This page has not been fully proofread.

५७८
 
अष्टमी ।
 
शुक्लयजुर्वेदसंहिता ।
 
शं वातः श हि ते॒ घृणः शं ते॑ भव॒न्त्वि-
टेकाः । शं भवन्त्व॒ग्नय॒ः पार्थि॑वास॒ मा त्वाभि-
शूशुचन् ॥ ८ ॥
 
1
 
उ० यथार्थं कल्पयति अनुष्टुब्बृहतीभ्याम् । शं वातः
सुखरूपो वातः ते भवतु । शं हि ते घृणिः सुखरूपश्च ते
घृणिर्भवतु । घृणिरित्यहर्नाम । हीति स्वाध्यायार्थं । सुख-
रूपाश्च ते भवन्तु इष्टकाः । सुखरूपाश्च ते भवन्तु अग्नयः ।
पार्थिवाः पृथिव्यां भवाः पार्थिवासः । मा च त्वाम् अभि-
शूशुचन् अभितापयन्तु ॥ ८ ॥
 
म० 'शं वात इति यथाङ्गं कल्पयिवेष्टकां निदधाति
मध्ये तूष्णीमिति' ( का० २१।४ । ८ ) । शं वात इति मन्त्र-
द्वयेन तानि मध्ये न्युप्तान्यस्थीनि यथाङ्गं कल्पयित्वा यदस्थि
यस्याङ्गस्य तेनास्ना तदङ्गकल्पनया प्राक्शिरसं पुरुषाकृतिं
कृत्वा तन्मध्ये पादमात्रामिष्टकां तूष्णीं निदधाति । द्वे ऋचाव-
नुष्टुब्बृहत्यैौ विश्वदेवदेवते । हे यजमान, वातो वायुस्ते तव शं
सुखरूपो भवतु । हि पुनः घृणिः सूर्यकिरणः ते तव शं सुख-
रूपो भवतु । इष्टका मध्ये प्रतिदिशं च तिस्रस्तिस्रः प्रक्षिप्तास्ते
तव शं सुखरूपा भवन्तु । अग्नयश्च ते शं भवन्तु । पार्थिवासः
पृथिव्यां भवाश्चाग्नयः त्वा त्वां माभिशुशुचन् मा शोचयन्तु
अभितापयन्तु ॥ ८ ॥
 
नवमी ।
 
कल्प॑न्ता॑ ते॒ दिश॒स्तुभ्य॒माप॑ शि॒वत॑मा॒स्तुभ्यं॑
भवन्तु॒ सिन्ध॑वः । अ॒न्तरि॑क्ष शि॒वं तुभ्यं कल्प॑न्तां
ते॒ दश॒ः सर्वा॑ः ॥ ९ ॥
 
उ० किंच । कल्पन्तां ते दिशः क्लृप्तास्ते दिशो भवन्तु ।
तुभ्यम् आपः शिवतमाः भवन्तु । तुभ्यं भवन्तु सिन्धवः ।
समुद्राः शिवतमाः । अन्तरिक्षं शिवं तुभ्यं भवतु । कल्पन्तां
ते दिशः सर्वाः । आदरार्थ पुनर्वचनं कात्सूर्यार्थं वा ॥ ९ ॥
म० दिशः ते तुभ्यं त्वदर्थं कल्पन्तां कॢप्ता भवन्तु । आपो
जलानि तुभ्यं शिवतमाः कल्याणकारिण्यो भवन्तु । सिन्धवः
समुद्राश्च शिवतमास्तुभ्यं भवन्तु । अन्तरिक्षमाकाशं तुभ्यं
शिवं कल्याणकारि भवतु । सर्वा दिशः ते तुभ्यं कल्पन्ताम् ।
आदरार्थ कार्यार्थं वा पुनर्वचनम् ॥ ९ ॥
 
दशमी ।
 
अश्म॑न्व॒ती रो॑यते॒ सर॑भध्व॒मुति॑ष्ठत॒ प्रति॑रता
सखायः । अत्रा॑ जही॒मोऽशि॑वा॒ ये अस॑ञ्चि॒वान्व॒य-
मुत्त॑रेमा॒भि वाजा॑न् ॥ १० ॥
 
उ० अश्मन्वती रीयते । अश्मनस्त्रीन्विकिरन्ति ता अभ्यु-
त्तरन्ति । त्रिष्टुब्वैश्वदेवी । अश्मन्वती पाषाणवती इयं नदी
 
1
 
[ पञ्चत्रिंशोऽध्यायः ३५ ]
 
