2026-02-20 06:10:06 by ambuda-bot
This page has not been fully proofread.
उवटभाष्य - महीधर भाष्य संवलिता ।
न्तमागच्छन्तम् उपप्रयन्तु उपसंगम्य आगच्छन्तु । मरुतः
सुदानवः कल्याणदानाः । त्वं च हे इन्द्र, प्राशुः प्रकर्षेण
शीघ्रो भव । सचा सहगमनाय ॥ ५६ ॥
म० तृचो ब्रह्मणस्पतिदैवतः । द्वे बृहत्यैौ तृतीया त्रिष्टुप् ।
हे ब्रह्मणो देवस्य पते पालक, उत्तिष्ठ ऊर्ध्वः आरब्धकार्यो
भव । यतो वयं देवयन्तो देवान्कामयमानाः वा त्वामीमहे
याचामहे आगच्छेति । मरुतः भवन्तमागच्छन्तमुप समीपे
प्रयन्तु आगच्छन्तु । किंभूताः मरुतः । सुदानवः शोभनं
ददति ते सुदानवः । हे इन्द्र, त्वमपि सचा सह गमनाय
प्राशुः प्रकर्षेण शीघ्रो भव । देवान्कामयन्ते देवयन्ति ततः
शतृप्रत्ययः 'सुप आत्मनः क्यच्' ( पा० ३ । १ । ८ ) 'न
छन्दस्यपुत्रस्य' ( पा० ७ । ४ । ३५ ) इति निषेधात् ' क्यचि
च' इतीत्वाभावः ( पा० ७ । ४ । ३३ ) 'अश्वाघस्यात् ' ( पा०
७ । ४ । ३७ ) इत्यश्वाघयोरेवाकार विधानात् 'अकृत्सार्व-
धातुकयोः' ( पा० ७ । ४ । २५ ) इति दीर्घोऽपि न स्यात् ।
ईमहे याचतिकर्मसु पठितः 'ई गतौ' दिवादित्वादागतस्य इयन
इछान्दसो लोपः । सुदानवः 'दाभाभ्यां नुः' ( उणा०
३ । ३२ ) प्राशुः आशुशब्दे दीर्घ छान्दसः । भवा
संहितायां 'द्व्यचोऽतस्तिङः' ( पा० ६ । ३ । १३५ ) इति
दीर्घः ॥ ५६ ॥
सप्तपञ्चाशी ।
प्र नूनं ब्रह्म॑ण॒स्पति॒र्मन्त्र॑ वदत्युक्थ्यम् । यस्मि -
न्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि
चक्रिरे ॥ ५७ ॥
उ० प्र नूनम् नूनमिति पादपूरणः । प्रवदति प्रोच्चारयति
ब्रह्मणस्पतिः मन्त्रं उक्थ्यम् । उक्थ्यमिति शस्त्रमुच्यते तत्र
सन्नमन्मन्त्र उक्थ्यः । कथंभूतोसौ मन्त्रः । यस्मिन् मन्त्रे
इन्द्रश्च वरुणश्च अर्यमा च अन्ये देवाश्व ओकांसि । ओक
इति निवासनाम । निवासानि चक्रिरे कृतवन्तः ॥ ५७ ॥
म० ब्रह्मणस्पतिः नूनं निचितमुक्थ्यं शस्त्रयोग्यं मन्त्रं
प्रवदति प्रकर्षेणोच्चारयति । यस्मिन् मन्त्रे इन्द्रः वरुणः मित्रः
अर्यमा अन्ये च देवाः ओकांसि निवासान् चक्रिरे कृतवन्तः ।
सर्वदेवाधारभूतं शस्त्रं पठनीयं मन्त्रवदित्यर्थः ॥ ५७ ॥
अष्टपञ्चाशी ।
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सूक्तस्य॑ बोधि॒ तन॑यं
च जिन्व । विश्वं तद्भद्रं यदव॑न्ति दे॒वा बृ॒हद्वेदेम
वि॒दथे॑ सु॒वीरा॑ः । य इ॒मा विश्ववि॒श्वक॑र्मा यो
न॑ पि॒ता अन्न॑य॒तेऽन्न॑स्य नो देहि ॥ ५८ ॥
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां
चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
