2026-02-20 06:10:08 by ambuda-bot
This page has not been fully proofread.
उवटभाष्य - महीधरभाष्यसंवलिता ।
तृणाम् सत्या अवितथा आशिषः संनमन्तां प्रह्वीभवन्तु ।
स्वाहेति यजुः ॥ २० ॥
म० जातवेदोदेवत्या त्रिष्टुप् । अस्या विनियोगः श्रौतसूत्रे
नास्ति । किंतु गृह्यसूत्रेऽस्ति । तथाहि 'मध्यमा गवा तस्यै वपां
जुहोति वह वपां जातवेदः पितृभ्यः' ( पार० ३ । ३ ) इति ।
अस्यार्थः । मध्यमाष्टका गोपशुना कार्या तस्या धेनोर्वपां जुहोति
वह वपामिति मन्त्रेणेत्यर्थः । हे जातवेदः, जातं वेदो धनं
यस्मात् स जातवेदाः तत्संबोधने हे जातवेदः, पितृभ्योर्थाय
त्वं वषां धेनुसंबन्धि चर्मविशेषं त्वं वह प्रापय । पराके परा-
क्रान्ते दूरेऽपि यत्र यस्मिन्देशे निहितान्स्थापितानेनान्पितॄन्
त्वं वेत्थ जानासि तत्र वहेत्यर्थः । तस्याः वपायाः निःसृत्य
मेदसः धातुविशेषस्य कुल्याः नद्यः तान्पितॄन् प्रति उपस्रवन्तु
प्रसरन्तु । किंच एषां दातॄणामाशिषः मनोरथाः सत्याः अवि-
तथाः सन्नमन्तां प्रह्वीभवन्तु । स्वाहा सुहुतमस्तु । खाहेति
ऋग्भिन्नं यजुः ॥ २० ॥
एकविंशी ।
स्यो॒ना पृथिवि नो भवानृक्षरा नि॒वेश॑नी ।
यच्छ॑ नः॒ शर्म॑ स॒प्रथा॑ः । अप॑ न॒ः शोशु॑च॒वम् २१
,
I
उ० स्योना पृथिवि । पार्थिवी गायत्री । स्योना सुखरूपा ।
हे पृथिवि नः अस्माकम् भव अनुक्षरा च । ऋक्षरः कण्टकः ।
अनुक्षरा अकण्टका । निवेशनी च साधुप्रतिष्ठाना । किंच ।
यच्छा नः प्रयच्छ च नः अस्माकम् शर्म शरणम् । सप्रथाः
सर्वतः पृथुः । अप नः शोशुचदधमिति व्याख्यातम् ॥ २१ ॥
म० पृथिवीदेवत्या गायत्री मेधातिथिदृष्टा यजुरन्ता ।
अस्या अपि श्रौते विनियोगो नास्ति स्मार्ते स्रस्तरारोहणे शयने
विनियोगः । तथाहि ' स्योना पृथिवि नो भवेति दक्षिणपार्श्वे
प्राक्शिरसः संविशन्तीति' ( पार० ३ । २ ) । हे पृथिवि,
त्वं नोऽस्माकं स्योना सुखरूपा भव । किंभूता त्वम् । अनुक्षरा
ऋक्षरः कण्टकः। 'ऋच्छतेः कण्टकः कन्तपो वा कण्टतेर्वा कृन्त-
तेर्वा स्याद्गतिकर्मणः' (निरु० ९ । ३२ ) इति यास्कः । तग्रहणं
चौरदायादादिदुःखनिवृत्त्यर्थम् । न सन्ति ऋक्षराः कण्टकाः
दुःखदायिनो यस्यां सा अनुक्षरा । तथा निवेशनी निविशन्ति
जनाः यस्यां सा निवेशनी साधुप्रतिष्ठाना ' करणाधिकरणयोश्च
( पा० ३ । ३ । ११७ ) इति ल्युट् । तथा सप्रथाः प्रथनं
प्रथः विस्तारः प्रथसा सह वर्तमाना सप्रथाः सर्वतः पृथुः ।
किंच नोऽस्मभ्यं शर्म शरणं यच्छ देहि । अतः परं यजुः
तद्विनियोगो गृह्यसूत्रे संबन्धिमरणनिमित्ते स्नाने जलापनोदने ।
