This page has not been fully proofread.

५७२
 
शुक्लयजुर्वेदसंहिता ।
 
म० जगती द्यावापृथिवीदेवत्या । द्यावापृथिवी द्यावापृ-
थिव्यौ वरुणस्यादित्यस्य धर्मणा धारणेन धारणशक्त्या विष्क-
भिते स्तम्भिते । स्कनोतिर्दृढीकरणार्थः । वरुणेन स्वशक्त्या
दृढीकृते इत्यर्थः । किंभूते ते । घृतवती उदकवत्यौ । घृतमि-
त्युदकनाम । भुवनानां भूतजातानामभिश्रिया अभिश्रियो
आश्रयणीये । कर्मणि क्विप् विभक्तेराकारः । उव उन्यौं
विस्तीर्णे । पृथ्वी पृथ्व्यैौ पृथुले । आयामविस्ताराभ्यां महत्त्वं
विशेषणद्वयेनोक्तम् । मधुदुधे मधु उदकं तस्य दोग्यौ ।
सुपेशसा सुरूपे । अजरे जरारहिते । भूरिरेतसा भूरि रेतो
ययोस्ते भूरिरेतसी बहुरेतस्के । सर्वभूतानां हि रेतांसि
ताभ्यामेवोत्पद्यन्ते ॥ ४५ ॥
 
1
 
षट्चत्वारिंशी ।
 
ये नः स॒पत्ना॒ अप॒ ते भ॑वन्त्वन्द्रा॒ग्निभ्या॒मव॑-
बाधामहे तान् । वसवो रु॒द्रा आ॑दि॒त्या उपस्पृशं
म॒ग्रं चेन्ता॑रमधिरा॒जम॑क्रन् ॥ ४६ ॥
 
उ० ये नः । जगती लिङ्गोक्तदेवता । ये नः अस्माकम् ।
सपत्नाः शत्रवः । अप ते भवन्तु अपगतवीर्या निरुद्यमा-
स्ते भवन्तु । ततः इन्द्राग्निभ्याम् अवबाधामहे अवनाशयामः
तान् शत्रून् । किंच वसवः रुद्राः आदित्याश्च । उपरिस्पृशम्
उपरिस्थितः स्पृशतीति उपरिस्पृक् आधिपत्येऽवस्थितः पा.
देन स्पृशतीति उपरिस्पृक् तं उपरिस्पृशम् मां उग्रं च ।
चेत्तारं ज्ञातारं च ज्ञेयस्य । अधिराजं अधिपतिमीश्वरं च ।
अक्रन् कृतवन्तः कुर्वन्तु वा ॥ ४६ ॥
 
म० जगती लिङ्गोक्तदेवता । ये नोऽस्माकं सपत्नाः शत्रवः
ते अपभवन्तु अपगतवीर्या निरुद्यमा भवन्तु । पराभवं
यान्त्वित्यर्थः । यतो वयं तान् सपत्नान् इन्द्राग्निभ्यां कृत्वा
अवबाधामहे इन्द्राग्निबलेन नाशयामः । किंच वसवोऽष्टौ रुद्रा
एकादश आदित्या द्वादश एते मा मामेतादृशमन् कुर्वन्तु ।
कीदृशम् । उपरिस्पृशम् उपरि स्पृशतीति उपरिस्पृक् तमुच्च-
स्थानस्थितम् । उग्रमुत्कृष्टम् । चेत्तारं ज्ञातारं ज्ञेयस्य । अधि-
राजम् अधिकश्चासौ राजा च अधिराजस्तम् अधिपतिमीश्वरं
कुर्वन्त्वित्यर्थः ॥ ४६ ॥
 
सप्तचत्वारिंशी ।
 
आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्या॑तं मधु-
पेय॑मश्विना । प्रायु॒स्तारि॑ष्ठ॒ नी रपा॑सि मृत्॒
सेध॑तं॒ द्वेषो॒ भव॑त सचा॒भुवा॑ ॥ ४७ ॥
 
उ० आ नासत्या । आश्विनी जगती । आयातम् आगच्छ-
तम् हे नासत्यावश्विनौ, त्रिभिरेकादशैः त्रयस्त्रिंशद्भिर्देवैः स-
हितौ भूत्वा । तदुक्तम् अष्टौ वसव इत्यादि । इह मधुपेयम् मधुः
सोमः सोमपानं प्रति । एत्य च प्रायुस्तारिष्टं प्रतारिष्टं प्रवर्धय
तम् आयुः । नी स्पांसि मृक्षतम् । 'मृजूप् शुद्धौ' । रपः पापमु-
 

 
[ चतुस्त्रिंशोऽध्यायः ३४ ]
 
