2026-02-20 06:10:07 by ambuda-bot
This page has not been fully proofread.
उवटभाष्य - महीधरभाष्यसंबलिता ।
म० 'अनुरज्जु चतस्रः सीताः कृषति वायुः पुनाविति
प्रतिमन्त्रमुत्तरतः प्रतीचीं प्रथमामिति' (का० २१ । ४ । १-२ ) ।
अध्वर्युः परितो वेष्टितां रज्जुमनुलक्षीकृत्य वायुः पुनालिति
प्रतिमन्त्रं पादेन पादेन चतस्रः सीताः अप्रदक्षिणं कृषति ।
तत्र प्रथमां सीतामुत्तरपार्श्वे प्रतीचीं कृषति । दक्षिणतः सीर-
योजनपक्षेऽपि तत्सीरम प्रदक्षिणमुत्तरत आनीय प्रथममुत्तरत एव
कृषति । 'तदपसलवि पर्याहृत्योत्तरतः प्रतीचीं प्रथमां सीतां
कृषति वायुः पुनाविति सविता पुनात्विति जघनार्धेन दक्षिणा-
मग्नेर्भ्राजसेति दक्षिणार्धेन प्राचीं सूर्यस्य वर्चसेत्यग्रेणोदीचीं' ।
( १३ । ८ । २ । ६ ) इति श्रुतेः । चत्वारि यजूंषि लिङ्गोक्त-
देवतानि । हे पृथिवि, वायुः त्वां पुनातु विदारयतु । सूर्यः खां
पुनातु अनेजसा दीया सूर्यस्य वर्चसा तेजसा च त्वां विदा
रयतु।'अनडुहो विमुच्य विमुच्यन्तामिति' (का० २१।४।४)
एवं पूर्वोक्तचतुर्मन्त्रैः पार्श्वचतुष्के कर्षणं कृत्वा मध्येऽपि सर्वं
क्षेत्रं यथा कृष्टं भवति तथा परिमिताः सीताः कृत्वा वृषभा-
न्सीराद्विमुञ्चति । यजुः वृषदैवतम् । उखा धेनुः तदपत्यानि
उस्त्रियाः अनड्वाहो विमुच्यन्तां सीराद्वियुज्यन्ताम् ॥ ३॥
चतुर्थी ।
षष्ठी ।
५७७
प्र॒जाप॑तौ त्वा दे॒वता॑या॒मुपदके लोके निर्बंधा-
म्यसौ । अप॑ नः॒ शोशु॑चद॒म् ॥ ६ ॥
I
उo प्रजापतौ त्वा । यजुः कण्डिकाः । प्रजापतौ त्वाम्
देवताया उपोदके उप समीपे उदकं यस्य स तथोक्तः ।
लोके स्थाने निदधामि । असाविति नामग्रहणम् । अनुदा-
त्तत्वादामत्रितम् । तद्यथा हे देवदत्त, अप नः शोशुचदधम् ।
अपेत्य नः अस्मान् अत्यर्थं दहतु पापम् द्वेष्टृन् । यद्वा प्रजापतिः
अपशोशुचत् अत्यर्थं दहतु । नोऽस्माकमधं पापम् ॥ ६ ॥
म० उष्णिक् प्रजापतिदेवत्या अस्थिनिवापे एव निवि-
युक्ता । असाविति नामग्रहणमनुदात्तत्वादामन्त्रितम् । हे देव-
दत्त, उपोदके उदकसमीपवर्तिनि लोके स्थाने प्रजापतौ
। देवतायां त्वां निदधामि स्थापयामि । स प्रजापतिर्नोऽस्माक •
मघं पापं शोशुचत् अत्यर्थं दहतु । ' शुच शोके' यङ्लुगन्तं
रूपम् ॥ ६ ॥
सप्तमी ।
परं मृत्यो अनु परेहि पन्था॑ यस्तै अ॒न्य इत॑रो
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे व वस॒तिष्कृ॒ता । देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः
ग॒भाज॒ इत्किला॑थ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥ ४ ॥
अश्वत्थे
उ० व इति व्याख्यातम् ॥ ४ ॥