तथाहि 'सव्यस्यानामिकया अपनोद्याप नः शोशुचदघमिति'
( पार० ३ । १० ) । इदं जलं नोऽस्माकमघं पापमपशोशु-
चत् अपशोचयतु दहतु ॥ २१ ॥
द्वात्रिंशी ।
५८१
अ॒स्मात्त्वमधि॑ जा॒तोऽसि॒ त्वद॒यं जा॑यतां॒ पुन॑ः ।
अ॒सौ स्व॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥ २२ ॥
इति माध्यन्दिनीयायां वाजसनेय संहितायां
पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
उ० अस्मात्त्वम् । गायत्री यजुरन्ता एकान्त्राहुतिः । अ-
निरुक्ताग्नेयी । अस्माद्यजमानात् । हे अग्ने, त्वम् अधिजा-
तोसि यतः अतो ब्रवीमि । अयं पुनर्जायमानः त्वत् त्वत्तः
जायतामुत्पद्यताम् । असाविति नामग्रहणम् । तद्यथा देवदत्तः
स्वर्गीय लोकाय स्वर्गलोकप्रात्यर्थम् । त्वत्तो ह्ययं जायमानः
त्वद्वश्य एव स्यादित्यभिप्रायः । स्वाहेति संप्रदानमस्तु ॥२२॥
इति वकृतौ मन्त्रभाष्ये पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
म० ' आहुतिं जुहोति पुत्रो भ्रातान्यो वा ब्राह्मणोऽस्मा-
त्वमधिजातोऽसीति' (का० २५ । ७ । ३७ ) । सानिकस्य
पात्रप्रतिपत्त्यन्ते दाह्रात्पूर्वमाज्याहुतिं पुत्रादिर्जुहोति । अग्नि-
देवत्या गायत्री अनिरुक्ता । हे अमे, त्वमस्मात् यजमानात्
आधानकाले अधिजातोऽसि उत्पन्नोऽसि । अतोऽयं यजमानः
पुनः त्वत् त्वत्तः जायतामुत्पद्यताम् । साविति विशेषनामव-
चनः । तथाहि देवदत्तः स्वर्गीय लोकाय स्वर्गलोकप्राप्त्यर्थं
त्वत्तो जायताम् । वद्वंश्य एव भवलिति भावः । स्वाहा सुदु-
तमस्तु ॥ २२ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
पञ्चत्रिंशोऽयमध्यायः पितृमेधाभिधोऽगमत् ॥ ३५
षट्त्रिंशोऽध्यायः ।
तत्र प्रथमा ।
ऋचं॒ वाच॑ प्रप॑ये॒ मनो॒ यजुः प्रप॑ये॒ साम॑ प्रा॒णं
प्रप॑ये॒ चक्षुः श्रोत्र॒ प्रप॑द्ये । वागोज॑ः स॒जो मयि॑
प्राणापानौ ॥ १ ॥
उ० इदानीं प्रवर्ग्यानिकाश्वमेधोपनिषत्संबद्धा मन्त्रस्ता-
न्व्याख्यास्यामः । तत्रामिका उग्रश्चेत्येवमादयः । तान्पुनः
परमेष्ठ्यपश्यत् । प्राजापत्यो विमुख इति तस्य मन्त्रगणस्य
संज्ञा । अनि हृदयेनेत्याश्वमेधिकाः आ अध्यायात्
प्रजापतेरार्षम् । परिशिष्टं दध्यङ्काथर्वणोऽपश्यत् । 'दध्य
वा आथर्वणः' इत्येवमादिकया श्रुत्या तद्भावं प्रतिपद्यते ।
ऋचं वाचम् । प्रवर्ग्यस्यादावन्ते च शान्तिकरणोऽध्यायः ।
विश्वेदेवा अभिकानामाश्वमेधिकानां च मन्त्राणाम् इह
समाम्नानं दिवाकीर्तिसामान्यात् । प्रथमकण्डिका यजुः ।
ऋचं वाचं प्रपद्ये प्रविशामि यामि वा । एवं मनो यजुः
। साम प्राणं चक्षुः श्रोत्रमिति व्याख्येयम् । नहि त्रयीवि.