च्यते । निर्मृक्षतं निःशोधयतं नाशयतम् । स्पांसि पापानि ।
सेधतं द्वेषः । ' षिधु गत्याम्' । गमयतं दौर्भाग्यम् । भवतं
च सचाभुवा सहभुवौ सर्वकार्येषु संयुक्ता ॥ ४७ ॥
 
म० जगती अश्विदेवत्या । हे नासत्या नासत्यौ,
अश्विनौ त्रिभिः एकादशैः त्रिगुणैरेकादशभिः त्रयस्त्रिंशत्सं-
ख्याकैः देवेभिः देवैः इह स्थाने मधुपेयं सोमपानं प्रति
आयातमागच्छतम् । मधुः सोमस्तस्य पेयं पानम् । किंच
आयुः प्रतारिष्टम् । तरतिर्ब्रद्ध्यर्थः प्रवर्धयतम् । रपांसि पापानि
निमृ॑क्षतं निःशेषं शोधयतम् । नाशयतमित्यर्थः । द्वेषः
दौर्भाग्यं सेधतं । 'षिधु गत्याम् ' गमयतं नाशयतम् । सचाभुवा
भवतम् । सचा इत्यव्ययं सहार्थे । सचा सह भवतस्तौ सचाभुवौ
क्विप् । कार्येषु संयुक्तौ भवतम् । अष्टौ वसव इत्यादिना त्रय-
त्रिंशद्देवा गणिताः । तारिष्टम् तरतेर्लुङि मध्यमद्विवचनम्
'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५ ) इत्यड-
भावः । मृक्षतम् 'मृजूश् शुद्धौ' 'लेटोऽडाटौ' 'सिब्बहुलं लेटि '
( पा० ३ । १ । ३४ ) इति सिप् 'तस्थस्थमिपाम् -' ( पा०
४ । १०१ ) इति व्यत्ययेन सः तमादेशः ॥ ४७ ॥
अष्टचत्वारिंशी ।
 

 
ए॒ष व॒ स्तोमो॑ मरुत इ॒यं गर्मीन्दार्यस्य॑ म॒न्यस्य॑
कारो: । एषायासीष्ट त॒न्वे व॒या॑ वि॒द्यामे॒प॑ वृ॒जने॑
जीरदानुम् ॥ ४८ ॥
 
उ० एष वः मारुती त्रिष्टुप् । हे महतः, एष स्तोमः वः
युष्माकम् इयं च गौः सत्या च । मम मान्दार्यस्य ऋषेः
समेति स्वस्वामिसंबन्धं दृणातीति मान्दार्थः । यद्वा मां दार-
यति मां द्यतीत्येवं यः सपत्नानां प्रत्ययमादधाति स मान्दार्यः
तस्य मम च मान्यस्य मानार्हस्य । कारोः कर्तुः तं स्तोमं तां च
गिरम् उपश्रुत्य । एषायासीष्ट आ इषा यासीष्ट अयासीष्ट
अयासीरन् इति वचनव्यत्ययः । आगच्छत । इषा अन्न
निमित्तभूतेनाहूयमाना । तन्वे वयां सशरीरस्थित्यर्थं वयो-
दृढकर्तुम् आयासीष्ट । किंच विद्यां लभेमहि । इषमन्नम्
वृजनं बलं च जीरदानुं जीवितदातृकर्म च ॥ ४८ ॥
 
म० मारुती त्रिष्टुप् । हे मरुतः, कारोः कर्तुर्यजमानस्य
एषः स्तोमः इयंच गीः सत्या च प्रिया च वो युष्मभ्यं । युष्म-
दर्थं वर्तत इति शेषः । किंभूतस्य कारोः । मान्दार्यस्य मां
ममेति स्वस्वामिसंबन्धं दारयतीति मान्दार्यः तस्य । वीतरा-
 
गस्येत्यर्थः । यद्वा मां दारयतीत्येवं यः शत्रूणां प्रत्ययमादधाति
स मान्दार्यः । यद्वा मन्दारः कल्पवृक्षः तत्तुल्यो मान्दार्यः तस्य
अथ कामपूरस्येत्यर्थः । मान्यस्य मानार्हस्य । किंच हे मरुतः,
यूयमिषा अन्नेन निमित्तेन अयासीष्ट आगच्छत । किमर्थम् ।
वयां वयसाम् । आमि टिलोप आर्षः । बाल्ययौवनस्थावि-
राणां वयसां संबन्धिन्यै तन्वे शरीराय । सर्वदा शरीरस्थिय-
र्थमित्यर्थः । अस्मच्छरीरं दृढीकर्तुमिति भावः । किंच इषमन्नं