2026-02-20 06:10:09 by ambuda-bot
This page has not been fully proofread.
५८२
शुक्लयजुर्वेदसंहिता ।
[ षट्त्रिंशोऽध्यायः ३६ ]
प्रपन्नस्य प्रवर्ग्य आयुषो विनाशं कुर्यात् । तथा वाम-
.नः प्राणश्चक्षुः श्रोत्राणि प्रपन्नस्य सप्तदशं ह्येतत्प्रजापतेर्लिङ्गमु-
पलक्षितम् । अथैवंसति वाक् ओजो बलं मानसं धृष्टतानाम ।
पुनरोजोग्रहणमादरार्थं च । एतदुक्तं भवति - वाकू अतिश
यिकमोजः प्राणापानौ च सह एकीभूताः मयि वर्तन्तेऽतः
प्रवर्ग्योऽस्मान्न हिनस्ति ॥ १ ॥
म० पञ्चाध्यायी आथर्वणेन दधीचा दृष्टा 'दध्यङ् ह वा
आथर्वण एतं शु॒क्रमेतं यज्ञं विदांचकार' ( १४ । १ । १ ।
२० ) इति श्रुतेः । 'उग्रश्व' ( ३९ । ७ । १७ । ८६ ) इत्याग्निको
मन्त्रः । अभिं हृदयेनेत्याद्यध्यायसमाप्तिपर्यन्तमाश्वमेधिकम्
( ३९ । ८ - १३ ) तद्वयं वर्जयित्वा । (का० अनुक्रमण्याम् )
शान्तिकरणमाद्यन्तयोः । ऋचं वाचमित्यध्यायेन शान्तिकरणं
कार्यम् । स्वाध्याये मन्त्रपाठे प्रवर्ग्यमन्त्रादावस्याध्यायस्य दर्श-
नात् । अथ मन्त्रार्थः । पञ्च यजूंषि लिङ्गोक्तदेवतानि । ऋच-
मृग्रूपां वाचमहं प्रपद्ये प्रविशामि शरणं व्रजामि । यजुः यजू-
रूपं मनः प्रविशामि । प्राणं प्राणरूपं साम प्रपद्ये । चक्षुरिन्द्रियं
श्रोत्रेन्द्रियं च प्रपद्ये । वागादिग्रहणं सप्तदशावयवोपलक्षणम् ।
सप्तदशावयवं प्रजापतेर्लिंङ्गं प्रपद्ये इत्यर्थः । त्रयीविद्यां लिङ्गश-
रीरं च प्रपन्न प्रवर्ग्यो न नाशयेदिति भावः । तथा वागिन्द्रिय-
मोजो मानसं बलं धार्क्ष्यम् । पुनरोजोग्रहणाच्छारीरं च बलम् ।
प्राणापानौ उच्छ्वास निश्वासवायू च एते सह एकीभूताः सन्तो
मयि वर्तन्ते । अतोऽपि प्रवर्ग्योऽस्मान्न हन्तीति भावः ॥ १ ॥
द्वितीया ।
यन्मे॑ चि॒द्रं चक्षु॑षो॒ हृद॑यस्य॒ मन॑सो॒ वाति॑तृणं
वृ॒ह॒स्पति॑र्मि॒ तद॑धातु । शं नो॑ भवतु॒ भुव॑नस्य॒
।
यस्पर्तिः ॥ २ ॥
उ०
यन्मे बार्हस्पत्या पङ्क्तिः । यम्मे मम । छिद्रं अव ।
खण्डितम् चक्षुषः हृदयस्य वा । हृदयग्रहणेन बुद्धिरुक्ता ।
मनसो वा अतितृष्णं अतिहिंसितम् प्रवर्ग्याचरणेन । बृह-
स्पतिः मम तत् दधातु । अथैवं बृहस्पत्यनुगृहीतानाम् । शं
नः सुखरूपोऽस्माकं भवतु । भुवनस्य भूतजातस्य यः
पतिः योऽधिपतिः प्रवर्ग्यरूपो यज्ञः ॥ २ ॥
म० बृहस्पतिदेवत्या पङ्क्तिः । मे मम चक्षुषः चक्षुरिन्द्रि-