रीयते गम्यते अस्माभिः विषमम् । अतो ब्रवीमि । संर-
भध्वम् । संरम्भश्चोत्तरणाय प्रयत्नकरणम् । उत्तिष्ठत अभि-
जहीमः परित्यजामः । भशिवाः अशान्ताः । ये असन्
मुखा भवत प्रतरत हे सखायः । किमित्यादरः । अत्रा-
स्युः । शिवान् वाजान् अन्नविशेषान् वयम् अभ्युत्तरेम ॥ १० ॥
म० 'अध्यधिगच्छन्त्यश्मन्वतीरिति' (का० २१ । ४ । २१ ) ।
गर्तान्मृदमानीय पूर्ववर्जदिग्भ्यः कृष्ट्वा वा मृदमानीय तत्
श्मशानं विप्रस्य मुखमितं क्षत्रस्योरोमितं वैश्यस्योरुमितं स्त्रिया
भगमितं शूद्रस्य जानुमितं सर्वेषां वा जानुमितं मृदा
कृत्वा शैवलैः कुशैश्च प्रच्छाद्य तद्दक्षिणतो गर्तौ खात्वा क्षीरो-
दकाभ्यां संपूर्य श्मशानोत्तरे सप्त गर्तान्खात्वा दक्षिणोत्तरान्
जलेन संपूर्योत्तरगर्तेषु अध्वर्युयजमानामात्यांस्त्रीन्पाषाणान्प्रक्षि-
प्याश्मन्वतीरिति मन्त्रेण तद्गर्तोपरि गच्छन्ति । विश्वदेवदेवत्या
त्रिष्टुप् सुचीकदृष्टा । हे सखायः मित्राणि, एषा अश्मन्वती
पाषाणवती नदी रीयते गच्छति । 'री गतौ' दिवादि: आत्मने-
पदी । अतो यूयं संरभध्वमुत्तरणाय प्रयतध्वम् । उत्तिष्ठत
अभिमुखा भवत । प्रतरत प्रकर्षेण तां नदीं तर । किमिति ।
यतोऽत्र प्रदेशे ये अशिवाः अशान्ता दुष्टा राक्षसादयः असन्
स्युः तान् वयं जहीमः परित्यजामः । तेषु त्यक्तेषु शिवान्सु-
खकरान् वाजानन्नविशेषान् वयमुत्तरेम प्राप्नुयाम ॥ १० ॥
 
एकादशी ।
 
अपा॒ाघमप॒ किल्बिष॒मप॑ कृ॒त्यामयो॒ रप॑ः । अपा॑-
I
माग॒ त्वम॒स्मदप॑ दु॒ष्वभ्य॑ सु॒व ॥ ११॥
 
उ० अपामार्गेणापमृजति । अपाघम् अनुष्टुप् । हे
अपामार्ग, त्वम् अस्मत् अस्मत्तः । अपसुव अपगमय
अघं पापं मानसम् । अपगमय च किल्बिषं कीर्ति-
भेदकं पापमेव कायिकम् । अपगमय च कृत्याम् अभि-
चारम् । अपगमय च रपः । रपो रिप्रमिति पापनामनी
भवतः । वाचिकं पापम् । अपगमय च दुःस्वप्रयं दुःखमे
भवं फलं दु:स्वयम् ॥ ११ ॥
 
म०
 
1
 
'अपाघमित्यपामार्गैरपमृजत इति' (का० २१ । ४
२२ ) । ते अमात्या यज्ञोपवीतिनो भूत्वाप उपस्पृश्य हस्तगृ-
हीतैरपामार्गेः स्वशरीरं शोधयन्ते अपामार्गबी जैरुद्वर्तयन्तीति
केचित् । लिङ्गोक्तदेवतानुष्टुप् शुनःशेपदृष्टा दुःखमनाशनी । हे
अपामार्ग, त्वमस्मत् अस्मत्तः सकाशादघं मानसं पापमपसुव
'पू प्रेरणे' अपगमयेत्यर्थः । किल्बिषं कीर्तिमेदकं कायिकं च
'रपो रिश्रमिति पापनामनी भवतः' ( निरु० ४ । २१ ) इति
पापमपमुव । कृत्यां परकृतमभिचारमपसुव । अप उ रपः
 
यारुकः । रपः पापं वाचिकं च अपसुव उ चार्थे । दुःखम्यम्
दुष्टः स्वप्नो दुःखनः तत्र भवं दुःखप्रोत्थमसुखरूपं फलं चास्म -
तोऽपसुव ॥ ११ ॥