म० 'दक्षिणा सीरं निरस्याश्वत्थे व इति सर्वोषधं वपतीति'
(का २१ । ४ । ४ ) हलं दक्षिणदिशि तूष्णीं प्रक्षिप्य कृष्टक्षे
त्रमध्ये सर्वोषधं वपति । अनुष्टुप् व्याख्याता ( अ० १२ ।
क० ७९ ) ॥ ४ ॥
पञ्चमी ।
प्र॒जा
रा॑रिषि॒ मोत वी॒रान् ॥ ७ ॥
उ०
1
प्रत्यागते जपति । परं मृत्यो त्रिष्टुप् मृत्युदेवत्या ।
हे मृत्यो, परं पन्थानमाश्रित्य । अनु परा इहि पराङ्मुखो
भूत्वा आगच्छ । तं शब्देन दर्शयति । योऽसौ ते तव स्व-
भूतः अन्यः इतरः देवयानात् पितृयानाख्यः । अपिच चक्षु-
मते शृण्वते ते ब्रवीमि । षष्ठ्यर्थे चतुर्थी । चक्षुष्मतः श्र
ण्वतः तत्र ब्रवीमि । अतिशयार्थं वचनम् । नहि तस्यादृष्टम-
श्रुतं चास्ति । मा च नः अस्माकं प्रजां रीरिषः हिंसीथाः ।
1
स॒वता ते॒ शरी॑राणि मा॒तुरु॒पस्य॒ आव॑पतु । मोत वीरान् पुत्रान् ॥ ७ ॥
तस्मै॑ पृथि॒वः॒ शं भ॑व ॥ ५॥
उ० शरीराणि निवपति । सविता ते । गायत्री
सविता ते तव शरीराणि अस्थीनि । मातुः पृथिव्याः उपस्थे
उत्सङ्गे आवपतु स्थापयतु । तस्मै अस्थिरूपाय यजमानाय
सवित्रा उप्ताय हे पृथिवि, शं भव सुखरूपा भव ॥ ५ ॥
म० 'सविता त इति शरीराणि निवपति मध्ये इति'
( का० २१ । ४ । ५ ) । तस्य पुरुषमात्रस्य क्षेत्रस्य मध्ये
शरीराणि मृतस्यास्थीनि राशीकरोति । एतच्च सूर्योदयकालं
कर्तव्यम् 'यथा कुर्वतोऽभ्युदियात् ' ( १३ । ८ । ३ । २ ) इति
श्रुतेः । गायत्री सवितृदेवत्या । हे यजमान, सविता सूर्यः ते
तव शरीराणि अस्थीनि मातुः पृथिव्याः उपस्थे उत्सङ्गे आव-
पतु स्थापयतु । हे पृथिवि भूमे, तस्मै सवित्रोप्तायास्थिरूपाय
यजमानाय शंभव सुखरूपा भव ॥ ५
७३ य० उ०
।
म० 'प्रत्यागते परं मृत्यविति जपतीति' (का० २१ ।
४।७
) । दक्षिणां गत्वानुच्छ्वसन् कुम्भं प्रक्षिप्यैहीति कश्चि-
द्विप्रः प्रेषितोऽस्ति तस्मिन् कुम्भं क्षित्वा प्रत्यागते सति यज-
मानोऽध्वर्युर्वा पति । मृत्युदेवत्या त्रिष्टुप् संकसुकदृष्टा
मृत्यो, परा पराङ्मुखो भूत्वा परमन्यं पन्थां पन्थानं मार्गम-
न्विहि अनुगच्छ । तमेव दर्शयति । यस्ते तव त्वदीयः पन्था
देवयानात् पथः इतरः तुच्छः अन्यः पितृयानाख्यः देवा
यान्ति यस्मिन् स देवयानः । किंच चक्षुष्मते ज्ञानिने शृण्वते
च ते तुभ्यं मृत्यो, किंचिद् ब्रवीमि वदामि । आदरार्थं
वचनम् । नहि तस्यादृष्टमश्रुतं वास्ति । षष्ठ्यर्थे चतुर्थ्यो ।
चक्षुष्मतः शृण्वतस्तव वदामि । किम् । हे मृत्यो, नोऽस्माकं
प्रजां सन्ततिं वंशपरम्परां मा रीरिषः मा हिंसीः । 'रिष वधे'
स्वार्थे णिजन्तस्य लुङि रूपम् । उत अपिच वीरान्पुत्रान् मा
हिंसीः ॥ ७ ॥