यस्य यत् छिद्रमवखण्डनं जातं प्रवर्ग्याचरणेन । हृदयस्य
बुद्धेर्वा यत् छिद्रं जातम् । मनसो वा यत् अतितृष्णमतिहिंसितम्
प्रवर्ग्याचरणेन यत् चक्षुर्बुद्धिमनसां व्याकुलवं जातम् बृहस्प-
तिर्देवगुरुः मे मम तत् छिद्रमतितृष्णं च दधातु संदधातु छिद्रं
निवर्तयतु । भुवनस्य भूतजातस्य यः पतिरधिपतिः प्रवर्ग्यरूपो
यज्ञः स नोऽस्माकं शं सुखरूपो भवतु । बृहस्पतिना छिद्रापा-
'करणात्प्रवर्ग्यः कल्याणरूपोऽस्त्वित्यर्थः ॥ २ ॥
।
तृतीया ।
भूर्भुव॒ः स्वः तत्स॑वि॒तुर्वरे॑ण्यं भर्गो दे॒वस्य॑ धीमहि ।
धियो यो नः प्रचो॒दया॑त् ॥ ३ ॥
उ० भूर्भुवः स्वः यजूंषि । तत्सवितुरिति कयानस्तिस्रश्च
व्याख्याताः । ऋषिकृतो विशेषः ॥ ३ ॥ ४ ॥ ५ ॥ ६॥
,
म० भूर्भुवः स्वः त्रीणि यजूंषि । तत्सवितुः कया नः,
कस्त्वा, अभी षु णः, एताश्चतस्र ऋचो व्याख्याताः [ ३, ३५ ।
२७, ३९ - ४१] अभी षु ण इत्यस्यामृचि शतं भवास्यूति -
भिरिति बहुवचनम् । पूर्वमूतय इत्येव पाठः । ऊतिभिः अव-
नैर्हेतुभिः शतमसंख्यरूपो भवसीत्यर्थः ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥
चतुर्थी ।
कया
कर्या नश्चि॒त्र आभुवदूती स॒दावृ॑ध॒ सखा॑ ।
शचिष्ठया
वृता ॥ ४ ॥
पञ्चमी ।
कस्त्वा॑ स॒त्यो मदा॑ना॒ महि॑ष्ठो मत्स॒दन्ध॑सः ।
इ॒ढा चि॑दा॒रुजे॒ वसु॑ ॥ ५ ॥
षष्ठी ।
अ॒भी षु ण॒ः सनी॑नामवि॒ता ज॑रि॒तॄणाम् । श॒तं
भ॑वस्य॒तिभिः ॥ ६ ॥
सप्तमी ।
कथा त्वं न ऊत्याभि प्रम॑न्दसे वृषन् । कय
स्तो॒तृभ्य॒ आभ॑र ॥ ७ ॥
उ० कया त्वम् । गायत्री । ऐन्द्री अनिरुक्ता । हे इन्द्र,
कया ऊत्या केन वा गमनेन त्वम् नः अस्मान् अभिप्रमन्दसे
अभिमोदयसि हर्षयसि । हे वृषन् सेक्तः, कया च ऊत्या
केन वा गमनेन स्तोतृभ्यः दातुं धनानि आभर आहरति ।
लडर्थे लोट् । तत्कथय । येन तथानुतिष्ठामः ॥ ७ ॥
म० इन्द्रदेवत्या गायत्री अनिरुक्तेन्द्रपदहीना । आद्यपादे
व्यूहद्वयम् । हे वृषन् वर्षतीति वृषा हे सेक्तः इन्द्र, 'वासवो
वृत्रहा वृषा' इत्यभिधानम् । कया ऊत्या केन तर्पणेन हवि -
र्दानेन नोऽस्मानभिप्रमन्दसे अभिमोदयसि । ' मदिस्तु खपने
जाड्ये मदे मोदे स्तुतौ गतौ' लट् । कया च ऊत्या तुझ्या
स्तोतृभ्यः स्तुतिकर्तृभ्यो यजमानेभ्यः आभर आहर आहरसि ।
धनं दातुमिति शेषः । तद्भयेन तथा वयं कुर्म इति भावः ।
आभरेति लडर्थ लोट् ॥ ७ ॥
अष्टमी ।
इन्द्रो विश्व॑स्य राजति
शं चतु॑ष्पदे ॥ ८ ॥
। शं नो अस्तु द्विपदे