उ० ब्रह्मणस्पते । हे ब्रह्मणस्पते, त्वम् अस्य जगतः
५७५
बोधि
यन्ता । एवं चेत् विज्ञापयामि । सूक्तस्य साधुवचनस्य
बुध्यस्व अवगतार्थो भव । तनयं च अपत्यानि च जिन्व ।
जिन्वति प्रीतिकर्मा । प्रीणीहि विश्वं च तत् भद्रं भन्द-
नीयम् अस्माकम् अस्तु । यत् अवन्ति पालयन्ति देवाः
त्वत्प्रसादात् । बृहत् महत् ऊर्जितम् । वदेम दीयतां भुज्य-
तामिति । विदथे यज्ञे । सुवीराः कल्याणपुत्राः सन्तः ।
अथ चतस्रः प्रतीकोक्ताः । इमा विश्वा भुवनानि जुह्वत् ।
विश्वकर्मा विमना । यो नः पिता । अन्नपतेऽन्नस्य नो
देहीति ॥ ५८ ॥
इति उवकृतौ मन्त्रभाष्ये चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४ ॥
म० हे ब्रह्मणस्पते, वं यतोऽस्य जगतो यन्ता नियन्ता
अतः प्रार्थ्यते । सूक्तस्यास्मदुक्तस्य साधुवचनस्य । कर्मणि
षष्ठी । सूक्तम् बोधि वुध्यस्व । अस्मदुक्ता स्तुतिर्भवता ज्ञाय-
तामित्यर्थः । तनयं च अस्मदपत्यानि जिन्व प्रीणीहि ।
जिन्वतिः प्रीतिकर्मा । देवा यत् भद्रं कल्याणमवन्ति पाल -
यन्ति तत् विश्वं सर्वं भद्रमस्माकमस्विति शेषः । किंच सुवीराः
कल्याणपुत्राः सन्तो वयं विदथे यज्ञे वृहत् महत् वदेम दीयतां
भुज्यतामित्यादि उच्चारयेम । अथ चतस्रः कण्डिकाः प्रती -
कोक्ताः य इमा विश्वा भुवनानि जुह्वत् ( १७ । १७ ) विश्व-
कर्मा विमनाः ( १७ । २६ ) यो नः पिता ( १७ । २७ )
अन्नपतेऽन्नस्य नो देहि ( ११ । ८३ ) इति । ता ब्रह्मयज्ञे-
ऽध्येयाः ॥ ५८ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
चतुस्त्रिंशोऽयमध्याय ब्रह्मयज्ञार्थकोऽगमत् ॥ ३४॥
पञ्चत्रिंशोऽध्यायः ।
तत्र प्रथमा ।
अपे॒तो य॑न्तु प॒णयोऽसु॑म्ना देवपी॒यव॑ः । अ॒स्य
लोकः सु॒ताव॑तः । द्युभि॒रहभिर॒क्तुभि॒र्युक्तं य॒मो
द॑दात्वव॒सात॑म॒स्मै ॥ १ ॥
1
उ० अपेतो यन्तु । पित्र्योऽध्यायः । आदित्यस्यार्षे
देवानां वा । गायत्रीव पलाशशाखया व्यूहति । अपेतो यन्तु
पणयः । अपयन्तु इतः स्थानात् पणयः असुराः असुम्नाश्च
। ।
असुखकराः । देवपीयवश्च । पीयतिहिँसाकर्मा । देवानां
हिंसितारः देवद्विषः । किमिति अस्य यजमानस्य लोक:
स्थानमत्र सुतावतः सोमाभिषवं कृतवतः । परं यजुः । द्युभि•
रहोभिरक्तुभिः । युशब्देन श्रुतौ ऋतव उक्ताः । ऋतुभिः
अहोभिः अक्तुभिः रात्रिभिः व्यक्तं स्पष्टीकृतम् । यमः ददातु
अवसानम् अवस्यत्यस्मिन्नित्यवसानम् । अस्मै यजमानाय ॥१॥
म० त्रयस्त्रिंशेऽध्याये सर्वमेधसंबन्धिनः कियतो मन्त्रा-
नुक्ला प्रवायुमच्छेत्यारभ्य ( ३३ । ५५ ) अनारभ्याधीतान्म-
1
..
1
J