसाः
 
सुखरूपाः भवन्तु नोऽस्माकम् । शं सुखरूपाः रात्रीः
प्रतिधीयतां प्रतिदधात्वस्मासु महावीरः । शं सुखरूपौ च
इन्द्रानी भवताम् अवोभिः पालनैः सह । शं नः सुखरूपौ
चास्माकम् । इन्द्रावरुणा इन्द्रावरुणौ । रातहव्या दत्तह-
विष्कौ भवताम् । शं नः सुखरूपौ चास्माकं इन्द्रापूषणौ
भवताम् । वाजसातौ अन्नसंभजने निमित्तभूते । शं सुख-
रूपौ च इन्द्रासोमौ भवताम् सुविताय साधुगमनाय साधु-
प्रसवाय वा । शं योः शमनाय रोगाणां यावनाय पृथक्कर-
णाय च भयानाम् ॥ ११ ॥
 
म० द्विपदा गायत्री । अहानि रात्रयश्च देवताः । अहानि
दिनानि नोऽस्माकं शं सुखरूपाणि भवन्तु । रात्रीः शं सुखरूपाः
अस्मासु प्रतिधीयतां प्रतिदधातु । महावीर इति शेषः । कर्तरि
यक् छान्दसः । शं न इन्द्रानी त्रिष्टुप् । इन्द्राग्नी इन्द्रावरुणौ
इन्द्रापूषणौ इन्द्रासोमो देवताः । इन्द्राग्नी अवोभिः पालनैः
कृत्वा नोऽस्माकं शं सुखरूपौ भवताम् । रातं दत्तं हव्यं ययोस्तौ
रातहव्यौ हविस्तृप्तौ इन्द्रावरुणौ नः शं भवताम् । वाजसातौ
वाजस्यान्नस्य सातौ दाने निमित्तभूते इन्द्रापूषणा इन्द्रपूषसंज्ञौ
देवौ नोऽस्माकं सुखरूपौ भवताम् । इन्द्रासोमा इन्द्रसोमो देवी
शं सुखरूपौ भवताम् । किमर्थम् । सुविताय सुष्ठु इतं
सुवितम् साधुगमनाय साधुप्रसवाय वा । तथा शं रोगाणां
शमनाय । योः यवनाय पृथक्करणाय च भयानाम् । रोगं भयं
च निवर्त्य सुखरूपौ भवतामित्यर्थः । 'देवताद्वन्द्वे च' (पा० ६
३ । २६ ) इति सर्वत्र पूर्वपदस्य दीर्घः ॥ ११॥
 
द्वादशी ।
 
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पीतये । शं
योर॒भिस्र॑वन्तु नः ॥ १२ ॥
 
म० वातो वायुर्नोऽस्माकं शं सुखकारः अपरुषः अव्या-
धिजनकश्च पवतां वद्दताम् । 'पव गतौ' लोट् । सुवति जनान्
स्वस्वव्यापारेषु प्रेरयति सूर्यः शं सुखरूपोऽदहनो मेषजरूपश्च उ० शं नो देवीः । अब्देवत्या गायत्री । सुखरूपा
नोऽस्माकं तपतु किरणान्प्रसारयतु । पर्जन्यः पिपर्ति पूरयति अस्माकम् देवीः देव्यः अभिष्टये अभिषेकाय अभीष्टाय वा ।
जनमिति पर्जन्यः, परोऽम्भः पूरो जन्यतेऽनेन वा । 'पर्जन्यौ । आपः भवन्तु पीतये पानाय च । शं योः शमनाय
रसदब्देन्द्रौ' इत्यभिधानम् । पर्जन्यः पर्जन्येशो देवः नोऽस्माकं रोगाणां पृथक्करणाय भयानां वा । अभिनवन्तु नः अस्मा-
शं सुखकरं काशनिक्षाररहितं यथा तथा अभिवर्षतु सिञ्चतु । कम् ॥ १२ ॥